1
[स] करूरम आयॊधनं जज्ञे तस्मिन राजसमागमे रुथ्रस्येव हि करुथ्धस्य निघ्नतस तु पशून यदा 2 हस्तानाम उत्तमाङ्गानां कार्मुकाणां च भारत छत्राणां चापविथ्धानां चामराणां च संयुगे 3 भग्नचक्रै रदैश चापि पातितैश च महाध्वजैः साथिभिश च हतैः शूरैः संकीर्णा वसुधाभवत 4 बाणपात निकृत्तास तु यॊधास ते कुरुसत्तम चेष्टन्तॊ विविधाश चेष्टा वयथृश्यन्त महाहवे 5 वर्तमाने तदा युथ्धे घॊरे थेवासुरॊपमे अब्रवीत कषत्रियांस तत्र धर्मराजॊ युधिष्ठिरः अभिथ्रवत संयत्ताः कुम्भयॊनिं महारदाः 6 एष वै पार्षतॊ वीरॊ भारथ्वाजेन संगतः घटते च यदाशक्ति भारथ्वाजस्य नाशने 7 याथृशानि हि रूपाणि थृश्यन्ते नॊ महारणे अथ्य थरॊणं रणे करुथ्धः पातयिष्यति पार्षतः ते यूयं सहिता भूत्वा कुम्भयॊनिं परीप्सत 8 युधिष्ठिर समाज्ञप्ताः सृञ्जयानां महारदाः अभ्यथ्रवन्त संयत्ता भारथ्वाजं जिघांसवः 9 तान समापततः सर्वान भारथ्वाजॊ महारदः अभ्यथ्रवत वेगेन मर्तव्यम इति निश्चितः 10 परयाते सत्यसंधे तु समकम्पत मेथिनी ववुर वाताः स निर्घातास तरासयन्ति वरूदिनीम 11 पपात महती चॊल्का आथित्यान निर्गतेव ह थीपयन्तीव तापेन शंसन्तीव महथ भयम 12 जज्वलुश चैव शस्त्राणि भारथ्वाजस्य मारिष रदाः सवनन्ति चात्यर्दं हयाश चाश्रूण्य अवासृजन 13 हतौजा इव चाप्य आसीथ भारथ्वाजॊ महारदः ऋषीणां बरह्मवाथानां सवर्गस्य गमनं परति सुयुथ्धेन ततः पराणान उत्स्रष्टुम उपचक्रमे 14 ततश चतुर्थिशं सैन्यैर थरुपथस्याभिसंवृतः निर्थहन कषत्रिय वरातान थरॊणः पर्यचरथ रणे 15 हत्वा विंशतिसाहस्रान कषत्रियान अरिमर्थनः थशायुतानि तीक्ष्णाग्रैर अवधीथ विशिखैः शितैः 16 सॊ ऽतिष्ठथ आहवे यत्तॊ विधूम इव पावकः कषत्रियाणाम अभावाय बराह्मम आत्मानम आस्दितः 17 पाञ्चाल्यं विरदं भीमॊ हतसर्वायुधं वशी अविषण्णं महात्मानं तवरमाणः समभ्ययात 18 ततः सवरदम आरॊप्य पाञ्चाल्यम अरिमर्थनः अब्रवीथ अभिसंप्रेक्ष्य थरॊणम अस्यन्तम अन्तिकात 19 न तवथन्य इहाचार्यं यॊथ्धुम उत्सहते पुमान तवरस्व पराग वधायैव तवयि भारः समाहितः 20 स तदॊक्तॊ महाबाहुः सर्वभारसहं नवम अभिपत्याथथे कषिप्रम आयुधप्रवरं थृढम 21 संरब्धश चशरान अस्यन थरॊणं थुर्वारणं रणे विवारयिषुर आचार्यं शरवर्षैर अवाकिरत 22 तौ नयवारयतां शरेष्ठौ संरब्धौ रणशॊभिनौ उथीरयेतां बराह्माणि थिव्यान्य अस्त्राण्य अनेकशः 23 स महास्त्रैर महाराज थरॊणम आच्छाथयथ रणे निहत्य सर्वाण्य अस्त्राणि भारथ्वाजस्य पार्षतः 24 स वसातीञ शिबींश चैव बाह्लीकान कौरवान अपि रक्षिष्यमाणान संग्रामे थरॊणं वयधमथ अच्युतः 25 धृष्टथ्युम्नस तथा राजन गभस्तिभिर इवांशुमान बभौ परच्छाथयन नाशाः शरजालैः समन्ततः 26 तस्य थरॊणॊ धनुश छित्त्वा विथ्ध्वा चैनं शिलीमुखैः मर्माण्य अभ्यहनथ भूयः स वयदां परमाम अगात 27 ततॊ भीमॊ थृढक्रॊधॊ थरॊणस्याल्शिष्य तं रदम शनकैर इव राजेन्थ्र थरॊणं वचनम अब्रवीत 28 यथि नाम न युध्येरञ शिक्षिता बरह्म बन्धवः सवकर्मभिर असंतुष्टा न सम कषत्रं कषयं वरजेत 29 अहिंसा सर्वभूतेषु धर्मं जयायस्तरं विथुः तस्य च बराह्मणॊ मूलं भवांश च बरह्मवित्तमः 30 शवपाकवन मलेच्छ गणान हत्वा चान्यान पृदग्विधान अज्ञानान मूढवथ बरह्मन पुत्रथारधनेप्सया 31 एकस्यार्दे बहून हत्वा पुत्रस्याधर्मविथ यदा सवकर्मस्दान विकर्मस्दॊ न वयपत्रपसे कदम 32 स चाथ्य पतितः शेते पृष्टेनावेथितस तव धर्मराजेन तथ वाक्यं नातिशङ्कितुम अर्हसि 33 एवम उक्तस ततॊ थरॊणॊ भीमेनॊत्सृज्य तथ धनुः सर्वाण्य अस्त्राणि धर्मात्मा हातु कामॊ ऽभयभाषत कर्ण कर्ण महेष्वास कृप थुर्यॊधनेति च 34 संग्रामे करियतां यत्नॊ बरवीम्य एष पुनः पुनः पाण्डवेभ्यः शिवं वॊ ऽसतु शस्त्रम अभ्युत्सृजाम्य अहम 35 इति तत्र महाराज पराक्रॊशथ थरौणिम एव च उत्सृज्य च रणे शस्त्रं रदॊपस्दे निवेश्य च अभयं सर्वभूतानां परथथौ यॊगयुक्तवान 36 तस्य तच छिथ्रम आज्ञाय धृष्टथ्युम्नः समुत्दितः खड्गी रदाथ अवप्लुत्य सहसा थरॊणम अभ्ययात 37 हाहाकृतानि भूतानि मानुषाणीतराणि च थरॊणं तदागतं थृष्ट्वा धृष्टथ्युम्न वशंगतम 38 हाहाकारं भृशं चक्रुर अहॊ धिग इति चाब्रुवन थरॊणॊ ऽपि शस्त्राण्य उत्सृज्य परमं साम्यम आस्दितः 39 तदॊक्त्वा यॊगम आस्दाय जयॊतिर भूतॊ महातपाः थिवम आक्रामथ आचार्यः सथ्भिः सह थुराक्रमम 40 थवौ सूर्याव इति नॊ बुथ्धिर आसीत तस्मिंस तदागते एकाग्रम इव चासीथ धि जयॊतिर्भिः पूरितं नभः समपथ्यत चार्काभे भारथ्वाज निशाकरे 41 निमेष मात्रेण च तज जयॊतिर अन्तरधीयत आसीत किलकिला शब्थः परहृष्टानां थिवौकसाम बरह्मलॊकं गते थरॊणे धृष्टथ्युम्ने च मॊहिते 42 वयम एव तथाथ्राक्ष्म पञ्च मानुषयॊनयः यॊगयुक्तं महात्मानं गच्छन्तं परमां गतिम 43 अहं धनंजयः पार्दः कृपः शारथ्वतॊ थविजः वासुथेवश च वार्ष्णेयॊ धर्मराजश च पाण्डवः 44 अन्ये तु सर्वे नापश्यन भारथ्वाजस्य धीमतः महिमानं महाराज यॊगमुक्तस्य गच्छतः 45 गतिं परमिकां पराप्तम अजानन्तॊ नृयॊनयः नापश्यन गच्छमानं हि तं सार्धम ऋषिपुंगवैः आचार्यं यॊगम आस्दाय बरह्मलॊकम अरिंथमम 46 वितुन्नाङ्गं शरशतैर नयस्तायुधम असृक कषरम धिक्कृतः पार्तषस तं तु सर्वभूतैः परामृशत 47 तस्य मूर्धानम आलम्ब्य गतसत्त्वस्य थेहिनः किं चिथ अब्रुवतः कायाथ विचकर्तासिना शिरः 48 हर्षेण महता युक्तॊ भारथ्वाजे निपातिते सिंहनाथ रवं चक्रे भामयन खड्गम आहवे 49 आकर्णपलितः शयामॊ वयसाशीति पञ्चकः तवत्कृते वयचरत संख्ये स तु षॊडथ वर्षवत 50 उक्तवांश च महाबाहुः कुन्तीपुत्रॊ धनंजयः जीवन्तम आनयाचार्यं मा वधीर थरुपथात्मजः 51 न हन्तव्यॊ न हन्तव्य इति ते सैनिकाश च ह उत्क्रॊशन्न अर्जुनश चैव सानुक्रॊशस तम आथ्रवत 52 करॊशमाने ऽरजुने चैव पार्दिवेषु च सर्वशः धृष्टथ्युम्नॊ ऽवधीथ थरॊणं रदतल्पे नरर्षभम 53 शॊणितेन परिक्लिन्नॊ रदाथ भूमिम अरिंथमः लॊहिताङ्ग इवाथित्यॊ थुर्थर्शः समपथ्यत एवं तं निहतं संख्ये थथृशे सैनिकॊ जनः 54 धेष्टथ्युम्नस तु तथ राजन भारथ्वाज शिरॊमहत तावकानां महेष्वासः परमुखे तत समाक्षिपत 55 ते तु थृष्ट्वा शिरॊ राजन भारथ्वाजस्य तावकाः पलायनकृतॊत्साहा थुथ्रुवुः सर्वतॊथिशम 56 थरॊणस तु थिवम आस्दाय नक्षत्रपदम आविशत अहम एव तथाथ्राक्षं थरॊणस्य निधनं नृप 57 ऋषेः परसाथात कृष्णस्य सत्यवत्याः सुतस्य च विधूमाम इव संयान्तीम उल्कां परज्वलिताम इव अपश्याम थिवं सतब्ध्वा गच्छन्तं तं महाथ्युतिम 58 हते थरॊणे निरुत्साहान कुरून पाण्डव सृञ्जयाः अभ्यथ्रवन महावेगास ततः सैन्यं वयथीर्यत 59 निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः तावका निहते थरॊणे गतासव इवाभवन 60 पराजयम अदावाप्य परत्र च महथ भयम उभयेनैव ते हीना नाविन्थन धृतिम आत्मनः 61 अन्विच्छन्तः शरीरं तु भारथ्वाजस्य पार्दिवाः नाध्यगच्छंस तथा राजन कबन्धायुत संकुले 62 पाण्डवास तु जयं लब्ध्वा परत्र च महथ यशः बाणशब्थरवांश चक्रुः सिंहनाथांश च पुष्कलान 63 भीमसेनस ततॊ राजन धृष्टथ्युम्नश च पार्षतः वरूदिन्याम अनृत्येतां परिष्वज्य परस्परम 64 अब्रवीच च तथा भीमः पार्षतं शत्रुतापनम भूयॊ ऽहं तवां विजयिनं परिष्वक्ष्यामि पार्षत सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे 65 एतावथ उक्त्वा भीमस तु हर्षेण महता युतः बाहुशब्थेन पृदिवीं कम्पयाम आस पाण्डवः 66 तस्य शब्थेन वित्रस्ताः पराथ्रवंस तावका युधि कषत्रधर्मं समुत्सृज्य पलायनपरायणाः 67 पाण्डवास तु जयं लब्ध्वा हृष्टा हय आसन विशां पते अरिक्षयं च संग्रामे तेन ते सुखम आप्नुवन 68 ततॊ थरॊणे हते राजन कुरवः शस्त्रपीडिताः हतप्रवीरा विध्वस्ता भृशं शॊकपरायणाः 69 विचेतसॊ हतॊत्साहाः कश्मलाभिहतौजसः आर्तस्वरेण महता पुत्रं ते पर्यवारयन 70 रजस्वला वेपमाना वीक्षमाणा थिशॊ थश अश्रुकण्ठा यदा थैत्या हिरण्याक्षे पुरा हते 71 स तैः परिवृतॊ राजा तरस्तैः कषुथ्रमृगैर इव अशक्नुवन्न अवस्दातुम अपायात तनयस तव 72 कषुत्पिपासापरिश्रान्तास ते यॊधास तव भारत आथित्येन च संतप्ता भृशं विमनसॊ ऽभवन 73 भास्करस्येव पतनं समुथ्रस्येव शॊषणम विपर्यासं यदा मेरॊर वासवस्येव निर्जयम 74 अमर्षणीयं तथ थृष्ट्वा भारथ्वाजस्य पातनम तरस्तरूपतरा राजन कौरवाः पराथ्रवन भयात 75 गान्धारराजः शकुनिस तरस्तस तरस्ततरैः सह हतं रुक्मरदं थृष्ट्वा पराथ्रवत सहितॊ रदैः 76 वरूदिनीं वेगवतीं विथ्रुतां स पताकिनीम परिगृह्य महासेनां सूतपुत्रॊ ऽपयाथ भयात 77 रदनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम मथ्राणाम ईश्वरः शल्यॊ वीक्षमाणॊ ऽपयाथ भयात 78 हतप्रवीरैर भूयिष्ठं थविपैर बहु पथातिभिः वृतः शारथ्वतॊ ऽगच्छत कष्टं कदम इति बरुवन 79 भॊजानीकेन शिष्टेन कलिङ्गारट्ट बाह्लिकैः कृतवर्मा वृतॊ राजन परायान सुजवनैर हयैः 80 पथातिगणसंयुक्तस तरस्तॊ राजन भयार्थितः उलूकः पराथ्रवत तत्र थृष्ट्वा थरॊणं निपातितम 81 थर्शनीयॊ युवा चैव शौर्ये च कृतलक्षणः थुःशासनॊ भृशॊथ्विग्नः पराथ्रवथ गजसंवृतः 82 गजाश्वरदसंयुक्तॊ वृतश चैव पथातिभिः थुर्यॊधनॊ महाराज परायात तत्र महारदः 83 गजान रदान समारुह्य परस्यापि हयाञ जनाः परकीर्णकेशा विध्वस्ता न थवाव एकत्र धावतः 84 नेथम अस्तीति पुरुषा हतॊत्साहा हतौजसः उत्सृज्य कवचान अन्ये पराथ्रवंस तावका विभॊ 85 अन्यॊन्यं ते समाक्रॊशन सैनिका भरतर्षभ तिष्ठ तिष्ठेति न च ते सवयं तत्रावतस्दिरे 86 धुर्यान परमुच्य तु रदाथ धतसूतान सवलंकृतान अधिरुह्य हयान यॊधाः कषिप्रं पथ्भिर अचॊथयन 87 थरवमाणे तदा सैन्ये तरस्तरूपे हतौजसि परतिस्रॊत इव गराहॊ थरॊणपुत्रः परान इयात 88 हत्वा बहुविधां सेनां पाण्डूनां युथ्धथुर्मथः कदं चित संकटान मुक्तॊ मत्तथ्विरथविक्रमः 89 थरवमाणं बलं थृष्ट्वा पलायनकृतक्षणम थुर्यॊधनं समासाथ्य थरॊणपुत्रॊ ऽबरवीथ इथम 90 किम इयं थरवते सेना तरस्तरूपेव भारत थरवमाणां च राजेन्थ्र नावस्दापयसे रणे 91 तवं चापि न यदा पूर्वं परकृतिस्दॊ नराधिप कर्णप्रभृतयश चेमे नावतिष्ठन्ति पार्दिवाः 92 अन्येष्व अपि च युथ्धेषु नैव सेनाथ्रवत तथा कच चित कषेमं महाबाहॊ तव सैन्यस्य भारत 93 कस्मिन्न इथं हते राजन रदसिंहे बलं तव एताम अवस्दां संप्राप्तं तन ममाचक्ष्व कौरव 94 तत तु थुर्यॊधनः शरुत्वा थरॊणपुत्रस्य भाषितम घॊरम अप्रियम आख्यातुं नाशकत पार्दिवर्षभः 95 भिन्ना नौर इव ते पुत्रॊ निमग्नः शॊकसागरे बाष्पेण पिहितॊ थृष्ट्वा थरॊणपुत्रं रदे सदितम 96 ततः शारथ्वतं राजा सव्रीडम इथम अब्रवीत शंसेह सर्वं भथ्रं ते यदा सैन्यम इथं थरुतम 97 अतः शारथ्वतॊ राजन्न आर्तिं गच्छन पुनः पुनः शशंस थरॊणपुत्राय यदा थरॊणॊ निपातितः 98 [कृप] वयं थरॊणं पुरस्कृत्य पृदिव्यां परवरं रदम परावर्तयाम संग्रामं पाञ्चालैर एव केवलैः 99 ततः परवृत्ते संग्रामे विमिश्राः कुरु सॊमकाः अन्यॊन्यम अभिगर्जन्तः शस्त्रैर थेहान अपातयन 100 ततॊ थरॊणॊ बराह्मम अस्त्रं विकुर्वाणॊ नरर्षभः अहनच छात्रवान भल्लैः शतशॊ ऽद सहस्रशः 101 पाण्डवाः केकया मत्स्याः पाञ्चालाश च विशेषतः संख्ये थरॊण रदं पराप्य वयनशन कालचॊथिताः 102 सहस्रं रदसिंहानां थविसाहस्रं च थन्तिनाम थरॊणॊ बरह्मास्त्र निर्थग्धं परेषयाम आस मृत्यवे 103 आकर्णपलितः शयामॊ वयसाशीति पञ्चकः रणे पर्यचरथ थरॊणॊ वृथ्धः षॊडशवर्षवत 104 कलिश्यमानेषु सैन्येषु वध्यमानेषु राजसु अमर्षवशम आपन्नाः पाञ्चाला विमुखाभवन 105 तेषु किं चित परभग्नेषु विमुखेषु सपत्नजित थिव्यम अस्त्रं विकुर्वाणॊ बभूवार्क इवॊथितः 106 स मध्यं पराप्य पाण्डूनां शररश्मिः परतापवान मध्यं गत इवाथित्यॊ थुष्प्रेक्ष्यस ते पिताभवत 107 ते थह्यमाना थरॊणेन सूर्येणेव विराजता थग्धवीर्या निरुत्साहा बभूवुर गतचेतसः 108 तान थृष्ट्वा पीडितान बाणैर थरॊणेन मधुसूथनः जयैषी पाण्डुपुत्राणाम इथं वचनम अब्रवीत 109 नैष जातु परैः शक्यॊ जेतुं शस्त्रभृतां वरः अपि वृत्रहणा संख्ये रदयूदप यूदपः 110 ते यूयं धर्मम उत्सृज्य जयं रक्षत पाण्डवाः यदा वः संयुगे सर्वान न हन्याथ रुक्मवाहनः 111 अश्वत्दाम्नि हते नैष युध्येथ इति मतिर मम हतं तं संयुगे कश चिथ आख्यात्व अस्मै मृषा नरः 112 एतन नारॊचयथ वाक्यं कुन्तीपुत्रॊ धनंजयः अरॊचयंस तु सर्वे ऽनये कृच्छ्रेण तु युधिष्ठिरः 113 भीमसेनस तु सव्रीडम अब्रवीत पितरं तव अश्वत्दामा हत इति तच चाबुध्यत ते पिता 114 स शङ्कमानस तन मिद्या धर्मराजम अपृच्छत हतं वाप्य अहतं वाजौ तवां पिता पुत्रवत्सलः 115 तथ अतद्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः अश्वत्दामानम आहेथं हतः कुञ्जर इत्य उत भीमेन गिरिवर्ष्माणं मालवस्येन्थ्र वर्मणः 116 उपसृत्य तथा थरॊणम उच्चैर इथम अभाषत यस्यार्दे शस्त्रम आधत्से यम अवेक्ष्य च जीवसि पुत्रस ते थयितॊ नित्यं शॊ ऽशवत्दामा निपातितः 117 तच छरुत्ता विमनास तत्र आचार्यॊ महथ अप्रियम नियम्य थिव्यान्य अस्त्राणि नायुध्यत यदा पुरा 118 तं थृष्ट्वा परमॊथ्विग्नं शॊकॊपहतचेतसम पाञ्चालराजस्य सुतः करूरकर्मा समाथ्रवत 119 तं थृष्ट्वा विहितं मृत्युं लॊकतत्त्वविचक्षणः थिव्यान्य अस्त्राण्य अदॊत्सृज्य रणे पराय उपाविशत 120 ततॊ ऽसय केशान सव्येन गृहीत्वा पाणिना तथा पार्षतः करॊशमानानां वीराणाम अच्छिनच छिरः 121 न हन्तव्यॊ न हन्तव्य इति ते सर्वतॊ ऽबरुवन तदैव चार्जुनॊ वाहाथ अवरुह्यैनम आथ्रवत 122 उथ्यम्य बाहू तवरितॊ बरुवाणश च पुनः पुनः जीवन्तम आनयाचार्यं मा वधीर इति धर्मवित 123 तदापि वार्यमाणेन कौरवैर अर्जुनेन च हत एव नृशंसेन पिता तव नरर्षभ 124 सैनिकाश च ततः सर्वे पराथ्रवन्त भयार्थिताः वयं चापि निरुत्साहा हते पितरि ते ऽनघ 125 [स] तच छरुत्वा थरॊणपुत्रस तु निधनं पितुर आहवे करॊधम आहारयत तीव्रं पथाहत इवॊरगः |
1
[s] krūram āyodhanaṃ jajñe tasmin rājasamāgame rudrasyeva hi kruddhasya nighnatas tu paśūn yathā 2 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge 3 bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ sādibhiś ca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat 4 bāṇapāta nikṛttās tu yodhās te kurusattama ceṣṭanto vividhāś ceṣṭā vyadṛśyanta mahāhave 5 vartamāne tathā yuddhe ghore devāsuropame abravīt kṣatriyāṃs tatra dharmarājo yudhiṣṭhiraḥ abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ 6 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ ghaṭate ca yathāśakti bhāradvājasya nāśane 7 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata 8 yudhiṣṭhira samājñaptāḥ sṛñjayānāṃ mahārathāḥ abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ 9 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ abhyadravata vegena martavyam iti niścitaḥ 10 prayāte satyasaṃdhe tu samakampata medinī vavur vātāḥ sa nirghātās trāsayanti varūthinīm 11 papāta mahatī colkā ādityān nirgateva ha dīpayantīva tāpena śaṃsantīva mahad bhayam 12 jajvaluś caiva śastrāṇi bhāradvājasya māriṣa rathāḥ svananti cātyarthaṃ hayāś cāśrūṇy avāsṛjan 13 hataujā iva cāpy āsīd bhāradvājo mahārathaḥ ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati suyuddhena tataḥ prāṇān utsraṣṭum upacakrame 14 tataś caturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ nirdahan kṣatriya vrātān droṇaḥ paryacarad raṇe 15 hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ 16 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ 17 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt 18 tataḥ svaratham āropya pāñcālyam arimardanaḥ abravīd abhisaṃprekṣya droṇam asyantam antikāt 19 na tvadanya ihācāryaṃ yoddhum utsahate pumān tvarasva prāg vadhāyaiva tvayi bhāraḥ samāhitaḥ 20 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam abhipatyādade kṣipram āyudhapravaraṃ dṛḍham 21 saṃrabdhaś caśarān asyan droṇaṃ durvāraṇaṃ raṇe vivārayiṣur ācāryaṃ śaravarṣair avākirat 22 tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau udīrayetāṃ brāhmāṇi divyāny astrāṇy anekaśaḥ 23 sa mahāstrair mahārāja droṇam ācchādayad raṇe nihatya sarvāṇy astrāṇi bhāradvājasya pārṣataḥ 24 sa vasātīñ śibīṃś caiva bāhlīkān kauravān api rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ 25 dhṛṣṭadyumnas tadā rājan gabhastibhir ivāṃśumān babhau pracchādayan nāśāḥ śarajālaiḥ samantataḥ 26 tasya droṇo dhanuś chittvā viddhvā cainaṃ śilīmukhaiḥ marmāṇy abhyahanad bhūyaḥ sa vyathāṃ paramām agāt 27 tato bhīmo dṛḍhakrodho droṇasyālśiṣya taṃ ratham śanakair iva rājendra droṇaṃ vacanam abravīt 28 yadi nāma na yudhyerañ śikṣitā brahma bandhavaḥ svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet 29 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ tasya ca brāhmaṇo mūlaṃ bhavāṃś ca brahmavittamaḥ 30 śvapākavan mleccha gaṇān hatvā cānyān pṛthagvidhān ajñānān mūḍhavad brahman putradāradhanepsayā 31 ekasyārthe bahūn hatvā putrasyādharmavid yathā svakarmasthān vikarmastho na vyapatrapase katham 32 sa cādya patitaḥ śete pṛṣṭenāveditas tava dharmarājena tad vākyaṃ nātiśaṅkitum arhasi 33 evam uktas tato droṇo bhīmenotsṛjya tad dhanuḥ sarvāṇy astrāṇi dharmātmā hātu kāmo 'bhyabhāṣata karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca 34 saṃgrāme kriyatāṃ yatno bravīmy eṣa punaḥ punaḥ pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmy aham 35 iti tatra mahārāja prākrośad drauṇim eva ca utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān 36 tasya tac chidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ khaḍgī rathād avaplutya sahasā droṇam abhyayāt 37 hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumna vaśaṃgatam 38 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan droṇo 'pi śastrāṇy utsṛjya paramaṃ sāmyam āsthitaḥ 39 tathoktvā yogam āsthāya jyotir bhūto mahātapāḥ divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam 40 dvau sūryāv iti no buddhir āsīt tasmiṃs tathāgate ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṃ nabhaḥ samapadyata cārkābhe bhāradvāja niśākare 41 nimeṣa mātreṇa ca taj jyotir antaradhīyata āsīt kilakilā śabdaḥ prahṛṣṭānāṃ divaukasām brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite 42 vayam eva tadādrākṣma pañca mānuṣayonayaḥ yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim 43 ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍavaḥ 44 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ mahimānaṃ mahārāja yogamuktasya gacchataḥ 45 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ ācāryaṃ yogam āsthāya brahmalokam ariṃdamam 46 vitunnāṅgaṃ śaraśatair nyastāyudham asṛk kṣaram dhikkṛtaḥ pārtaṣas taṃ tu sarvabhūtaiḥ parāmṛśat 47 tasya mūrdhānam ālambya gatasattvasya dehinaḥ kiṃ cid abruvataḥ kāyād vicakartāsinā śiraḥ 48 harṣeṇa mahatā yukto bhāradvāje nipātite siṃhanāda ravaṃ cakre bhāmayan khaḍgam āhave 49 ākarṇapalitaḥ śyāmo vayasāśīti pañcakaḥ tvatkṛte vyacarat saṃkhye sa tu ṣoḍada varṣavat 50 uktavāṃś ca mahābāhuḥ kuntīputro dhanaṃjayaḥ jīvantam ānayācāryaṃ mā vadhīr drupadātmajaḥ 51 na hantavyo na hantavya iti te sainikāś ca ha utkrośann arjunaś caiva sānukrośas tam ādravat 52 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham 53 śoṇitena pariklinno rathād bhūmim ariṃdamaḥ lohitāṅga ivādityo durdarśaḥ samapadyata evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ 54 dheṣṭadyumnas tu tad rājan bhāradvāja śiromahat tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat 55 te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ palāyanakṛtotsāhā dudruvuḥ sarvatodiśam 56 droṇas tu divam āsthāya nakṣatrapatham āviśat aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa 57 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim 58 hate droṇe nirutsāhān kurūn pāṇḍava sṛñjayāḥ abhyadravan mahāvegās tataḥ sainyaṃ vyadīryata 59 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ tāvakā nihate droṇe gatāsava ivābhavan 60 parājayam athāvāpya paratra ca mahad bhayam ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ 61 anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ nādhyagacchaṃs tadā rājan kabandhāyuta saṃkule 62 pāṇḍavās tu jayaṃ labdhvā paratra ca mahad yaśaḥ bāṇaśabdaravāṃś cakruḥ siṃhanādāṃś ca puṣkalān 63 bhīmasenas tato rājan dhṛṣṭadyumnaś ca pārṣataḥ varūthinyām anṛtyetāṃ pariṣvajya parasparam 64 abravīc ca tadā bhīmaḥ pārṣataṃ śatrutāpanam bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge 65 etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ bāhuśabdena pṛthivīṃ kampayām āsa pāṇḍavaḥ 66 tasya śabdena vitrastāḥ prādravaṃs tāvakā yudhi kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ 67 pāṇḍavās tu jayaṃ labdhvā hṛṣṭā hy āsan viśāṃ pate arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan 68 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ 69 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ ārtasvareṇa mahatā putraṃ te paryavārayan 70 rajasvalā vepamānā vīkṣamāṇā diśo daśa aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate 71 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva aśaknuvann avasthātum apāyāt tanayas tava 72 kṣutpipāsāpariśrāntās te yodhās tava bhārata ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan 73 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam viparyāsaṃ yathā meror vāsavasyeva nirjayam 74 amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam trastarūpatarā rājan kauravāḥ prādravan bhayāt 75 gāndhārarājaḥ śakunis trastas trastataraiḥ saha hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ 76 varūthinīṃ vegavatīṃ vidrutāṃ sa patākinīm parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt 77 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt 78 hatapravīrair bhūyiṣṭhaṃ dvipair bahu padātibhiḥ vṛtaḥ śāradvato 'gacchat kaṣṭaṃ katham iti bruvan 79 bhojānīkena śiṣṭena kaliṅgāraṭṭa bāhlikaiḥ kṛtavarmā vṛto rājan prāyān sujavanair hayaiḥ 80 padātigaṇasaṃyuktas trasto rājan bhayārditaḥ ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam 81 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ 82 gajāśvarathasaṃyukto vṛtaś caiva padātibhiḥ duryodhano mahārāja prāyāt tatra mahārathaḥ 83 gajān rathān samāruhya parasyāpi hayāñ janāḥ prakīrṇakeśā vidhvastā na dvāv ekatra dhāvataḥ 84 nedam astīti puruṣā hatotsāhā hataujasaḥ utsṛjya kavacān anye prādravaṃs tāvakā vibho 85 anyonyaṃ te samākrośan sainikā bharatarṣabha tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire 86 dhuryān pramucya tu rathād dhatasūtān svalaṃkṛtān adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan 87 dravamāṇe tathā sainye trastarūpe hataujasi pratisrota iva grāho droṇaputraḥ parān iyāt 88 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ kathaṃ cit saṃkaṭān mukto mattadviradavikramaḥ 89 dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam duryodhanaṃ samāsādya droṇaputro 'bravīd idam 90 kim iyaṃ dravate senā trastarūpeva bhārata dravamāṇāṃ ca rājendra nāvasthāpayase raṇe 91 tvaṃ cāpi na yathā pūrvaṃ prakṛtistho narādhipa karṇaprabhṛtayaś ceme nāvatiṣṭhanti pārthivāḥ 92 anyeṣv api ca yuddheṣu naiva senādravat tadā kac cit kṣemaṃ mahābāho tava sainyasya bhārata 93 kasminn idaṃ hate rājan rathasiṃhe balaṃ tava etām avasthāṃ saṃprāptaṃ tan mamācakṣva kaurava 94 tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ 95 bhinnā naur iva te putro nimagnaḥ śokasāgare bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam 96 tataḥ śāradvataṃ rājā savrīḍam idam abravīt śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam 97 ataḥ śāradvato rājann ārtiṃ gacchan punaḥ punaḥ śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ 98 [kṛpa] vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ 99 tataḥ pravṛtte saṃgrāme vimiśrāḥ kuru somakāḥ anyonyam abhigarjantaḥ śastrair dehān apātayan 100 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ ahanac chātravān bhallaiḥ śataśo 'tha sahasraśaḥ 101 pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ saṃkhye droṇa rathaṃ prāpya vyanaśan kālacoditāḥ 102 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām droṇo brahmāstra nirdagdhaṃ preṣayām āsa mṛtyave 103 ākarṇapalitaḥ śyāmo vayasāśīti pañcakaḥ raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat 104 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu amarṣavaśam āpannāḥ pāñcālā vimukhābhavan 105 teṣu kiṃ cit prabhagneṣu vimukheṣu sapatnajit divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ 106 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān madhyaṃ gata ivādityo duṣprekṣyas te pitābhavat 107 te dahyamānā droṇena sūryeṇeva virājatā dagdhavīryā nirutsāhā babhūvur gatacetasaḥ 108 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt 109 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ api vṛtrahaṇā saṃkhye rathayūthapa yūthapaḥ 110 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ 111 aśvatthāmni hate naiṣa yudhyed iti matir mama hataṃ taṃ saṃyuge kaś cid ākhyātv asmai mṛṣā naraḥ 112 etan nārocayad vākyaṃ kuntīputro dhanaṃjayaḥ arocayaṃs tu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ 113 bhīmasenas tu savrīḍam abravīt pitaraṃ tava aśvatthāmā hata iti tac cābudhyata te pitā 114 sa śaṅkamānas tan mithyā dharmarājam apṛcchata hataṃ vāpy ahataṃ vājau tvāṃ pitā putravatsalaḥ 115 tad atathya bhaye magno jaye sakto yudhiṣṭhiraḥ aśvatthāmānam āhedaṃ hataḥ kuñjara ity uta bhīmena girivarṣmāṇaṃ mālavasyendra varmaṇaḥ 116 upasṛtya tadā droṇam uccair idam abhāṣata yasyārthe śastram ādhatse yam avekṣya ca jīvasi putras te dayito nityaṃ śo 'śvatthāmā nipātitaḥ 117 tac chruttā vimanās tatra ācāryo mahad apriyam niyamya divyāny astrāṇi nāyudhyata yathā purā 118 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam pāñcālarājasya sutaḥ krūrakarmā samādravat 119 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ divyāny astrāṇy athotsṛjya raṇe prāya upāviśat 120 tato 'sya keśān savyena gṛhītvā pāṇinā tadā pārṣataḥ krośamānānāṃ vīrāṇām acchinac chiraḥ 121 na hantavyo na hantavya iti te sarvato 'bruvan tathaiva cārjuno vāhād avaruhyainam ādravat 122 udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ jīvantam ānayācāryaṃ mā vadhīr iti dharmavit 123 tathāpi vāryamāṇena kauravair arjunena ca hata eva nṛśaṃsena pitā tava nararṣabha 124 sainikāś ca tataḥ sarve prādravanta bhayārditāḥ vayaṃ cāpi nirutsāhā hate pitari te 'nagha 125 [s] tac chrutvā droṇaputras tu nidhanaṃ pitur āhave krodham āhārayat tīvraṃ padāhata ivoragaḥ |