1
[धृ] तस्मिन्न अतिरदे थरॊणे निहते तत्र संजय मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम 2 [स] तस्मिन्न अतिरदे थरॊणे निहते पार्षतेन वै कौरवेषु च भग्नेषु कुन्तीपुत्रॊ धनंजयः 3 थृष्ट्वा सुमहथ आश्चर्यम आत्मनॊ विजयावहम यथृच्छयागतं वयासं पप्रच्छ भरतर्षभ 4 संग्रामे निघ्नतः शत्रूञ शरौघैर विमलैर अहम अग्रतॊ लक्षये यान्तं पुरुषं पावकप्रभम 5 जवलन्तं शूलम उथ्यम्य यां थिशं परतिपथ्यते तस्यां थिशि विशीर्यन्ते शत्रवॊ मे महामुने 6 न पथ्भ्यां सपृशते भूमिं न च शूलं विमुञ्चति शूलाच छूलसहस्राणि निष्पेतुस तस्य तेजसा 7 तेन भग्नान अरीन सर्वान मथ भग्नान मन्यते जनः तेन थग्धानि सैन्यानि पृष्ठतॊ ऽनुथहाम्य अहम 8 भगवंस तन ममाचक्ष्व कॊ वै स पुरुषॊत्तमः शूलपाणिर महान कृष्ण तेजसा सूर्यसंनिभः 9 [व] परजापतीनां परदमं तेजसं पुरुषं विभुम भुवनं भूर भुवं थेवं सर्वलॊकेश्वरं परभुम 10 ईशानं वरथं पार्द थृष्टवान असि शंकरम तं गच्छ शरणं थेवं सर्वाथिं भुवनेश्वरम 11 महाथेवं महात्मानम ईशानं जटिलं शिवम तर्यक्षं महाभुजं रुथ्रं शिखिनं चीरवाससम थातारं चैव भक्तानां परसाथविहितान वरान 12 तस्य ते पार्षथा थिव्या रूपैर नानाविधैर विभॊः वामना जटिला मुण्डा हरस्वग्रीवा महॊथराः 13 महाकाया महॊत्साहा महाकर्णास तदापरे आननैर विकृतैः पाथैः पार्द वेषैश च वैकृतैः 14 ईथृशैः स महाथेवः पूज्यमानॊ महेश्वरः स शिवस तात तेजस्वी परसाथाथ याति ते ऽगरतः तस्मिन घॊरे तथा पार्द संग्रामे लॊमहर्षणे 15 थरॊणकर्णकृपैर गुप्तां महेष्वासैः परहारिभिः कस तां सेनां तथा पार्द मनसापि परधर्षयेत ऋते थेवान महेष्वासाथ बहुरूपान महेश्वरात 16 सदातुम उत्सहते कश चिन न तस्मिन्न अग्रतः सदिते न हि भूतं समं तेन तरिषु लॊकेषु विथ्यते 17 गन्धेनापि हि संग्रामे तस्य करुथ्धस्य शत्रवः विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 18 तस्मै नमस तु कुर्वन्तॊ थेवास तिष्ठन्ति वै थिवि ये चान्ये मानवा लॊके ये च सवर्गजितॊ नराः 19 ये भक्ता वरथं थेवं शिवं रुथ्रम उपा पतिम इह लॊके सुखं पराप्य ते यान्ति परमां गतिम 20 नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सथा रुथ्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे 21 कपर्थिने करालाय हर्यक्ष्णे वरथाय च याम्यायाव्यक्त केशाय सथ्वृत्ते शंकराय च 22 काम्याय हरि नेत्राय सदाणवे पुरुषाय च हरि केशाय मुण्डाय कृशायॊत्तरणाय च 23 भास्कराय सुतीर्दाय थेवथेवाय रंहसे बहुरूपाय शर्वाय परियाय परियवाससे 24 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय परशान्ताय पतये चीरवाससे 25 हिरण्यबाहवे चैव उग्राय पतये थिशाम पर्जन्यपतये चैव भूतानां पतये नमः 26 वृक्षाणां पतये चैव अपां च पतये तदा वृक्षैर आवृतकायाय सेनान्ये मध्यमाय च 27 सरुव हस्ताय थेवाय धन्विने भार्गवाय च बहुरूपाय विश्वस्य पतये चीरवाससे 28 सहस्रशिरसे चैव सहस्रनयनाय च सहस्रबाहवे चैव सहस्रचरणाय च 29 शरणं पराप्य कौन्तेय वरथं भुवनेश्वरम उमापतिं विरूपाक्षं थक्षयज्ञनिबर्हणम परजानां पतिम अव्यग्रं भूतानां पतिम अव्ययम 30 कपर्थिनं वृषावर्तं वृषनाभं वृषध्वजम वृषथर्पं वृषपतिं वृषशृङ्गं वृषर्षभम 31 वृषाङ्कं वृषभॊथारं वृषभं वृषभेक्षणम वृषायुधं वृषशरं वृषभूतं महेश्वरम 32 महॊथरं महाकायं थवीपिचर्म निवासिनम लॊकेशं वरथं मुण्डं बरह्मण्यं बराह्मण परियम 33 तरिशूलपाणिं वरथं खड्गचर्म धरं परभुम पिनाकिनं खण्ड परशुं लॊकानां पतिम ईश्वरम परपथ्ये शरणं थेवं शरण्यं चीरवाससम 34 नमस तस्मै सुरेशाय यस्य वैश्वरणः सखा सुवाससे नमॊ नित्यं सुव्रताय सुधन्विने 35 सरुव हस्ताय थेवाय सुखधन्वाय धन्विने धन्वन्तराय धनुषे धन्वाचार्याय धन्विने 36 उग्रायुधाय थेवाय नमः सुरवराय च नमॊ ऽसतु बहुरूपाय नमश च बहुधन्विने 37 नमॊ ऽसतु सदाणवे नित्यं सुव्रताय सुधन्विने नमॊ ऽसतु तरिपुरघ्नाय भग घनाय च वै नमः 38 वनस्पतीनां पतये नराणां पतये नमः अपां च पतये नित्यं यज्ञानां पतये नमः 39 पूष्णॊ थन्तविनाशाय तर्यक्षाय वरथाय च नीलकण्ठाय पिङ्गाय सवर्णकेशाय वै नमः 40 कर्माणि चैव थिव्यानि महाथेवस्य धीमतः तानि ते कीर्तयिष्यामि यदा परज्ञं यदा शरुतम 41 न सुरा नासुरा लॊके न गन्धर्वा न राक्षसाः सुखम एधन्ति कुपिते तस्मिन्न अपि गुहा गताः 42 विव्याध कुपितॊ यज्ञं निर्भयस तु भवस तथा धनुषा बाणम उत्सृज्य स घॊषं विननाथ च 43 ते न शर्म कुतः शान्तिं लेभिरे सम सुरास तथा विथ्रुते सहसा यज्ञे कुपिते च महेश्वरे 44 तेन जयातलघॊषेण सर्वे लॊकाः समाकुलाः बभूवुर वशगाः पार्द निपेतुश च सुरासुराः 45 आपश चुक्षुभिरे सर्वाश चकम्पे च वसुंधरा पर्वताश च वयशीर्यन्त थिशॊ नागाश च मॊहिताः 46 अन्धाश च तमसा लॊका न परकाशन्त संवृताः जघ्निवान सह सूर्येण सर्वेणां जयॊतिषां परभाः 47 चुक्रुशुर भयभीताश च शान्तिं चक्रुस तदैव च ऋषयः सर्वभूतानाम आत्मनश च सुखैषिणः 48 पूषाणम अभ्यथ्रवत शंकरः परहसन्न इव पुरॊडाशं भक्षयतॊ थशनान वै वयशातयत 49 ततॊ निश्चक्रमुर थेवा वेपमाना नताः सम तम पुनश च संथधे थीप्तं थेवानां निशितं शरम 50 रुथ्रस्य यज्ञभागं च विशिष्टं ते नव अकल्पयन भयेन तरिथशा राजञ शरणं च परपेथिरे 51 तेन चैवातिकॊपेन स यज्ञः संधितस तथा यत्ताश चापि सुरा आसन यत्ताश चाथ्यापि तं परति 52 असुराणां पुराण्य आसंस तरीणि वीर्यवतां थिवि आयसं राजतं चैव सौवर्णम अपरं महत 53 आयसं तारकाक्षस्य कमलाक्षस्य राजतम सौवर्णं परमं हय आसीथ विथ्युन्मालिन एव च 54 न शक्तस तानि मघवान भेत्तुं सर्वायुधैर अपि अद सर्वे ऽमरा रुथ्रं जग्मुः शरणम अर्थिताः 55 ते तम ऊचुर महात्मानं सर्वे थेवाः स वासवाः रुथ्र रौथ्रा भविष्यन्ति पशवः सर्वकर्मसु निपातयिष्यसे चैनान असुरान भुवनेश्वर 56 स तदॊक्तस तदेत्य उक्त्वा थेवानां हितकाम्यया अतिष्ठत सदाणुभूतः स सहस्रं परिवत्सरान 57 यथा तरीणि समेतानि अन्तरिक्षे पुराणि वै तरिपर्वणा तरिशल्येन तेन तानि बिभेथ सः 58 पुराणि न च तं शेकुर थानवाः परतिवीक्षितुम शरं कालाग्निसंयुक्तं विष्णुसॊमसमायुतम 59 बालम अङ्कगतं कृत्वा सवयं पञ्च शिखं पुनः उमा जिज्ञासमाना वै कॊ यम इत्य अब्रवीत सुरान 60 बाहुं सवज्रं शक्रस्य करुथ्धस्यास्तम्भयत परभु स एष भगवान थेवः सर्वलॊकेश्वरः परभुः 61 न संबुबुधिरे चैनं थेवास तं भुवनेश्वरम स परजापतयः सर्वे बालार्कसथृशप्रभम 62 अदाभ्येत्य ततॊ बरह्मा थृष्ट्वा च स महेश्वरम अयं शरेष्ठ इति जञात्वा ववन्थे तं पितामहः 63 ततः परसाथयाम आसुर उमां रुथ्रं च ते सुराः अभवच च पुनर बाहुर यदा परकृतिवज्रिणः 64 तेषां परसन्नॊ भगवान सपत्नीकॊ वृषध्वजः थेवानां तरिथशश्रेष्ठॊ थक्षयज्ञविनाशनः 65 स वै रुथ्रः स च शिवः सॊ ऽगनिः शर्वः स सर्ववित स चेन्थ्रश चैव वायुश च सॊ ऽशविनौ स च विथ्युतः 66 स भवः स च पर्जन्यॊ महाथेवः स चानघः स चन्थ्रमाः स चेशानः स सूर्यॊ वरुणश च सः 67 स कालः सॊ ऽनतकॊ मृत्युः स यमॊ रात्र्यहानि च मासार्ध मासा ऋतवः संध्ये संवत्सरश च सः 68 स च धाता विधाता च विश्वात्मा विश्वकर्मकृत सर्वासां थेवतानां च धारयत्य अवपुर वपुः 69 सर्वैर थेवैः सतुतॊ थेवः सैकथा बहुधा च सः शतधा सहस्रधा चैव तदा शतसहस्रधा 70 ईथृशः स महाथेवॊ भूयश च भगवान अजः न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः 71 सर्वैर गरहैर गृहीतान वै सर्वपापसमन्वितान स मॊचयति सुप्रीतः शरण्यः शरणागतान 72 आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान स थथाति मनुष्येभ्यः स चैवाक्षिपते पुनः 73 सेन्थ्राथिषु च थेवेषु तस्य चैश्वर्यम उच्यते स चैव वयाहृते लॊके मनुष्याणां शुभाशुभे 74 ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते महेश्वरश च भूतानां महताम ईश्वरश च सः 75 बहुभिर बहुधा रूपैर विश्वं वयाप्नॊति वै जगत अस्य थेवस्य यथ वक्त्रं समुथ्रे तथ अतिष्ठत 76 एष चैव शमशानेषु थेवॊ वसति नित्यशः यजन्त्य एनं जनास तत्र वीर सदान इतीश्वरम 77 अस्य थीप्तानि रूपाणि घॊराणि च बहूनि च लॊके यान्य अस्य कुर्वन्ति मनुष्याः परवथन्ति च 78 नामधेयानि लॊकेषु बहून्य अत्र यदार्दवत निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तदा 79 वेथे चास्य समाम्नातं शतरुथ्रीयम उत्तमम नाम्ना चानन्त रुथ्रेति उपस्दानं महात्मनः 80 स कामानां परभुर थेवॊ ये थिव्या ये च मानुषाः स विभुः स परभुर थेवॊ विश्वं वयाप्नुवते महत 81 जयेष्ठं भूतं वथन्त्य एनं बराह्मणा मुनयस तदा परदमॊ हय एष थेवानां मुखाथ अस्यानलॊ ऽभवत 82 सर्वदा यत पशून पाति तैश च यथ रमते पुनः तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः 83 नित्येन बरह्मचर्येण लिङ्गम अस्य यथा सदितम महयन्ति च लॊकाश च महेश्वर इति समृतः 84 ऋषयश चैव थेवाश च गन्धर्वाप्सरसस तदा लिङ्गम अस्यार्चयन्ति सम तच चाप्य ऊर्ध्वं समास्दितम 85 पूज्यमाने ततस तस्मिन मॊथते स महेश्वरः सुखी परीतश च भवति परहृष्टश चैव शंकरः 86 यथ अस्य बहुधा रूपं भूतभव्य भवत सदितम सदावरं जङ्गमं चैव बहुरूपस ततः समृतः 87 एकाक्षॊ जाज्वलन्न आस्ते सर्वतॊ ऽकषिमयॊ ऽपि वा करॊधाथ्यश चाविशल लॊकांस तस्माच छर्व इति समृतः 88 धूम्रं रूपं च यत तस्य धूर्जटिस तेन उच्यते विश्वे थेवाश च यत तस्मिन विश्वरूपस ततः समृतः 89 तिस्रॊ थेवीर यथा चैव भजते भुवनेश्वरः थयाम अपः पृदिवीं चैव तर्यम्बकश च ततः समृतः 90 समेधयति यन नित्यं सर्वार्दान सर्वकर्मसु शिवम इच्छन मनुष्याणां तस्माथ एश शिवः समृतः 91 सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा यच च विश्वं महत पाति महाथेवस ततः समृतः 92 थहत्य ऊर्ध्वं सदितॊ यच च पराणॊत्पत्तिः सदितिश च यत सदितलिङ्गश च यन नित्यं तस्मात सदाणुर इति समृतः 93 विषमस्दः शरीरेषु समश च पराणिनाम इह स वायुर विषमस्देषु पराणापानशरीरिषु 94 पूजयेथ विग्रहं यस तु लिङ्गं वापि समर्चयेत लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते 95 ऊरुभ्याम अर्धम आग्नेयं सॊमार्धं च शिवा तनुः आत्मनॊ ऽरधं च तस्याग्निः सॊमॊ ऽरधं पुनर उच्यते 96 तैजसी महती थीप्ता थेवेभ्यश च शिवा तनुः भास्वती मानुषेष्व अस्य तनुर घॊराग्निर उच्यते 97 बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तया यास्य घॊरतरा मूर्तिः सर्वान अत्ति तयेश्वरः 98 यन निर्थहति यत तीक्ष्णॊ यथ उग्रॊ यत परतापवान मांसशॊणितमज्जाथॊ यत ततॊ रुथ्र उच्यते 99 एष थेवॊ महाथेवॊ यॊ ऽसौ पार्द तवाग्रतः संग्रामे शात्रवान निघ्नंस तवया थृष्टः पिनाक धृक 100 एष वै भगवान थेवः संग्रामे यति ते ऽगरतः येन थत्तानि ते ऽसत्राणि यैस तवया थानवा हताः 101 धन्यं यशस्यम आयुष्यं पुण्यं वेथैश च संज्ञितम थेवथेवस्य ते पार्द वयाख्यात्म शतरुथ्रियम 102 सर्वार्दसाधकं पुण्यं सर्वकिल्बिष नाशनम सर्वपापप्रशमनं सर्वथुःखभयापहम 103 चतुर्विधम इथं सतॊत्रं यः शृणॊति नरः सथा विजित्य सर्वाञ शत्रून स रुथ्र लॊके महीयते 104 चरितं महात्मनॊ थिव्यं सांग्रामिकम इथं शुभम पठन वै शतरुथ्रीयं शृण्वंश च सततॊत्दितः 105 भक्तॊ विश्वेश्वरं थेवं मानुषेषु तु यः सथा वरान स कामाँल लभते परसन्ने तर्यम्बके नरः 106 गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः यस्य मन्त्री च गॊप्ता च पार्श्वतस ते जनार्थनः 107 [स] एवम उक्त्वार्जुनं संख्ये पराशर सुतस तथा जगाम भरतश्रेष्ठ यदागतम अरिंथम |
1
[dhṛ] tasminn atirathe droṇe nihate tatra saṃjaya māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param 2 [s] tasminn atirathe droṇe nihate pārṣatena vai kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ 3 dṛṣṭvā sumahad āścaryam ātmano vijayāvaham yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha 4 saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham 5 jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate tasyāṃ diśi viśīryante śatravo me mahāmune 6 na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati śūlāc chūlasahasrāṇi niṣpetus tasya tejasā 7 tena bhagnān arīn sarvān mad bhagnān manyate janaḥ tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham 8 bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ 9 [v] prajāpatīnāṃ prathamaṃ tejasaṃ puruṣaṃ vibhum bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum 10 īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram 11 mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam dātāraṃ caiva bhaktānāṃ prasādavihitān varān 12 tasya te pārṣadā divyā rūpair nānāvidhair vibhoḥ vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ 13 mahākāyā mahotsāhā mahākarṇās tathāpare ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ 14 īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ sa śivas tāta tejasvī prasādād yāti te 'grataḥ tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe 15 droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet ṛte devān maheṣvāsād bahurūpān maheśvarāt 16 sthātum utsahate kaś cin na tasminn agrataḥ sthite na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate 17 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca 18 tasmai namas tu kurvanto devās tiṣṭhanti vai divi ye cānye mānavā loke ye ca svargajito narāḥ 19 ye bhaktā varadaṃ devaṃ śivaṃ rudram upā patim iha loke sukhaṃ prāpya te yānti paramāṃ gatim 20 namaskuruṣva kaunteya tasmai śāntāya vai sadā rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase 21 kapardine karālāya haryakṣṇe varadāya ca yāmyāyāvyakta keśāya sadvṛtte śaṃkarāya ca 22 kāmyāya hari netrāya sthāṇave puruṣāya ca hari keśāya muṇḍāya kṛśāyottaraṇāya ca 23 bhāskarāya sutīrthāya devadevāya raṃhase bahurūpāya śarvāya priyāya priyavāsase 24 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe giriśāya praśāntāya pataye cīravāsase 25 hiraṇyabāhave caiva ugrāya pataye diśām parjanyapataye caiva bhūtānāṃ pataye namaḥ 26 vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā vṛkṣair āvṛtakāyāya senānye madhyamāya ca 27 sruva hastāya devāya dhanvine bhārgavāya ca bahurūpāya viśvasya pataye cīravāsase 28 sahasraśirase caiva sahasranayanāya ca sahasrabāhave caiva sahasracaraṇāya ca 29 śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam 30 kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham 31 vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram 32 mahodaraṃ mahākāyaṃ dvīpicarma nivāsinam lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇa priyam 33 triśūlapāṇiṃ varadaṃ khaḍgacarma dharaṃ prabhum pinākinaṃ khaṇḍa paraśuṃ lokānāṃ patim īśvaram prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam 34 namas tasmai sureśāya yasya vaiśvaraṇaḥ sakhā suvāsase namo nityaṃ suvratāya sudhanvine 35 sruva hastāya devāya sukhadhanvāya dhanvine dhanvantarāya dhanuṣe dhanvācāryāya dhanvine 36 ugrāyudhāya devāya namaḥ suravarāya ca namo 'stu bahurūpāya namaś ca bahudhanvine 37 namo 'stu sthāṇave nityaṃ suvratāya sudhanvine namo 'stu tripuraghnāya bhaga ghnāya ca vai namaḥ 38 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ 39 pūṣṇo dantavināśāya tryakṣāya varadāya ca nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ 40 karmāṇi caiva divyāni mahādevasya dhīmataḥ tāni te kīrtayiṣyāmi yathā prajñaṃ yathā śrutam 41 na surā nāsurā loke na gandharvā na rākṣasāḥ sukham edhanti kupite tasminn api guhā gatāḥ 42 vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā dhanuṣā bāṇam utsṛjya sa ghoṣaṃ vinanāda ca 43 te na śarma kutaḥ śāntiṃ lebhire sma surās tadā vidrute sahasā yajñe kupite ca maheśvare 44 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ 45 āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ 46 andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ jaghnivān saha sūryeṇa sarveṇāṃ jyotiṣāṃ prabhāḥ 47 cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ 48 pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat 49 tato niścakramur devā vepamānā natāḥ sma tam punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram 50 rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan bhayena tridaśā rājañ śaraṇaṃ ca prapedire 51 tena caivātikopena sa yajñaḥ saṃdhitas tadā yattāś cāpi surā āsan yattāś cādyāpi taṃ prati 52 asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat 53 āyasaṃ tārakākṣasya kamalākṣasya rājatam sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca 54 na śaktas tāni maghavān bhettuṃ sarvāyudhair api atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ 55 te tam ūcur mahātmānaṃ sarve devāḥ sa vāsavāḥ rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu nipātayiṣyase cainān asurān bhuvaneśvara 56 sa tathoktas tathety uktvā devānāṃ hitakāmyayā atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān 57 yadā trīṇi sametāni antarikṣe purāṇi vai triparvaṇā triśalyena tena tāni bibheda saḥ 58 purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam 59 bālam aṅkagataṃ kṛtvā svayaṃ pañca śikhaṃ punaḥ umā jijñāsamānā vai ko yam ity abravīt surān 60 bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhu sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ 61 na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram sa prajāpatayaḥ sarve bālārkasadṛśaprabham 62 athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ 63 tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ abhavac ca punar bāhur yathā prakṛtivajriṇaḥ 64 teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ 65 sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ 66 sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ 67 sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca māsārdha māsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ 68 sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ 69 sarvair devaiḥ stuto devaḥ saikadā bahudhā ca saḥ śatadhā sahasradhā caiva tathā śatasahasradhā 70 īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ 71 sarvair grahair gṛhītān vai sarvapāpasamanvitān sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān 72 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ 73 sendrādiṣu ca deveṣu tasya caiśvaryam ucyate sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe 74 aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ 75 bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat asya devasya yad vaktraṃ samudre tad atiṣṭhata 76 eṣa caiva śmaśāneṣu devo vasati nityaśaḥ yajanty enaṃ janās tatra vīra sthāna itīśvaram 77 asya dīptāni rūpāṇi ghorāṇi ca bahūni ca loke yāny asya kurvanti manuṣyāḥ pravadanti ca 78 nāmadheyāni lokeṣu bahūny atra yathārthavat nirucyante mahattvāc ca vibhutvāt karmabhis tathā 79 vede cāsya samāmnātaṃ śatarudrīyam uttamam nāmnā cānanta rudreti upasthānaṃ mahātmanaḥ 80 sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat 81 jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat 82 sarvathā yat paśūn pāti taiś ca yad ramate punaḥ teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ 83 nityena brahmacaryeṇa liṅgam asya yadā sthitam mahayanti ca lokāś ca maheśvara iti smṛtaḥ 84 ṛṣayaś caiva devāś ca gandharvāpsarasas tathā liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam 85 pūjyamāne tatas tasmin modate sa maheśvaraḥ sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ 86 yad asya bahudhā rūpaṃ bhūtabhavya bhavat sthitam sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ 87 ekākṣo jājvalann āste sarvato 'kṣimayo 'pi vā krodhādyaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ 88 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ 89 tisro devīr yadā caiva bhajate bhuvaneśvaraḥ dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ 90 samedhayati yan nityaṃ sarvārthān sarvakarmasu śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ 91 sahasrākṣo 'yutākṣo vā sarvato 'kṣimayo 'pi vā yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ 92 dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ 93 viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu 94 pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute 95 ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate 96 taijasī mahatī dīptā devebhyaś ca śivā tanuḥ bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate 97 brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ 98 yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān māṃsaśoṇitamajjādo yat tato rudra ucyate 99 eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pināka dhṛk 100 eṣa vai bhagavān devaḥ saṃgrāme yati te 'grataḥ yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ 101 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam devadevasya te pārtha vyākhyātma śatarudriyam 102 sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣa nāśanam sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham 103 caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā vijitya sarvāñ śatrūn sa rudra loke mahīyate 104 caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ 105 bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā varān sa kāmāṁl labhate prasanne tryambake naraḥ 106 gaccha yudhyasva kaunteya na tavāsti parājayaḥ yasya mantrī ca goptā ca pārśvatas te janārdanaḥ 107 [s] evam uktvārjunaṃ saṃkhye parāśara sutas tadā jagāma bharataśreṣṭha yathāgatam ariṃdama |