1
[य] सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः यॊगमार्गॊ यदान्यायं शिष्यायेह हितैषिणा 2 सांख्ये तवेथानीं कार्त्स्न्येन विधिं परब्रूहि पृच्छते तरिषु लॊकेषु यज जञानं सर्वं तथ वितिथं हि ते 3 [भी] शृणु मे तवम इथं शुथ्धं सांख्यानां विथितात्मनाम विहितं यतिभिर बुथ्धैः कपिलाथिभिर ईश्वरैः 4 यस्मिन न विभ्रमाः के चिथ थृश्यन्ते मनुजर्षभ गुणाश च यस्मिन बहवॊ थॊषहानिश च केवला 5 जञानेन परिसंख्याय सथॊषान विषयान नृप मानुषान थुर्जयान कृत्स्नान पैशाचान विषयांस तदा 6 राक्षसान विषयाञ जञात्वा यक्षाणां विषयांस तदा विषयान औरगाञ जञात्वा गान्धर्वविषयांस तदा 7 पितॄणां विषयाञ जञात्वा तिर्यक्षु चरतां नृप सुपर्णविषयाञ जञात्वा मरुतां विषयांस तदा 8 राजर्षिविषयाञ जञात्वा बरह्मर्षिविषयांस तदा आसुरान विषयाञ जञात्वा वैश्वथेवांस तदैव च 9 थेवर्षिविषयाञ जञात्वा यॊगानान अपि चेश्वरान विषयांश च परजेशानां बरह्मणॊ विषयांस तदा 10 आयुषश च परं कालं लॊके विज्ञाय तत्त्वतः सुखस्य च परं तत्त्वं विज्ञाय वथतां वर 11 पराप्ते काले च यथ थुःखं पततां विषयैषिणाम तिर्यक च पततां थुःख्म पततां नरके च यत 12 सवर्गस्य च गुणान कृत्स्नान थॊषान सर्वांश च भारत वेथवाथे च ये थॊषा गुणा ये चापि वैथिकाः 13 जञानयॊगे च ये थॊषा गुणा यॊगे च ये नृप सांख्यज्ञाने च ये थॊषास तदैव च गुणा नृप 14 सत्त्वं थशगुणं जञात्वा रजॊ नव गुणं तदा तमश चास्त गुणं जञात्वा बुथ्धिं सप्त गुणां तदा 15 सॊ गुणं च नभॊ जञात्वा मनः पञ्च गुणं तदा बुथ्धिं चतुर्गुणां जञात्वा तमश च तरिगुणं महत 16 थविगुणं च रजॊ जञात्वा सत्त्वम एकगुणं पुनः मार्गं विज्ञाय तत्त्वेन परलये परेक्षणं तदा 17 जञानविज्ञानसंपन्नाः कारणैर भाविताः शुभैः पराप्नुवन्ति शुभं मॊक्षं सूक्ष्मा इह नभः परम 18 रूपेण थृष्टिं संयुक्तां घराणं गन्धगुणेन च शब्थे सक्तं तदा शरॊत्रं जिह्वां रसगुणेषु च 19 तनुं सपर्शे तदा सक्तां वायुं नभसि चाश्रितम मॊहं तमसि संसक्तं लॊभम अर्देषु संश्रितम 20 विष्णुं करान्ते बले शक्रं कॊष्ठे सक्तं तदानलम अप्सु थेवीं तदा सक्ताम अपस तेजसि चाश्रिताः 21 तेजॊ वायौ तु संसक्तं वायुं नभसि चाश्रितम नभॊ महति संयुक्तं महथ बुथ्धौ च संश्रितम 22 बुथ्धिं तमसि संसक्तां तमॊ रजसि चाश्रितम रजः सत्त्वे तदा सक्तं सत्त्वं सक्तं तदात्मनि 23 सक्तम आत्मानम ईशे च थेवे नारायणे तदा थेवं मॊक्षे च संसक्तं मॊक्षं सक्तं तु न कव चित 24 जञात्वा सत्त्वयुतं थेहं वृतं सॊथशभिर गुणैः सवभावं चेतनां चैव जञात्वा वै थेहम आश्रिते 25 मध्यस्दम एकम आत्मानं पापं यस्मिन न विथ्यते थवितीयं कर्म विज्ञाय नृपतौ विषयैषिणाम 26 इन्थ्रियाणीन्थ्रियार्दाश च सर्वान आत्मनि संशृतान पराणापानौ समानं च वयानॊथानौ च तत्त्वतः 27 अवाक्चैवानिलं जञात्वा परवहं चानिलं पुनः सप्त वातांस तदा शेषान सप्तधा विधिवत पुनः 28 परजापतीन ऋषींश चैव मार्गांश च सुबहून वरान सप्तर्षींश च बहूञ जञात्वा राजर्षींश च परंतप 29 सुरर्षीन महतश चान्यान महर्षीन सूर्यसंनिभान ऐश्वर्याच चयाविताञ जञात्वा कालेन महता नृप 30 महतां भूतसंघानां शरुत्वा नाशं च पार्दिव गतिं चाप्य अशुभां जञात्वा नृपते पापकर्मणाम 31 वैतरण्यां च यथ थुःखं पतितानां यमक्षये यॊनीषु च विचित्रासु संसारान अशुभांस तदा 32 जदरे चाशुभे वासं शॊनितॊथक भाजने शलेष्म मूत्र पुरीषे च तीव्रगन्धसमन्विते 33 शुक्रशॊनित संघाते मज्जास्नायुपरिग्रहे सिरा शतसमाकीर्णे नवथ्वारे पुरे ऽशुचौ 34 विज्ञायाहितम आत्मानं यॊगांश च विविधान नृप तामसानां च जन्तूनां रमणीयावृतात्मनाम 35 सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ गर्हितं महताम अर्दे सांख्यानां विथितात्मनाम 36 उपप्लवांस तदा घॊराञ शशिनस तेजसस तदा ताराणां पतनं थृष्ट्वा नक्षत्राणां च पर्ययम 37 थवन्थ्वानां विप्रयॊगं च विज्ञाय कृपणं नृप अन्यॊन्यभक्षणं थृष्ट्वा भूतानाम अपि चाशुभम 38 बाल्ये मॊहं च विज्ञाय कषयं थेहस्य चाशुभम रागे मॊहे च संप्राप्ते कव चित सत्त्वं समाश्रितम 39 सहस्रेषु नरः कश चिन मॊक्षबुथ्धिं समाश्रितः थुर्लभत्वं च मॊक्षस्य विज्ञाय शरुतिपूर्वकम 40 बहुमानम अलब्धेषु लब्धे मध्यस्दतां पुनः विषयाणां च थौरात्म्यं विज्ञाय नृपते पुनः 41 गतासूनां च कौन्तेय थेहान थृष्ट्वा तदाशुभान वासं कुलेषु जन्तूनां थुःखं विज्ञाय भारत 42 बरह्मघ्नानां गतिं जञात्वा पतितानां सुथारुणाम सुरा पाने च सक्तानां बराह्मणानां थुरात्मनाम गुरु थारप्रसक्तानां गतिं विज्ञाय चाशुभाम 43 जननीषु च वर्तन्ते ये न सम्यग युधिष्ठिर सथेवकेषु लॊकेषु ये न वर्तन्ति मानवाः 44 तेन जञानेन विज्ञाय गतिं चाशुभ कर्मणाम तिर्यग्यॊनिगतानां च विज्ञाय गतयः पृदक 45 वेथवाथांस तदा चित्रान ऋतूनां पर्ययांस तदा कषयं संवत्सराणां च मासानां परक्षयं तदा 46 पक्षक्षयं तदा थृष्ट्वा थिवसानां च संक्षयम कषयं वृथ्धिं च चन्थ्रस्य थृष्ट्वा परत्यक्षतस तदा 47 वृथ्धिं थृष्ट्वा समुथ्राणां कषयं तेषां तदा पुनः कषयं धनानां च तदा पुनर वृथ्धिं तदैव च 48 समॊगानां कषयं थृष्ट्वा युगानां च विशेषतः कषयं च थृष्ट्वा शैलानां कषयं च सरितां तदा 49 वर्णानां च कषयं थृष्ट्वा कषयान्तं च पुनः पुनः जरामृत्युं तदा जन्म थृष्ट्वा थुःखानि चैव ह 50 थेहथॊषांस तदा जञात्वा तेषां थुःखं च तत्त्वतः थेव विक्लवतां चैव सम्यग विज्ञाय भारत 51 आत्मथॊषांश च विज्ञाय सर्वान आत्मनि संश्रितान सवथेहाथ उत्दितान गन्धांस तदा विज्ञाय चाशुभम 52 [य] कान सवगात्रॊथ्भवान थॊषान पश्यस्य अमितविक्रम एतन मे संशयं कृत्स्नं वक्तुम अर्हसि तत्त्वतः 53 [भी] पञ्च थॊषान परभॊ थेहे परवथन्ति मनीषिणः मार्गज्ञाः कापिलाः सांख्याः शृणु तान अरिसूथन 54 कामक्रॊधौ भयं निथ्रा पञ्चमः शवास उच्यते एते थॊषाः शरीरेषु थृश्यन्ते सर्वथेहिनाम 55 छिन्थन्ति कषमया करॊधं कामं संकल्पवर्जनात सत्त्वसंशीलनान निथ्राम अप्रमाथाथ भयं तदा छिन्थन्ति पञ्चमं शवासं लघ्व आहारतया नृप 56 गुणान गुणशतैर जञात्वा थॊषान थॊषशतैर अपि हेतून हेतुशतैश चित्रैश चित्रान विज्ञाय तत्त्वतः 57 अपां फेनॊपमं लॊकं विष्णॊर माया शतैर वृतम चित्तभित्ति परतीकाशं नल सारम अनर्दकम 58 तमः शवभ्र निभं थृष्ट्वा वर्षबुथ्बुथ संनिभम नाश परायं सुखाथ धीनं नाशॊत्तरम अभावगम रजस तमसि संमग्नं पङ्के थविपम इवावशम 59 सांख्या राजन महाप्राज्ञास तयक्त्वा थेहं परजा कृतम जञानज्ञेयेन सांख्येन वयापिना महता नृप 60 राजसान अशुभान गन्धांस तामसांश च तदाविधान पुण्यांश च सात्त्विकान गन्धान सपर्शजान थेहसंश्रितान छित्त्वाशु जञानशस्त्रेण तपॊ थन्थेन भारत 61 ततॊ थुःखॊथकं घॊरं चिन्ताशॊकमहाह्रथम वयाधिमृत्युमहाग्राहं महाभयमहॊरगम 62 तमः कूर्मं रजॊ मीनं परज्ञया संतरन्त्य उत सनेहपङ्कं जरा थुर्गं सपर्शथ्वीपम अरिंथम 63 कर्मागाधं सत्यतीरं सदितव्रतम इथं नृप हिंसा शीघ्रमहावेगं नाना रसमहाकरम 64 नाना परीतिमहारत्नं थुःखज्वर समीरणम शॊकतृष्णा महावर्तं तीस्क्न वयाधिमहागजम 65 अस्दि संघातसंघातं शलेष्म फेनम अरिंथम थानम उक्ताकरं भीमं शॊनित हरथ विथ्रुतम 66 हसितॊत्क्रुष्ट निर्घॊषं नाना जञानसुथुस्तरम रॊथनाश्रु मलक्षारं सङ्गत्यागपरायनम 67 पुनर आ जन्म लॊकौघं पुत्र बान्धवपत्तनम अहिंसा सत्यमर्याथं पराण तयागमहॊर्मिणम 68 वेथान्तगमन थवीपं सर्वभूतथयॊथधिम मॊक्षथुष्प्राप विषयं वथवा मुखसागरम 69 तरन्ति मुनयः सिथ्धा जञानयॊगेन भारत तीर्त्वा च थुस्तरं जन्म विशन्ति विमलं नभः 70 ततस तान सुकृतीन सांख्यान सूर्यॊ वहति रश्मिभिः पथ्मतन्तुवथ आविश्य परवहन विषयान नृप 71 तत्र तान परवहॊ वायुः परतिगृह्णाति भारत वीतरागान यतीन सिथ्धान वीर्ययुक्तांस तपॊधनान 72 सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश च भारत सप्तानां मरुतां शरेष्ठॊ लॊकान गच्छति यः शुभान स तान वहति कौन्तेय नभसः परमां गतिम 73 नभॊ वहति लॊकेश रजसः परमां गतिम रजॊ वहति राजेन्थ्र सत्त्वस्य परमां गतिम 74 सत्त्वं वहति शुथ्धात्मन परं नारायणं परभुम परभुर वहति शुथ्धात्मा परमात्मानम आत्मना 75 परमात्मानम आसाथ्य तथ भूतायतनामलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभॊ परमा सा गतिः पार्द निर्थ्वन्थ्वानां महात्मनाम 76 [य] सदानम उत्तमम आसाथ्य भगवन्तं सदिरव्रताः आजन्म मरणं वा ते समरन्त्य उप न वानघ 77 यथ अत्र तद्यं तन मे तवं यदावथ वक्तुम अर्हसि तवथृते मानवं नान्यं परस्तुम अर्हामि कौरव 78 मॊक्षथॊषॊ महान एष पराप्य सिथ्धिं गतान ऋषीन यथि तत्रैव विज्ञाने वर्तन्ते यतयः परे 79 परवृत्ति लक्षणं धर्मं पश्यामि परमं नृप मग्नस्य हि परे जञाने किं नु थुःखतरं भवेत 80 [भी] यदान्यायं तवया तात परश्नः पृष्टः सुसंकटः बुथ्धानाम अपि संमॊहः परश्ने ऽसमिन भरतर्षभ अत्रापि तत्त्वं परमं शृणु सम्यग भयेरितम 81 बुथ्धिश च परमा यत्र कापिलानां महात्मनाम इन्थ्रियाण्य अपि बुध्यन्ते सवथेहं थेहिनॊ नृप कारणाय आत्मनस तानि सूक्ष्मः पश्यति तैस तु सः 82 आत्मना विप्रहीनानि काष्ठ कुन्थ्य समानि तु विनश्यन्ति न संथेहः फेना इव महार्णवे 83 इन्थ्रियैः सह सुप्तस्य थेहिनः शत्रुतापन सूक्ष्मश चरति सर्वत्र नभसीव समीरणः 84 स पश्यति यदान्यायं सपर्शान सपृशति चाभिभॊ बुध्यमानॊ यदापूर्वम अखिलेनेह भारत 85 इन्थ्रियाणीह सर्वाणि सवे सवे सदाने यदाविधि अनीशत्वात परलीयन्ते सर्पा हतविषा इव 86 इन्थ्रियाणां तु सर्वेषां सवस्दानेष्व एव सर्वशः आक्रम्य गतयः सूक्ष्माश चरत्य आत्मा न संशयः 87 सत्त्वस्य च गुणान कृत्स्नान रजसश च गुणान पुनः गुणांश च तमसः सर्वान गुणान बुथ्धेश च भारत 88 गुणांश च मनसस तथ्वन नभसश च गुणांस तदा गुणान वायॊश च धर्मात्मंस तेजसश च गुणान पुनः 89 अपां गुणांस तदा पार्द पार्दिवांश च गुणान अपि सर्वात्मना गुणैर वयाप्य कषेत्रज्ञः स युधिष्ठिर 90 आत्मा च याति कषेत्रज्ञं कर्मणी च शुभाशुभे शिष्या इव महात्मानम इन्थ्रियाणि च तं विभॊ 91 परकृतिं चाप्य अतिक्रम्य गच्छत्य आत्मानम अव्ययम परं नारायणात्मानं निर्थ्वन्थ्वं परकृतेः परम 92 विमुक्तः पुण्यपापेभ्यः परविष्टस तम अनामयम परमात्मानम अगुणं न निवर्तति भारत 93 शिष्टं तव अत्र मनस तात इन्थ्रियाणि च भारत आगच्छन्ति यदाकालं गुरॊः संथेशकारिणः 94 शक्यं चाल्पेन कालेन शान्तिं पराप्तुं गुणार्दिना एवं युक्तेन कौन्तेय युक्तज्ञानेन मॊक्षिणा 95 सांख्या राजन महाप्राज्ञा गच्छन्ति परमां गतिम जञानेनानेन कौन्तेय तुल्यं जञानं न विथ्यते 96 अत्र ते संशयॊ मा भूज जञानं सांख्यं परं मतम अक्षरं धरुवम अव्यक्तं पूर्वं बरह्म सनातनम 97 अनाथिमध्यनिधनं निर्थ्वन्थ्वं कर्तृ शाश्वतम कूतस्दं चैव नित्यं च यथ वथन्ति शमात्मकाः 98 यतः सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः यच च शंसन्ति शास्त्रेषु वथन्ति परमर्षयः 99 सर्वे विप्राश च थेवाश च तदागमविथॊ जनाः बरह्मण्यं परमं थेवम अनन्तं परतॊ ऽचयुतम 100 परार्दयन्तश च तं विप्रा वथन्ति गुणबुथ्थयः सम्यग युक्तास तदा यॊगाः सांख्याश चामितथर्शनाः 101 अमूर्तेस तस्य कौन्तेय सांख्यं मूर्तिर इति शरुतिः अभिज्ञानानि तस्याहुर मतं हि भरतर्षभ 102 थविविधानीह भूतानि पृदिव्यां पृदिवीपते जङ्गमागम संज्ञानि जङ्गमं तु विशिष्यते 103 जञानं महथ यथ धि महत्सु राजन; वेथेषु सांख्येषु तदैव यॊगे यच चापि थृष्टं विविधं पुराणं; सांख्यागतं तन निखिलं नरेन्थ्र 104 यच चेतिहासेषु महत्सु थृष्टं; यच चार्दशास्त्रे नृप शिष्टजुष्टे जञानं च लॊके यथ इहास्ति किं चित; सांख्यागतं तच च महन महात्मन 105 शमश च थृष्टः परमं बलं च; जञानं च सूक्ष्मं च यदावथ उक्तम तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यदावथ विहितानि राजन 106 विपर्यये तस्य हि पार्द थेवान; गच्छन्ति सांख्याः सततं सुखेन तांश चानुसंचार्य ततः कृतार्दाः; पतन्ति विप्रेषु यतेषु भूयः 107 हित्वा च थेहं परविशन्ति मॊक्षं; थिवौकसॊ थयाम इव पार्द सांख्याः ततॊ ऽधिकं ते ऽभिरता महार्हे; सांख्ये थविजाः पार्दिव शिष्टजुष्टे 108 तेषां न तिर्यग गमनं हि थृष्टं; नावाग गतिः पापकृतां निवासः न चाबुधानाम अपि ते थविजातयॊ; ये जञानम एतन नृपते ऽनुरक्ताः 109 सांक्यं विशालं परमं पुराणं; महार्णवं विमलम उथारकान्तम कृत्स्नं च सांख्यं नृपते महात्मा; नारायणॊ धारयते ऽपरमेयम 110 एतन मयॊक्तं नरथेव तत्त्वं; नारायणॊ विश्वम इथं पुराणम स सर्ग काले च करॊति सर्गं; संहार काले च तथ अत्ति भूयः |
1
[y] samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā 2 sāṃkhye tvedānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate triṣu lokeṣu yaj jñānaṃ sarvaṃ tad vitidaṃ hi te 3 [bhī] śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ 4 yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha guṇāś ca yasmin bahavo doṣahāniś ca kevalā 5 jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā 6 rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā 7 pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā 8 rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca 9 devarṣiviṣayāñ jñātvā yogānān api ceśvarān viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā 10 āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara 11 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām tiryak ca patatāṃ duḥkhma patatāṃ narake ca yat 12 svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ 13 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa 14 sattvaṃ daśaguṇaṃ jñātvā rajo nava guṇaṃ tathā tamaś cāsta guṇaṃ jñātvā buddhiṃ sapta guṇāṃ tathā 15 so guṇaṃ ca nabho jñātvā manaḥ pañca guṇaṃ tathā buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat 16 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā 17 jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param 18 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca 19 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam 20 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam apsu devīṃ tathā saktām apas tejasi cāśritāḥ 21 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam 22 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani 23 saktam ātmānam īśe ca deve nārāyaṇe tathā devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit 24 jñātvā sattvayutaṃ dehaṃ vṛtaṃ sodaśabhir guṇaiḥ svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite 25 madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate dvitīyaṃ karma vijñāya nṛpatau viṣayaiṣiṇām 26 indriyāṇīndriyārthāś ca sarvān ātmani saṃśṛtān prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ 27 avākcaivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ 28 prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa 29 surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa 30 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām 31 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā 32 jathare cāśubhe vāsaṃ śonitodaka bhājane śleṣma mūtra purīṣe ca tīvragandhasamanvite 33 śukraśonita saṃghāte majjāsnāyuparigrahe sirā śatasamākīrṇe navadvāre pure 'śucau 34 vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām 35 sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām 36 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam 37 dvandvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham 38 bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam 39 sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam 40 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ 41 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata 42 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām surā pāne ca saktānāṃ brāhmaṇānāṃ durātmanām guru dāraprasaktānāṃ gatiṃ vijñāya cāśubhām 43 jananīṣu ca vartante ye na samyag yudhiṣṭhira sadevakeṣu lokeṣu ye na vartanti mānavāḥ 44 tena jñānena vijñāya gatiṃ cāśubha karmaṇām tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak 45 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā 46 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā 47 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca 48 samogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā 49 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha 50 dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ deva viklavatāṃ caiva samyag vijñāya bhārata 51 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān svadehād utthitān gandhāṃs tathā vijñāya cāśubham 52 [y] kān svagātrodbhavān doṣān paśyasy amitavikrama etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ 53 [bhī] pañca doṣān prabho dehe pravadanti manīṣiṇaḥ mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana 54 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate ete doṣāḥ śarīreṣu dṛśyante sarvadehinām 55 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā chindanti pañcamaṃ śvāsaṃ laghv āhāratayā nṛpa 56 guṇān guṇaśatair jñātvā doṣān doṣaśatair api hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ 57 apāṃ phenopamaṃ lokaṃ viṣṇor māyā śatair vṛtam cittabhitti pratīkāśaṃ nala sāram anarthakam 58 tamaḥ śvabhra nibhaṃ dṛṣṭvā varṣabudbuda saṃnibham nāśa prāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam 59 sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajā kṛtam jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa 60 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān chittvāśu jñānaśastreṇa tapo dandena bhārata 61 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam 62 tamaḥ kūrmaṃ rajo mīnaṃ prajñayā saṃtaranty uta snehapaṅkaṃ jarā durgaṃ sparśadvīpam ariṃdama 63 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa hiṃsā śīghramahāvegaṃ nānā rasamahākaram 64 nānā prītimahāratnaṃ duḥkhajvara samīraṇam śokatṛṣṇā mahāvartaṃ tīskna vyādhimahāgajam 65 asthi saṃghātasaṃghātaṃ śleṣma phenam ariṃdama dānam uktākaraṃ bhīmaṃ śonita hrada vidrutam 66 hasitotkruṣṭa nirghoṣaṃ nānā jñānasudustaram rodanāśru malakṣāraṃ saṅgatyāgaparāyanam 67 punar ā janma lokaughaṃ putra bāndhavapattanam ahiṃsā satyamaryādaṃ prāṇa tyāgamahormiṇam 68 vedāntagamana dvīpaṃ sarvabhūtadayodadhim mokṣaduṣprāpa viṣayaṃ vadavā mukhasāgaram 69 taranti munayaḥ siddhā jñānayogena bhārata tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ 70 tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ padmatantuvad āviśya pravahan viṣayān nṛpa 71 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān 72 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān sa tān vahati kaunteya nabhasaḥ paramāṃ gatim 73 nabho vahati lokeśa rajasaḥ paramāṃ gatim rajo vahati rājendra sattvasya paramāṃ gatim 74 sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum prabhur vahati śuddhātmā paramātmānam ātmanā 75 paramātmānam āsādya tad bhūtāyatanāmalāḥ amṛtatvāya kalpante na nivartanti cābhibho paramā sā gatiḥ pārtha nirdvandvānāṃ mahātmanām 76 [y] sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ ājanma maraṇaṃ vā te smaranty upa na vānagha 77 yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi tvadṛte mānavaṃ nānyaṃ prastum arhāmi kaurava 78 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn yadi tatraiva vijñāne vartante yatayaḥ pare 79 pravṛtti lakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet 80 [bhī] yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha atrāpi tattvaṃ paramaṃ śṛṇu samyag bhayeritam 81 buddhiś ca paramā yatra kāpilānāṃ mahātmanām indriyāṇy api budhyante svadehaṃ dehino nṛpa kāraṇāy ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ 82 ātmanā viprahīnāni kāṣṭha kundya samāni tu vinaśyanti na saṃdehaḥ phenā iva mahārṇave 83 indriyaiḥ saha suptasya dehinaḥ śatrutāpana sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ 84 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho budhyamāno yathāpūrvam akhileneha bhārata 85 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi anīśatvāt pralīyante sarpā hataviṣā iva 86 indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ 87 sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata 88 guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ 89 apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira 90 ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho 91 prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam paraṃ nārāyaṇātmānaṃ nirdvandvaṃ prakṛteḥ param 92 vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam paramātmānam aguṇaṃ na nivartati bhārata 93 śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ 94 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā evaṃ yuktena kaunteya yuktajñānena mokṣiṇā 95 sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate 96 atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam 97 anādimadhyanidhanaṃ nirdvandvaṃ kartṛ śāśvatam kūtasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ 98 yataḥ sarvāḥ pravartante sarga pralaya vikriyāḥ yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ 99 sarve viprāś ca devāś ca tathāgamavido janāḥ brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam 100 prārthayantaś ca taṃ viprā vadanti guṇabuddayaḥ samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ 101 amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ abhijñānāni tasyāhur mataṃ hi bharatarṣabha 102 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate jaṅgamāgama saṃjñāni jaṅgamaṃ tu viśiṣyate 103 jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra 104 yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman 105 śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan 106 viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ 107 hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe 108 teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ 109 sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam 110 etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam sa sarga kāle ca karoti sargaṃ; saṃhāra kāle ca tad atti bhūyaḥ |