1
[या] अव्यक्तस्दं परं यत तत पृष्टस ते ऽहं नराधिप परं गुह्यम इमं परश्नं शृणुष्वावहितॊ नृप 2 यदार्षेणेह विधिना चरतावमतेन ह मयाथित्याथ अवाप्तानि यजूंसि मिदिलाधिप 3 महता तपसा थेवस तपिष्ठः सेवितॊ मया परीतेन चाहं विभुना सूर्येणॊक्तस तथानघ 4 वरं वृणीष्व विप्रर्षे यथ इष्टं ते सुथुर्लभम तत ते थास्यामि परीतात्मा मत्प्रसाथॊ हि थुर्लभः 5 ततः परनम्य शिरसा मयॊक्तस तपतां वरः यजूंसि नॊपयुक्तानि कषिप्रम इच्छामि वेथितुम 6 ततॊ मां भगवान आह वितरिष्यामि ते थविज सरस्वतीह वाग भूता शरीरं ते परवेक्ष्यति 7 ततॊ माम आह भगवान आस्यं सवं विवृतं कुरु विवृतं च ततॊ मे ऽऽसयं परविष्टा च सरस्वती 8 ततॊ विथह्यमानॊ ऽहं परविष्टॊ ऽमभस तथानघ अविज्ञानाथ अमर्षाच च भास्करस्य महात्मनः 9 ततॊ विथह्यमानं माम उवाच भगवान रविः मुहूर्तं सह्यतां थाहस ततः शीती भविष्यति 10 शीती भूतं च मां थृष्ट्वा भगवान आह भास्करः परतिष्ठास्यति ते वेथः सॊत्तरः सखिलॊ थविज 11 कृत्स्नं शतपदं चैव परणेष्यसि थविजर्षभ तस्यान्ते चापुनर्भावे बुथ्धिस तव भविष्यति 12 पराप्स्यसे च यथ इष्टं तत सांक्य यॊगेप्सितं पथम एतावथ उक्त्वा भगवान अस्तम एवाभ्यवर्तत 13 ततॊ ऽनुव्याहृतं शरुत्वा गते थेवे विभावसौ गृहम आगत्य संहृष्टॊ ऽचिन्तयं वै सरस्वतीम 14 ततः परवृत्तातिशुभा सवरव्यञ्जन भूषिता ओंकारम आथितः कृत्वा मम थेवी सरस्वती 15 ततॊ ऽहम अर्घ्यं विधिवत सरस्वत्यै नयवेथयम तपतां च वरिष्ठाय निषण्णस तत्परायनः 16 ततः शतपदं कृत्स्नं सहरस्य ससंग्रहम चक्रे सपरिशेषं च हर्षेण परमेण ह 17 कृत्वा चाध्ययनं तेषां शिष्याणां शतम उत्तमम विप्रियार्दं सशिष्यस्य मातुलल्स्य महात्मनः 18 ततः सशिष्येण मया सूर्येणेव गभस्तिभिः वयाप्तॊ यज्ञॊ महाराज पितुस तव महात्मनः 19 मिषतॊ थेवलस्यापि ततॊ ऽरधं हृतवान अहम सववेथ थक्षिणायाद विमर्थे मातुलेन ह 20 सुमन्तु नाद पैलेन तद जैमिनिना च वै पित्रा ते मुनिभिश चैव ततॊ ऽहम अनुमानितः 21 थश पञ्च च पराप्तानि यजूंस्य अर्कान मयानघ तदैव लॊमहर्षाच च पुराणम अवधारितम 22 बीजम एतत पुरस्कृत्य थेवीं चैव सरस्वतीम सूर्यस्य चानुभावेन परवृत्तॊ ऽहं नराधिप 23 कर्तुं शतपदं वेथम अपूर्वं कारितं च मे यदाभिलसितं मार्दं तदा तच चॊपपाथितम 24 शिष्याणाम अखिलं कृत्स्नम अनुज्ञातं ससंग्रहम सर्वे च शिष्याः शुचयॊ गताः परमहर्षिताः 25 शाखाः पञ्चथशेमास तु विथ्या भास्करथर्शिताः परतिष्ठाप्य यदाकामं वेथ्यं तथ अनुचिन्तयम 26 किम अत्र बरह्मण्यम ऋतं किं च वेथ्यम अनुत्तमम चिन्तये तत्र चागत्य गन्धर्वॊ माम अपृच्छत 27 विश्वावसुस ततॊ राजन वेथान्तज्ञानकॊविथः चतुर्विंशतिकान परश्नान पृष्ट्वा वेथस्य पार्दिव पञ्चविंशतिमं परश्नं पप्रच्छान्विक्षिकीं तदा 28 विश्वा विश्वं तदाश्वाश्वं मित्रं वरुणम एव च जञानं जञेयं तदाज्ञॊ ऽजञः कस तपा अपता तदा सूर्याथः सूर्य इति च विथ्याविथ्ये तदैव च 29 वेथ्यावेथ्यं तदा राजन्न अचलं चलम एव च अपूर्वम अक्षयं कषय्यम एतत परश्नम अनुत्तमम 30 अदॊक्तश च मया राजन राजा गन्धर्वसत्तमः पृष्टवान अनुपूर्वेण परश्नम उत्तमम अर्दवत 31 मुहूर्तं मृष्यतां तावथ यावथ एनं विचिन्तये बाधम इत्य एव कृत्वा स तूस्नीं गन्धर्व आस्दितः 32 ततॊ ऽनवचिन्तयम अहं भूयॊ थेवीं सरस्वतीम मनसा स च मे परश्नॊ थध्नॊ घृतम इवॊथ्धृतम 33 तत्रॊपनिषथं चैव परिशेषं च पार्दिव मघ्नामि मनसा तात थृष्ट्वा चान्वीक्षिकीं पराम 34 चतुर्दी राजशार्थूल विथ्यैषा साम्परायिकी उथीरिता मया तुभ्यं पञ्चविंशे ऽधि धिष्ठिता 35 अदॊतस तु मया राजन राजा विश्वावसुस तथा शरूयतां यथ भवान अस्मान परश्नं संपृष्टवान इह 36 विश्वा विश्वेति यथ इथं गन्धर्वेन्थ्रानुपृच्छसि विश्वाव्यक्तं परं विथ्याथ भूतभव्य भयंकरम 37 तरिगुणं गुणकर्तृत्वाथ अशिश्वॊ निष्कलस तदा अश्वस तदैव मिदुनम एवम एवानुथृश्यते 38 अव्यक्तं परकृतिं पराहुः पुरुषेति च निर्गुणम तदैव मित्रं पुरुषं वरुणं परकृतिं तदा 39 जञानं तु परकृतिं पराहुर जञेयं निष्कलम एव च अज्ञश च जञश च पुरुषस तस्मान निष्कल उच्यते 40 कस तपा अतपाः परॊक्ताः कॊ ऽसौ पुरुष उच्यते तपाः परकृतिर इत्य आहुर अतपा निष्कलः समृतः 41 तदैवावेथ्यम अव्यक्तं वेधः पुरुष उच्यते चलाचलम इति परॊक्तं तवया तथ अपि मे शृणु 42 चलां तु परकृतिं पराहुः कारणं कषेप सर्गयॊः अक्षेप सर्गयॊः कर्ता निश्चलः पुरुषः समृतः 43 अजाव उभाव अप्रजनुचाक्षयौ चाप्य उभाव अपि अजौनित्याव उभौ पराहुर अध्यात्मगतिनिश्चयाः 44 अक्षयत्वात परजनने अजम अत्राहुर अव्ययम अक्षयं पुरुषं पराहुः कषयॊ हय अस्य न विथ्यते 45 गुणक्षयत्वात परकृतिः कर्तृत्वाथ अक्षयं बुधाः एषा ते ऽऽनवीक्षिकी विथ्या चतुर्दी साम्परायिकी 46 विथ्यॊपेतं धनं कृत्वा कर्मणा नित्यकर्मणि एकान्तथर्शना वेथाः सर्वे विश्वावसॊ समृताः 47 जायन्ते च मरियन्ते च यस्मिन्न एते यतश चयुताः वेथार्दं ये न जानन्ति वेथ्यं गन्धर्वसत्तम 48 साङ्गॊपाङ्गान अपि यथि पञ्च वेथान अधीयते वेथ वेथ्यं न जानीते वेथ भारवहॊ हि सः 49 यॊ घृतार्दी खरी कषीरं मदेथ गन्धर्वसत्तम विष्ठां तत्रानुपश्येत न मन्थं नापि वा घृतम 50 तदा वेथ्यम अवेथ्यं च वेथ विथ्यॊ न विन्थति स केवलं मूढ मतिर जञानभार वहः समृतः 51 थरष्टव्यौ नित्यम एवैतौ तत्परेणान्तर आत्मना यदास्य जन्म निधने न भवेतां पुनः पुनः 52 अजस्रं जन्म निधनं चिन्तयित्वा तरयीम इमाम परित्यज्य कषयम इह अक्षयं धर्मम आस्दितः 53 यथा तु पश्यते ऽतयन्तम अहन्य अहनि काश्यप तथा स केवली भूतः सथ्विंसम अनुपश्यति 54 अन्यश च शश्वथ अव्यक्तस तदान्यः पञ्चविंशकः तस्य थवाव अनुपश्येत तम एकम इति साधवः 55 तेनैतन नाभिजानन्ति पञ्चविंशकम अच्युतम जन्ममृत्युभयाथ यॊगाः सांख्याश च परमैषिणः 56 [विष्वावसु] पञ्चविंशं यथ एतत ते परॊक्तं बराह्मणसत्तम तदा तन न तदा वेति तथ भवान वक्तुम अर्हति 57 जैगीसव्यस्यासितस्य थेवलस्य च मे शरुतम पराशरस्य विप्रर्षेर वार्षगण्यस्य धीमतः 58 भिक्षॊः पञ्चशिखस्याद कपिलस्य शुकस्य च गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः 59 नारथस्यासुरेश चैव पुलस्त्यस्य च धीमतः सनत्कुमारस्य ततः शुक्रस्य च महात्मनः 60 कश्यपस्य पितुश चैव पूर्वम एव मया शरुतम तथनन्तरं च रुथ्रस्य विश्वरूपस्य धीमतः 61 थैवतेभ्यः पितृभ्यश च थैत्येभ्यश च ततस ततः पराप्तम एतन मया कृत्स्नं वेथ्यं नित्यं वथन्त्य उत 62 तस्मात तथ वै भवथ बुथ्ध्या शरॊतुम इच्छामि बराह्मण भवान परवर्हः शास्त्राणां परगल्भश चातिबुथ्धिमान 63 न तवाविथितं किं चिथ भवाञ शरुतिनिधिः समृतः कद्यते थेवलॊके च पितृलॊके च बराह्मण 64 बरह्मलॊकगताश चैव कदयन्ति महर्षयः पतिश च तपतां शश्वथ आथित्यस तव भासते 65 सांख्यज्ञानं तवया बरह्मन्न अवाप्तं कृत्स्नम एव च तदैव यॊगज्ञानं च याज्ञवल्क्य विशेषतः 66 निःसंथिग्धं परबुथ्धस तवं बुध्यमानश चराचरम शरॊतुम इच्छामि तज जञानं घृतं मन्थमयं यदा 67 [या] कृत्स्नधारिणम एव तवां मन्ये गन्धर्वसत्तम जिज्ञाससि च मां राजंस तन निबॊध यदा शरुतम 68 अबुध्यमानां परकृतिं बुध्यते पञ्चविंशकः न तु बुध्यति गन्धर्व परकृतिः पञ्चविंशकम 69 अनेनाप्रतिबॊधेन परधानं परवथन्ति तम सांख्ययॊगाश च तत्त्वज्ञा यदा शरुतिनिथर्शनात 70 पश्यंस तदैवापश्यंश च पश्यत्य अन्यस तदानघ सथ्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति न तु पश्यति पश्यंस तु यश चैनम अनुपश्यति 71 पञ्चविंशॊ ऽभिमन्येत नान्यॊ ऽसति परमॊ मम न चतुर्विंशकॊ ऽगराह्यॊ मनुजैर जञानथर्शिभिः 72 मत्स्येवॊथकम अन्वेति परवर्तति परवर्तनात यदैव बुध्यते मत्स्यस तदैषॊ ऽपय अनुबुध्यते सस्नेहः सह वासाच च साभिमानश चनित्यशः 73 स निमज्जति कालस्य यथैकत्वं न बुध्यते उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः 74 यथा तु मन्यते ऽनयॊ ऽहम अन्य एष इति थविजः तथा स केवली भूतः सथ्विंशम अनुपश्यति 75 अन्यश च राजन्न अवरस तदान्यः पञ्चविंशकः तत्स्दत्वाथ अनुपश्यन्ति एक एवेति साधवः 76 तेनैतन नाभिनन्थन्ति पञ्चविंशकम अच्युतम जन्ममृत्युभयाथ भीता यॊगाः सांख्याश च काश्यप सथ्विंसम अनुपश्यन्ति शुचयस तत्परायनाः 77 यथा स केवली भूतः सथ्विंशम अनुपश्यति तथा स सर्वविथ विथ्वान न पुनर्जन्म विन्थति 78 एवम अप्रतिबुथ्धश च बुध्यमानश च ते ऽनघ बुथ्धश चॊक्तॊ यदातत्त्वं मया शरुतिनिथर्शनात 79 पश्यापश्यं यॊ ऽनुपश्येत कषेमं तत्त्वं च काश्यप केवलाकेवलं चाथ्यं पञ्चविंशात परं च यत 80 [विष्वावसु] तद्यं शुभं चैतथ उक्तं तवया भॊः; सम्यक कषेम्यं थेवताथ्यं यदावत सवस्त्य कषयं भवतश चास्तु नित्यं; बुथ्ध्या सथा बुधि युक्तं नमस ते 81 [या] एवम उक्त्वा संप्रयातॊ थिवं स; विभ्राजन वै शरीमत थर्शनेन तुष्टश च तुष्ट्या परयाभिनन्थ्य; परथक्षिणं मम कृत्वा महात्मा 82 बरह्माथीनां खेचराणां कषितौ च; ये चाधस्तात संवसन्ते नरेन्थ्र तत्रैव तथ थर्शनं थर्शयन वै; सम्यक कषेम्यं ये पदं संश्रिता वै 83 सांख्याः सर्वे सांख्यधर्मे रताश च; तथ्वथ यॊगा यॊगधर्मे रताश च ये चाप्य अन्ये मॊक्षकामा मनुष्यास; तेषाम एतथ थर्शनंज्ञान थृष्टम 84 जञानान मॊक्षॊ जायते पूरुषानां; नास्त्य अज्ञानाथ एवम आहुर नरेन्थ्र तस्माज जञानं तत्त्वतॊ ऽनवेषितव्यं; येनात्मानं मॊक्षयेज जन्ममृत्यॊः 85 पराप्य जञानं बराह्मणात कषत्रियाथ वा; वैश्याच छूथ्राथ अपि नीचाथ अभीक्ष्णम शरथ्धातव्यं शरथ्थधानेन नित्यं; न शरथ्धिनं जन्ममृत्यू विशेताम 86 सर्वे वर्णा बराह्मणा बरह्मजाश च; सर्वे नित्यं वयाहरन्ते च बरह्म तत्त्वं शास्त्रं बरह्म बुथ्ध्या बरवीमि; सर्वं विश्वं बरह्म चैतत समस्तम 87 बरह्मास्यतॊ बराह्मणाः संप्रसूता; बाहुभ्यां वै कषत्रियाः संप्रसूताः नाभ्यां वैश्याः पाथतश चापि शूथ्राः; सर्वे वर्णा नान्यदा वेथितव्याः 88 अज्ञानतः कर्म यॊनिं भजन्ते; तां तां राजंस ते यदा यान्त्य अभावम तदा वर्णा जञानहीनाः पतन्ते; घॊराथ अज्ञानात पराकृतं यॊनिजालम 89 तस्माज जञानं सर्वतॊ मार्गितव्यं; सर्वत्रस्द चैतथ उक्तं मया ते तस्दौ बरह्मा तस्दिवांश चापरॊ यस; तस्मै नित्यं मॊक्षम आहुर थविजेन्थ्राः 90 यत ते पृष्ठं तन मया चॊपथिष्टं; यादातद्यं तथ विशॊकॊ भवस्व राजन गच्छस्वैतथ अर्दस्य पारं; सम्यक परॊक्तं सवस्ति ते ऽसत्व अत्र नित्यम 91 [भी] स एवम अनुशास्तस तु याज्ञवल्क्येन धीमता परीतिमान अभवथ राजा मिदिलाधिपतिस तथा 92 गते मुनिवरे तस्मिन कृते चापि परथक्षिणे थैवरातिर नरपतिर आसीनस तत्र मॊक्षवित 93 गॊकॊतिं सपर्शयाम आस हिरण्यस्य तदैव च रत्नाञ्जलिम अदैकं च बराह्मणेभ्यॊ थथौ तथा 94 विथेहराज्यं च तदा परतिष्ठाप्य सुतस्य वै यति धर्मम उपासंश चाप्य अवसन मिदिलाधिपः 95 सांख्यज्ञानम अधीयानॊ यॊगशास्त्रं च कृत्स्नशः धर्माधर्मौ च राजेन्थ्र पराकृतं परिगर्हयन 96 अनन्तम इति कृत्वा स नित्यं केवलम एव च धर्माधर्मौ पुण्यपापे सत्यासत्ये तदैव च 97 जन्ममृत्यू च राजेन्थ्र पराकृतं तथ अचिन्तयत बरह्माव्यक्तस्य कर्मेथम इति नित्यं नराधिप 98 पश्यन्ति यॊगाः सांख्याश च सवशास्त्रकृतलक्षणाः इष्टानिष्ट वियुक्तं हि तस्दौ बरह्म परात परम नित्यं तम आहुर विथ्वांसः शुचिस तस्माच छुचिर भव 99 थीयते यच च लभते थत्तं यच चानुमन्यते थथाति च नरश्रेष्ठ परतिगृह्णाति यच च ह थथात्य अव्यक्तम एवैतत परतिगृह्णाति तच च वै 100 आत्मा हय एवात्मनॊ हय एकः कॊ ऽनयस तवत्तॊ ऽधिकॊ भवेत एवं मन्यस्व सततम अन्यदा मा विचिन्तय 101 यस्याव्यक्तं न विथितं सगुणं निर्गुणं पुनः तेन तीर्दानि यज्ञाश च सेवितव्याविपश्चिता 102 न सवाध्यायैस तपॊभिर वा यज्ञैर वा कुरुनन्थन लभते ऽवयक्तसंस्दानं जञात्वाव्यक्तं महीपते 103 तदैव महतः सदानम आहंकारिकम एव च अहंकारात परं चापि सदानानि समवाप्नुयात 104 ये तव अव्यक्तात परं नित्यं जानते शास्त्रतत्पराः जन्ममृत्युवियुक्तं च वियुक्तं सथ असच च यत 105 एतन मयाप्तं जनकात पुरस्तात; तेनापि चाप्तं नृप याज्ञवल्क्यात जञानं विशिष्टं न तदा हि यज्ञा; जञानेन थुर्गं तरते न यज्ञैः 106 थुर्गं जन्म निधनं चापि राजन; न भूतिकं जञानविथॊ वथन्ति यज्ञैस तपॊभिर नियमैर वरतैश च; थिवं समासाथ्य पतन्ति भूमौ 107 तस्माथ उपासस्व परं महच छुचि; शिवं विमॊक्षं विमलं पवित्रम कषेत्रज्ञवित पार्दिव जञानयज्ञम; उपास्य वै तत्त्वम ऋषिर भविष्यसि 108 उपनिषथम उपाकरॊत तथा वै जनक नृपस्य पुरा हि याज्ञवल्क्यः यथ उपगणितशाश्वताव्ययं तच; छुभम अमृतत्वम अशॊकम ऋच्छतीति |
1
[yā] avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa 2 yathārṣeṇeha vidhinā caratāvamatena ha mayādityād avāptāni yajūṃsi mithilādhipa 3 mahatā tapasā devas tapiṣṭhaḥ sevito mayā prītena cāhaṃ vibhunā sūryeṇoktas tadānagha 4 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ 5 tataḥ pranamya śirasā mayoktas tapatāṃ varaḥ yajūṃsi nopayuktāni kṣipram icchāmi veditum 6 tato māṃ bhagavān āha vitariṣyāmi te dvija sarasvatīha vāg bhūtā śarīraṃ te pravekṣyati 7 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru vivṛtaṃ ca tato me ''syaṃ praviṣṭā ca sarasvatī 8 tato vidahyamāno 'haṃ praviṣṭo 'mbhas tadānagha avijñānād amarṣāc ca bhāskarasya mahātmanaḥ 9 tato vidahyamānaṃ mām uvāca bhagavān raviḥ muhūrtaṃ sahyatāṃ dāhas tataḥ śītī bhaviṣyati 10 śītī bhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija 11 kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha tasyānte cāpunarbhāve buddhis tava bhaviṣyati 12 prāpsyase ca yad iṣṭaṃ tat sāṃkya yogepsitaṃ padam etāvad uktvā bhagavān astam evābhyavartata 13 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm 14 tataḥ pravṛttātiśubhā svaravyañjana bhūṣitā oṃkāram āditaḥ kṛtvā mama devī sarasvatī 15 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam tapatāṃ ca variṣṭhāya niṣaṇṇas tatparāyanaḥ 16 tataḥ śatapathaṃ kṛtsnaṃ saharasya sasaṃgraham cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha 17 kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam vipriyārthaṃ saśiṣyasya mātulalsya mahātmanaḥ 18 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ vyāpto yajño mahārāja pitus tava mahātmanaḥ 19 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham svaveda dakṣiṇāyātha vimarde mātulena ha 20 sumantu nātha pailena tatha jaimininā ca vai pitrā te munibhiś caiva tato 'ham anumānitaḥ 21 daśa pañca ca prāptāni yajūṃsy arkān mayānagha tathaiva lomaharṣāc ca purāṇam avadhāritam 22 bījam etat puraskṛtya devīṃ caiva sarasvatīm sūryasya cānubhāvena pravṛtto 'haṃ narādhipa 23 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me yathābhilasitaṃ mārthaṃ tathā tac copapāditam 24 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ 25 śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam 26 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam cintaye tatra cāgatya gandharvo mām apṛcchata 27 viśvāvasus tato rājan vedāntajñānakovidaḥ caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva pañcaviṃśatimaṃ praśnaṃ papracchānvikṣikīṃ tathā 28 viśvā viśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca jñānaṃ jñeyaṃ tathājño 'jñaḥ kas tapā apatā tathā sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca 29 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam 30 athoktaś ca mayā rājan rājā gandharvasattamaḥ pṛṣṭavān anupūrveṇa praśnam uttamam arthavat 31 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye bādham ity eva kṛtvā sa tūsnīṃ gandharva āsthitaḥ 32 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam 33 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva maghnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām 34 caturthī rājaśārdūla vidyaiṣā sāmparāyikī udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā 35 athotas tu mayā rājan rājā viśvāvasus tadā śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha 36 viśvā viśveti yad idaṃ gandharvendrānupṛcchasi viśvāvyaktaṃ paraṃ vidyād bhūtabhavya bhayaṃkaram 37 triguṇaṃ guṇakartṛtvād aśiśvo niṣkalas tathā aśvas tathaiva mithunam evam evānudṛśyate 38 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā 39 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate 40 kas tapā atapāḥ proktāḥ ko 'sau puruṣa ucyate tapāḥ prakṛtir ity āhur atapā niṣkalaḥ smṛtaḥ 41 tathaivāvedyam avyaktaṃ vedhaḥ puruṣa ucyate calācalam iti proktaṃ tvayā tad api me śṛṇu 42 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepa sargayoḥ akṣepa sargayoḥ kartā niścalaḥ puruṣaḥ smṛtaḥ 43 ajāv ubhāv aprajanucākṣayau cāpy ubhāv api ajaunityāv ubhau prāhur adhyātmagatiniścayāḥ 44 akṣayatvāt prajanane ajam atrāhur avyayam akṣayaṃ puruṣaṃ prāhuḥ kṣayo hy asya na vidyate 45 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ eṣā te ''nvīkṣikī vidyā caturthī sāmparāyikī 46 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ 47 jāyante ca mriyante ca yasminn ete yataś cyutāḥ vedārthaṃ ye na jānanti vedyaṃ gandharvasattama 48 sāṅgopāṅgān api yadi pañca vedān adhīyate veda vedyaṃ na jānīte veda bhāravaho hi saḥ 49 yo ghṛtārthī kharī kṣīraṃ mathed gandharvasattama viṣṭhāṃ tatrānupaśyeta na mandaṃ nāpi vā ghṛtam 50 tathā vedyam avedyaṃ ca veda vidyo na vindati sa kevalaṃ mūḍha matir jñānabhāra vahaḥ smṛtaḥ 51 draṣṭavyau nityam evaitau tatpareṇāntar ātmanā yathāsya janma nidhane na bhavetāṃ punaḥ punaḥ 52 ajasraṃ janma nidhanaṃ cintayitvā trayīm imām parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ 53 yadā tu paśyate 'tyantam ahany ahani kāśyapa tadā sa kevalī bhūtaḥ sadviṃsam anupaśyati 54 anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṃśakaḥ tasya dvāv anupaśyeta tam ekam iti sādhavaḥ 55 tenaitan nābhijānanti pañcaviṃśakam acyutam janmamṛtyubhayād yogāḥ sāṃkhyāś ca paramaiṣiṇaḥ 56 [viṣvāvasu] pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama tathā tan na tathā veti tad bhavān vaktum arhati 57 jaigīsavyasyāsitasya devalasya ca me śrutam parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ 58 bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ 59 nāradasyāsureś caiva pulastyasya ca dhīmataḥ sanatkumārasya tataḥ śukrasya ca mahātmanaḥ 60 kaśyapasya pituś caiva pūrvam eva mayā śrutam tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ 61 daivatebhyaḥ pitṛbhyaś ca daityebhyaś ca tatas tataḥ prāptam etan mayā kṛtsnaṃ vedyaṃ nityaṃ vadanty uta 62 tasmāt tad vai bhavad buddhyā śrotum icchāmi brāhmaṇa bhavān pravarhaḥ śāstrāṇāṃ pragalbhaś cātibuddhimān 63 na tavāviditaṃ kiṃ cid bhavāñ śrutinidhiḥ smṛtaḥ kathyate devaloke ca pitṛloke ca brāhmaṇa 64 brahmalokagatāś caiva kathayanti maharṣayaḥ patiś ca tapatāṃ śaśvad ādityas tava bhāsate 65 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ 66 niḥsaṃdigdhaṃ prabuddhas tvaṃ budhyamānaś carācaram śrotum icchāmi taj jñānaṃ ghṛtaṃ mandamayaṃ yathā 67 [yā] kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama jijñāsasi ca māṃ rājaṃs tan nibodha yathā śrutam 68 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam 69 anenāpratibodhena pradhānaṃ pravadanti tam sāṃkhyayogāś ca tattvajñā yathā śrutinidarśanāt 70 paśyaṃs tathaivāpaśyaṃś ca paśyaty anyas tathānagha sadviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati na tu paśyati paśyaṃs tu yaś cainam anupaśyati 71 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ 72 matsyevodakam anveti pravartati pravartanāt yathaiva budhyate matsyas tathaiṣo 'py anubudhyate sasnehaḥ saha vāsāc ca sābhimānaś canityaśaḥ 73 sa nimajjati kālasya yadaikatvaṃ na budhyate unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ 74 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ tadā sa kevalī bhūtaḥ sadviṃśam anupaśyati 75 anyaś ca rājann avaras tathānyaḥ pañcaviṃśakaḥ tatsthatvād anupaśyanti eka eveti sādhavaḥ 76 tenaitan nābhinandanti pañcaviṃśakam acyutam janmamṛtyubhayād bhītā yogāḥ sāṃkhyāś ca kāśyapa sadviṃsam anupaśyanti śucayas tatparāyanāḥ 77 yadā sa kevalī bhūtaḥ sadviṃśam anupaśyati tadā sa sarvavid vidvān na punarjanma vindati 78 evam apratibuddhaś ca budhyamānaś ca te 'nagha buddhaś cokto yathātattvaṃ mayā śrutinidarśanāt 79 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat 80 [viṣvāvasu] tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ; samyak kṣemyaṃ devatādyaṃ yathāvat svastya kṣayaṃ bhavataś cāstu nityaṃ; buddhyā sadā budhi yuktaṃ namas te 81 [yā] evam uktvā saṃprayāto divaṃ sa; vibhrājan vai śrīmata darśanena tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṃ mama kṛtvā mahātmā 82 brahmādīnāṃ khecarāṇāṃ kṣitau ca; ye cādhastāt saṃvasante narendra tatraiva tad darśanaṃ darśayan vai; samyak kṣemyaṃ ye pathaṃ saṃśritā vai 83 sāṃkhyāḥ sarve sāṃkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṃjñāna dṛṣṭam 84 jñānān mokṣo jāyate pūruṣānāṃ; nāsty ajñānād evam āhur narendra tasmāj jñānaṃ tattvato 'nveṣitavyaṃ; yenātmānaṃ mokṣayej janmamṛtyoḥ 85 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam śraddhātavyaṃ śraddadhānena nityaṃ; na śraddhinaṃ janmamṛtyū viśetām 86 sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṃ vyāharante ca brahma tattvaṃ śāstraṃ brahma buddhyā bravīmi; sarvaṃ viśvaṃ brahma caitat samastam 87 brahmāsyato brāhmaṇāḥ saṃprasūtā; bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ nābhyāṃ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ 88 ajñānataḥ karma yoniṃ bhajante; tāṃ tāṃ rājaṃs te yathā yānty abhāvam tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākṛtaṃ yonijālam 89 tasmāj jñānaṃ sarvato mārgitavyaṃ; sarvatrastha caitad uktaṃ mayā te tasthau brahmā tasthivāṃś cāparo yas; tasmai nityaṃ mokṣam āhur dvijendrāḥ 90 yat te pṛṣṭhaṃ tan mayā copadiṣṭaṃ; yāthātathyaṃ tad viśoko bhavasva rājan gacchasvaitad arthasya pāraṃ; samyak proktaṃ svasti te 'stv atra nityam 91 [bhī] sa evam anuśāstas tu yājñavalkyena dhīmatā prītimān abhavad rājā mithilādhipatis tadā 92 gate munivare tasmin kṛte cāpi pradakṣiṇe daivarātir narapatir āsīnas tatra mokṣavit 93 gokotiṃ sparśayām āsa hiraṇyasya tathaiva ca ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā 94 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai yati dharmam upāsaṃś cāpy avasan mithilādhipaḥ 95 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ dharmādharmau ca rājendra prākṛtaṃ parigarhayan 96 anantam iti kṛtvā sa nityaṃ kevalam eva ca dharmādharmau puṇyapāpe satyāsatye tathaiva ca 97 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat brahmāvyaktasya karmedam iti nityaṃ narādhipa 98 paśyanti yogāḥ sāṃkhyāś ca svaśāstrakṛtalakṣaṇāḥ iṣṭāniṣṭa viyuktaṃ hi tasthau brahma parāt param nityaṃ tam āhur vidvāṃsaḥ śucis tasmāc chucir bhava 99 dīyate yac ca labhate dattaṃ yac cānumanyate dadāti ca naraśreṣṭha pratigṛhṇāti yac ca ha dadāty avyaktam evaitat pratigṛhṇāti tac ca vai 100 ātmā hy evātmano hy ekaḥ ko 'nyas tvatto 'dhiko bhavet evaṃ manyasva satatam anyathā mā vicintaya 101 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ tena tīrthāni yajñāś ca sevitavyāvipaścitā 102 na svādhyāyais tapobhir vā yajñair vā kurunandana labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate 103 tathaiva mahataḥ sthānam āhaṃkārikam eva ca ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt 104 ye tv avyaktāt paraṃ nityaṃ jānate śāstratatparāḥ janmamṛtyuviyuktaṃ ca viyuktaṃ sad asac ca yat 105 etan mayāptaṃ janakāt purastāt; tenāpi cāptaṃ nṛpa yājñavalkyāt jñānaṃ viśiṣṭaṃ na tathā hi yajñā; jñānena durgaṃ tarate na yajñaiḥ 106 durgaṃ janma nidhanaṃ cāpi rājan; na bhūtikaṃ jñānavido vadanti yajñais tapobhir niyamair vrataiś ca; divaṃ samāsādya patanti bhūmau 107 tasmād upāsasva paraṃ mahac chuci; śivaṃ vimokṣaṃ vimalaṃ pavitram kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam ṛṣir bhaviṣyasi 108 upaniṣadam upākarot tadā vai janaka nṛpasya purā hi yājñavalkyaḥ yad upagaṇitaśāśvatāvyayaṃ tac; chubham amṛtatvam aśokam ṛcchatīti |