1
[य] पूर्वरूपाणि मे राजन पुरुषस्य भविष्यतः पराभविष्यतश चैव तवं मे बरूहि पितामह 2 [भी] मन एव मनुष्यस्य पूर्वरूपाणि शंसति भविष्यतश च भथ्रं ते तदैव न भविष्यतः 3 अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम शरिया शक्रस्य संवाथं तन निबॊध युधिष्ठिर 4 महतस तपसॊ वयुष्ट्या पश्यँल लॊकौ परावरौ सामान्यम ऋषिभिर गत्वा बरह्मलॊकनिवासिभिः 5 बरह्मैवामित थीप्तौजाः शान्तपाप्मा महातपाः विचचार यदाकामं तरिषु लॊकेषु नारथः 6 कथा चित परातर उत्दाय पिस्पृक्षुः सलिलं शुचि धरुवथ्वार भवां गङ्गां जगामावततार च 7 सहस्रनयनश चापि वज्री शम्बर पाकहा तस्या थेवर्षिजुष्टायास तीरम अभ्याजगाम ह 8 ताव आप्लुत्य यतात्मानौ कृतजप्यौ समासतुः नथ्याः पुलिनम आसाथ्य सूक्ष्मकाञ्चनवालिकम 9 पुण्यकर्मभिर आख्याता थेवर्षिकदिताः कदाः चक्रतुस तौ कदाशीलौ शुचि संहृष्टमानसौ पूर्ववृत्तव्यपेतानि कदयन्तौ समाहितौ 10 अद भास्करम उथ्यन्तं रश्मिजालपुरस्कृतम पूर्णमन्थलम आलॊक्य ताव उत्दायॊपतस्दतुः 11 अभितस तूथयन्तं तम अर्कम अर्कम इवापरम आकाशे थथृशे जयॊतिर उथ्यतार्चिः समप्रभम 12 तयॊः समीपं संप्राप्तं परत्यथृश्यत भारत तत सुपर्णार्क चरितम आस्दितं वैष्नवं पथम भाभिर अप्रतिमं भाति तरैलॊक्यम अवभासयत 13 थिव्याभिरूप शॊभाभिर अप्सरॊभिः पुरस्कृताम बृहतीम अंशुमत परख्यां बृहथ भानॊर इवार्चिषम 14 नक्षत्रकल्पाभरणां तारा भक्तिसमस्रजम शरियं थथृशतुः पथ्मां साक्षात पथ्मतलस्दिताम 15 सावरुह्य विमानाग्राथ अङ्गनानाम अनुत्तमा अभ्यगच्छत तरिलॊकेशं शक्रं चर्षिं च नारथम 16 नारथानुगतः साक्षान मघवांस ताम उपागमत कृताञ्जलिपुतॊ थेवीं निवेथ्यात्मानम आत्मना 17 चक्रे चानुपमां पूजां तस्याश चापि स सर्ववित थेवराजः शरियं राजन वाक्यं चेथम उवाच ह 18 का तवं केन च कार्येण संप्राप्ता चारुहासिनि कुतश चागम्यते सुभ्रु गन्तव्यं कव च ते शुभे 19 [षरी] पुण्येषु तरिषु लॊकेषु सर्वे सदावरजङ्गमः ममात्मभावम इच्छन्तॊ यतन्ते परमात्मना 20 साहं वै पङ्कजे जाता सूर्यरश्मि विबॊधिते भूत्यर्दं सर्वभूतानां पथ्मा शरीः पथ्ममालिनी 21 अहं लक्ष्मीर अहं भूतिः शरीश चाहं बलसूथन अहं शरथ्धा च मेधा च सन्नतिर विजितिः सदितिः 22 अहं धृतिर अहं सिथ्धिर अहं तविड भूतिर एव च अहं सवाहा सवधा चैव संस्तुतिर नियतिः कृतिः 23 राज्ञां विजयमानानां सेनाग्रेषु धवजेषु च निवासे धर्मशीलानां विषयेषु पुरेषु च 24 जितकाशिनि शूरे च संग्रामेष्व अनिवर्तिनि निवसामि मनुष्येन्थ्रे सथैव बलसूथलन 25 धर्मनित्ये महाबुथ्धौ बरह्मण्ये सत्यवाथिनि परश्रिते थानशीले च सथैव निवसाम्य अहम 26 असुरेष्व अवसंस पूर्वं सत्यधर्मनिबन्धना विपारीतांस तु तान बुथ्ध्वा तवयि वासम अरॊचयम 27 [षक्र] कदं वृत्तेषु थैत्येषु तवम अवात्सीर वरानने थृष्ट्वा च किम इहागास तवं हित्वा थैतेय थानवान 28 [षरी] सवधर्मम अनुतिष्ठत्सु धैर्याथ अचलितेषु च सवर्गमार्गाभिरामेषु सत्त्वेषु निरता हय अहम 29 थानाध्ययनयज्ञेज्या गुरु थैवतपूजनम विप्राणाम अतिदीनां च तेषां नित्यम अवर्तत 30 सुसंमृष्ट गृहाश चासञ जितस्त्रीका हुताग्नयः गुरु शुश्रूसवॊ थान्ता बरह्मण्याः सत्यवाथिनः 31 शरथ्थधाना जितक्रॊधा थानशीलानसूयकाः भृतपुत्रा भृतामात्या भृतथारा हय अनीर्षवः 32 अमर्षणा न चान्यॊन्यं सपृहयन्ति कथा चन न च जातूपतप्यन्ते धीराः परसमृथ्धिभिः 33 थातारः संगृहीतार आर्याः करुणवेथिनः महाप्रसाथा ऋजवॊ थृध भक्ता जितेन्थ्रियाः 34 संतुष्टभृत्यसचिवाः कृतज्ञाः परियवाथिनः यदार्दमानार्द करा हरीनिषेधा यतव्रताः 35 नित्यं पर्वसु सुस्नाताः सवनुलिप्ताः सवलंकृताः उपवासतपः शीलाः परतीता बरह्मवाथिनः 36 नैनान अभ्युथियात सूर्यॊ न चाप्य आसन परगेनिशाः रात्रौ थधि च सक्तूंश च नित्यम एव वयवर्जयन 37 काल्यं घृतं चान्ववेक्षन परयता बरह्मचारिणः मङ्गलान अपि चापश्यन बराह्मणांश चाप्य अपूजयन 38 सथा हि थथतां धर्मः सथा चाप्रतिगृह्णताम अर्धं च रात्र्याः सवपतां थिवा चास्वपतां तदा 39 कृपणानाद वृथ्धानां थुर्बलातुर यॊषिताम थायं च संविभागं च नित्यम एवानुमॊथताम 40 विषण्णं तरस्तम उथ्विग्नं भयार्तं वयाधिपीडितम हृतस्वं वयसनार्तं च नित्यम आश्वासयन्ति ते 41 धर्मम एवान्ववर्तन्त न हिंसन्ति परस्परम अनुकूलांश च कार्येषु गुरु वृथ्धॊपसेविनः 42 पितृथेवातिदींश चैव यदावत ते ऽभयपूजयन अवशेषाणि चाश्नन्ति नित्यं सत्यतपॊ रताः 43 नैके ऽशनन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम सर्वभूतेष्व अवर्तन्त यदात्मनि थयां परति 44 नैवाकाशे न पशुषु नायॊनौ न च पर्वसु इन्थ्रियस्य विसर्गं ते ऽरॊचयन्त कथा चन 45 नित्यं थानं तदा थाक्ष्यम आर्जवं चैव नित्यथा उत्साहश चानहंकारः परमं सौहृथं कषमा 46 सत्यं थानं तपः शौचं कारुण्यं वाग अनिष्ठुरा मित्रेषु चानभिथ्रॊहः सर्वं तेष्व अभवत परभॊ 47 निथ्रा तन्थ्री रसं परीतिर असूया चानवेक्षिता अरतिश च विषाथश च न सपृहा चाविशन्त ता 48 साहम एवंगुणेष्व एव थानवेष्व अवसं पुरा परजा सर्गम उपाथाय नैकं युगविपर्यमम 49 ततः कालविपर्यासे तेषां गुणविपर्ययात अपश्यं विगतं धर्मं कामक्रॊधवशात्मनाम 50 सभा सथां ते वृथ्धानां सत्याः कदयतां कदाः पराहसन्न अभ्यसूयंश च सर्ववृथ्धान गुणावराः 51 यूनः सह समासीनान वृथ्धान अभिगतान सतः नाभ्युत्दानाभिवाथाभ्यां यदापूर्वम अपूजयन 52 वर्तयन्त्य एव पितरि पुत्राः परभवतात्मनः अमित्रभृत्यतां पराप्य खयापयन्तॊ ऽनपत्रपाः 53 तदा धर्माथ अपेतेन कर्मणा गर्हितेन ये महतः पराप्नुवन्त्य अर्दांस तेष्व एषाम अभवत सपृहा 54 उच्छैश चाप्य अवथन रात्रौ नीचैस तत्राग्निर अज्वलत पुत्राः पितॄन अभ्यवथन भार्याश चाभ्यवथन पतीन 55 मातरं पितरं वृथ्धम आचार्यम अतिदिं गुरुम गुरुवन नाभ्यनन्थन्त कुमारान नान्वपालयन 56 भिक्षां बलिम अथत्त्वा च सवयम अन्नानि भुञ्जते अनिष्ट्वा संविभज्याद पितृथेवातिदीन गुरून 57 न शौचम अनुरुध्यन्त तेषां सूथजनास तदा मनसा कर्मणा वाचा भकम आसीथ अनावृतम 58 विप्रकीर्णानि धान्यानि काकमूषक भॊजनम अपावृतं पयॊ ऽतिष्ठथ उच्छिष्टाश चास्पृशन घृतम 59 कुथ्थाल पाती पतकं परकीर्णं कांस्यभाजनम थरव्यॊपकरणं सर्वं नान्ववैक्षत कुतुम्बिनी 60 पराकारागार विध्वंसान न सम ते परतिकुर्वते नाथ्रियन्ते पशून बथ्ध्वा यवसेनॊथकेन च 61 बालानां परेक्षमाणानां सवयं भक्षान अभक्षयन तदा भृत्यजनं सर्वं पर्यश्नन्ति च थानवाः 62 पायसं कृसरं मांसम अपूपान अद शस्कुलीः अपाचयन्न आत्मनॊ ऽरदे वृदा मांसान्य अभक्षयन 63 उत्सूर्य शायिनश चासन सर्वे चासन परगेनिशाः अवर्तन कलहाश चात्र थिवारात्रं गृहे गृहे 64 अनार्याश चार्यम आसीनं पर्युपासन न तत्र ह आश्रमस्दान विकर्मस्दाः परथ्विषन्ति परस्परम संकराश चाप्य अवर्तन्त न च शौचम अवर्तत 65 ये च वेथ विथॊ विप्रा विस्पष्टम अनृचश च ये निरन्तरविशेषास ते बहुमानावमानयॊः 66 हावम आभरणं वेषं गतिं सदितिम अवेक्षितुम असेवन्त भुजिष्या वै थुर्जनाचरितं विधिम 67 सत्रियः पुरुषवेषेण पुंसः सत्री वेषधारिणः करीथा रतिविहारेषु परां मुथम अवाप्नुवन 68 परभवथ्भिः पुरा थायान अर्हेभ्यः परतिपाथितान नाभ्यवर्तन्त नास्तिक्याथ वर्तन्तः संभवेष्व अपि 69 मित्रेणाभ्यर्दितं मित्रम अर्दे संशयिते कव चित बाल कॊत्य अग्रमात्रेण सवार्देनाघ्नत तथ वसु 70 परस्वाथान रुचयॊ विपन्य वयवहारिणः अथृश्यन्तार्य वर्णेषु शूथ्राश चापि तपॊधनाः 71 अधीयन्ते ऽवरताः के चिथ वृदा वरतम अदापरे अशुश्रूसुर गुरॊः शिष्यः कश चिच छिष्य सखॊ गुरुः 72 पिता चैव जनित्री च शरान्तौ वृत्तॊत्सवाव इव अप्रभुत्वे सदितौ वृत्दाव अन्नं परार्दयतः सुतान 73 तत्र वेथ विथः पराज्ञा गाम्भीर्ये सगरॊपमाः कृष्याथिष्व अभवन सक्ता मूर्खाः शराथ्धान्य अभुञ्जत 74 परातः परातर च सुप्रश्नं कल्पनं परेषण करियाः शिष्यानुप्रहितास तस्मिन्न अकुर्वन गुरवश च ह 75 शवश्रू शवशुरयॊर अग्रे वधूः परेष्यान अशासत अन्वशासच च भर्तारं समाहूयाभिजल्पती 76 परयत्नेनापि चारक्षच चित्तं पुत्रस्य वै पिता वयभजंश चापि संरम्भाथ थुःखवासं तदावसन 77 अग्निथाहेन चॊरैर वा राजभिर वा हृतं धनम थृष्ट्वा थवेषात पराहसन्त सुहृत संभाविता हय अपि 78 कृतघ्ना नास्तिकाः पापा गुरु थाराभिमर्शिनः अभक्ष्य भक्षण रता निर्मर्याथा हतत्विषः 79 तेष्व एवमाथीन आचारान आचरत्सु विपर्यये नाहं थेवेन्थ्र वत्स्यामि थानवेष्व इति मे मतिः 80 तां मां सवयम अनुप्राप्ताम अभिनन्थ शचीपते तवयार्चितां मां थेवेश पुरॊधास्यन्ति थेवताः 81 यत्राहं तत्र मत कान्ता मथ्विशिष्टा मथर्पणाः सप्त थेव्यॊ मयास्तम्यॊ वसं चेष्यन्ति मे ऽसतधा 82 आशा शरथ्धा धृतिः कान्तिर विजितिः सन्नतिः कषमा अस्तमी वृत्तिर एतासां पुरॊगा पाकशासन 83 ताश चाहं चासुरांस तयक्त्वा युष्मथ विषयम आगता तरिथशेषु निवत्स्यामॊ धर्मनिष्ठान्तर आत्मसु 84 [भी] इत्य उक्तवचनां थेवीम अत्यर्दं तौ ननन्थतुः नारथश च तरिलॊकर्षिर वृत्र हन्ता च वासवः 85 ततॊ ऽनल सखॊ वायुः परववौ थेव वेश्मसु इष्टगन्धः सुखस्पर्शः सर्वेन्थ्रियसुखावहः 86 शुचौ चाभ्यर्चिते थेशे तरिथशाः परायशः सदिताः लक्ष्म्या सहितम आसीनं मघवन्तं थिथृक्षवः 87 ततॊ थिवं पराप्य सहस्रलॊचनः; शरियॊपपन्नः सुहृथा सुरर्षिणा रदेन हर्यश्वयुजा सुरर्षभः; सथः सुराणाम अभिसत्कृतॊ ययौ 88 अदेङ्गितं वज्रधरस्य नारथः; शरियाश च थेव्या मनसा विचारयन शरियै शशंसामर थृष्टपौरुषः; शिवेन तत्रागमनं महर्थ्धिमत 89 ततॊ ऽमृतं थयौः परववर्ष भास्वती; पितामहस्यायतने सवयम्भुवः अनाहत थुन्थुभयश च नेथिरे; तदा परसन्नाश च थिशश चकाशिरे 90 यदर्तु सस्येषु ववर्ष वासवॊ; न धर्ममार्गाथ विचचाल कश चन अनेकरत्राकर भूसना च भूः; सुघॊषघॊषा भुवनौकसां जये 91 करियाभिरामा मनुजा यशस्विनॊ; बभुः शुभे पुण्यकृतां पदि सदिताः नरामराः किंनरयक्षराक्षसाः; समृथ्धिमन्तः सुखिनॊ यशस्विनः 92 न जात्व अकाले कुसुमं कुतः फलं; पपात वृक्षात पवनेरिताथ अपि रसप्रथाः कामथुघाश च धेनवॊ; न थारुणा वाग विचचार कस्य चित 93 इमां सपर्यां सह सर्वकामथैः; शरियां च शक्र परमुखैश च थैवतैः पदन्ति ये विप्रसथः समागमे; समृथ्धकामाः शरियम आप्नुवन्ति ते 94 तवया कुरूणां वरयत परचॊथितं; भवाभवस्येह परं निथर्शनम तथ अथ्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुम अर्हसि |
1
[y] pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ parābhaviṣyataś caiva tvaṃ me brūhi pitāmaha 2 [bhī] mana eva manuṣyasya pūrvarūpāṇi śaṃsati bhaviṣyataś ca bhadraṃ te tathaiva na bhaviṣyataḥ 3 atrāpy udāharantīmam itihāsaṃ purātanam śriyā śakrasya saṃvādaṃ tan nibodha yudhiṣṭhira 4 mahatas tapaso vyuṣṭyā paśyaṁl lokau parāvarau sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ 5 brahmaivāmita dīptaujāḥ śāntapāpmā mahātapāḥ vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ 6 kadā cit prātar utthāya pispṛkṣuḥ salilaṃ śuci dhruvadvāra bhavāṃ gaṅgāṃ jagāmāvatatāra ca 7 sahasranayanaś cāpi vajrī śambara pākahā tasyā devarṣijuṣṭāyās tīram abhyājagāma ha 8 tāv āplutya yatātmānau kṛtajapyau samāsatuḥ nadyāḥ pulinam āsādya sūkṣmakāñcanavālikam 9 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ cakratus tau kathāśīlau śuci saṃhṛṣṭamānasau pūrvavṛttavyapetāni kathayantau samāhitau 10 atha bhāskaram udyantaṃ raśmijālapuraskṛtam pūrṇamandalam ālokya tāv utthāyopatasthatuḥ 11 abhitas tūdayantaṃ tam arkam arkam ivāparam ākāśe dadṛśe jyotir udyatārciḥ samaprabham 12 tayoḥ samīpaṃ saṃprāptaṃ pratyadṛśyata bhārata tat suparṇārka caritam āsthitaṃ vaiṣnavaṃ padam bhābhir apratimaṃ bhāti trailokyam avabhāsayat 13 divyābhirūpa śobhābhir apsarobhiḥ puraskṛtām bṛhatīm aṃśumat prakhyāṃ bṛhad bhānor ivārciṣam 14 nakṣatrakalpābharaṇāṃ tārā bhaktisamasrajam śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām 15 sāvaruhya vimānāgrād aṅganānām anuttamā abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam 16 nāradānugataḥ sākṣān maghavāṃs tām upāgamat kṛtāñjaliputo devīṃ nivedyātmānam ātmanā 17 cakre cānupamāṃ pūjāṃ tasyāś cāpi sa sarvavit devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha 18 kā tvaṃ kena ca kāryeṇa saṃprāptā cāruhāsini kutaś cāgamyate subhru gantavyaṃ kva ca te śubhe 19 [ṣrī] puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamaḥ mamātmabhāvam icchanto yatante paramātmanā 20 sāhaṃ vai paṅkaje jātā sūryaraśmi vibodhite bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī 21 ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīś cāhaṃ balasūdana ahaṃ śraddhā ca medhā ca sannatir vijitiḥ sthitiḥ 22 ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ 23 rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca 24 jitakāśini śūre ca saṃgrāmeṣv anivartini nivasāmi manuṣyendre sadaiva balasūdalan 25 dharmanitye mahābuddhau brahmaṇye satyavādini praśrite dānaśīle ca sadaiva nivasāmy aham 26 asureṣv avasaṃs pūrvaṃ satyadharmanibandhanā vipārītāṃs tu tān buddhvā tvayi vāsam arocayam 27 [ṣakra] kathaṃ vṛtteṣu daityeṣu tvam avātsīr varānane dṛṣṭvā ca kim ihāgās tvaṃ hitvā daiteya dānavān 28 [ṣrī] svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca svargamārgābhirāmeṣu sattveṣu niratā hy aham 29 dānādhyayanayajñejyā guru daivatapūjanam viprāṇām atithīnāṃ ca teṣāṃ nityam avartata 30 susaṃmṛṣṭa gṛhāś cāsañ jitastrīkā hutāgnayaḥ guru śuśrūsavo dāntā brahmaṇyāḥ satyavādinaḥ 31 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ bhṛtaputrā bhṛtāmātyā bhṛtadārā hy anīrṣavaḥ 32 amarṣaṇā na cānyonyaṃ spṛhayanti kadā cana na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ 33 dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ mahāprasādā ṛjavo dṛdha bhaktā jitendriyāḥ 34 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ yathārthamānārtha karā hrīniṣedhā yatavratāḥ 35 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ upavāsatapaḥ śīlāḥ pratītā brahmavādinaḥ 36 nainān abhyudiyāt sūryo na cāpy āsan prageniśāḥ rātrau dadhi ca saktūṃś ca nityam eva vyavarjayan 37 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ maṅgalān api cāpaśyan brāhmaṇāṃś cāpy apūjayan 38 sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā 39 kṛpaṇānātha vṛddhānāṃ durbalātura yoṣitām dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām 40 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te 41 dharmam evānvavartanta na hiṃsanti parasparam anukūlāṃś ca kāryeṣu guru vṛddhopasevinaḥ 42 pitṛdevātithīṃś caiva yathāvat te 'bhyapūjayan avaśeṣāṇi cāśnanti nityaṃ satyatapo ratāḥ 43 naike 'śnanti susaṃpannaṃ na gacchanti parastriyam sarvabhūteṣv avartanta yathātmani dayāṃ prati 44 naivākāśe na paśuṣu nāyonau na ca parvasu indriyasya visargaṃ te 'rocayanta kadā cana 45 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā utsāhaś cānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā 46 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā mitreṣu cānabhidrohaḥ sarvaṃ teṣv abhavat prabho 47 nidrā tandrī rasaṃ prītir asūyā cānavekṣitā aratiś ca viṣādaś ca na spṛhā cāviśanta tā 48 sāham evaṃguṇeṣv eva dānaveṣv avasaṃ purā prajā sargam upādāya naikaṃ yugaviparyamam 49 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām 50 sabhā sadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ prāhasann abhyasūyaṃś ca sarvavṛddhān guṇāvarāḥ 51 yūnaḥ saha samāsīnān vṛddhān abhigatān sataḥ nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan 52 vartayanty eva pitari putrāḥ prabhavatātmanaḥ amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ 53 tathā dharmād apetena karmaṇā garhitena ye mahataḥ prāpnuvanty arthāṃs teṣv eṣām abhavat spṛhā 54 ucchaiś cāpy avadan rātrau nīcais tatrāgnir ajvalat putrāḥ pitṝn abhyavadan bhāryāś cābhyavadan patīn 55 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum guruvan nābhyanandanta kumārān nānvapālayan 56 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn 57 na śaucam anurudhyanta teṣāṃ sūdajanās tathā manasā karmaṇā vācā bhakam āsīd anāvṛtam 58 viprakīrṇāni dhānyāni kākamūṣaka bhojanam apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāś cāspṛśan ghṛtam 59 kuddāla pātī patakaṃ prakīrṇaṃ kāṃsyabhājanam dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kutumbinī 60 prākārāgāra vidhvaṃsān na sma te pratikurvate nādriyante paśūn baddhvā yavasenodakena ca 61 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ 62 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaskulīḥ apācayann ātmano 'rthe vṛthā māṃsāny abhakṣayan 63 utsūrya śāyinaś cāsan sarve cāsan prageniśāḥ avartan kalahāś cātra divārātraṃ gṛhe gṛhe 64 anāryāś cāryam āsīnaṃ paryupāsan na tatra ha āśramasthān vikarmasthāḥ pradviṣanti parasparam saṃkarāś cāpy avartanta na ca śaucam avartata 65 ye ca veda vido viprā vispaṣṭam anṛcaś ca ye nirantaraviśeṣās te bahumānāvamānayoḥ 66 hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum asevanta bhujiṣyā vai durjanācaritaṃ vidhim 67 striyaḥ puruṣaveṣeṇa puṃsaḥ strī veṣadhāriṇaḥ krīdā rativihāreṣu parāṃ mudam avāpnuvan 68 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣv api 69 mitreṇābhyarthitaṃ mitram arthe saṃśayite kva cit bāla koty agramātreṇa svārthenāghnata tad vasu 70 parasvādāna rucayo vipanya vyavahāriṇaḥ adṛśyantārya varṇeṣu śūdrāś cāpi tapodhanāḥ 71 adhīyante 'vratāḥ ke cid vṛthā vratam athāpare aśuśrūsur guroḥ śiṣyaḥ kaś cic chiṣya sakho guruḥ 72 pitā caiva janitrī ca śrāntau vṛttotsavāv iva aprabhutve sthitau vṛtthāv annaṃ prārthayataḥ sutān 73 tatra veda vidaḥ prājñā gāmbhīrye sagaropamāḥ kṛṣyādiṣv abhavan saktā mūrkhāḥ śrāddhāny abhuñjata 74 prātaḥ prātar ca supraśnaṃ kalpanaṃ preṣaṇa kriyāḥ śiṣyānuprahitās tasminn akurvan guravaś ca ha 75 śvaśrū śvaśurayor agre vadhūḥ preṣyān aśāsata anvaśāsac ca bhartāraṃ samāhūyābhijalpatī 76 prayatnenāpi cārakṣac cittaṃ putrasya vai pitā vyabhajaṃś cāpi saṃrambhād duḥkhavāsaṃ tathāvasan 77 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam dṛṣṭvā dveṣāt prāhasanta suhṛt saṃbhāvitā hy api 78 kṛtaghnā nāstikāḥ pāpā guru dārābhimarśinaḥ abhakṣya bhakṣaṇa ratā nirmaryādā hatatviṣaḥ 79 teṣv evamādīn ācārān ācaratsu viparyaye nāhaṃ devendra vatsyāmi dānaveṣv iti me matiḥ 80 tāṃ māṃ svayam anuprāptām abhinanda śacīpate tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ 81 yatrāhaṃ tatra mat kāntā madviśiṣṭā madarpaṇāḥ sapta devyo mayāstamyo vasaṃ ceṣyanti me 'stadhā 82 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā astamī vṛttir etāsāṃ purogā pākaśāsana 83 tāś cāhaṃ cāsurāṃs tyaktvā yuṣmad viṣayam āgatā tridaśeṣu nivatsyāmo dharmaniṣṭhāntar ātmasu 84 [bhī] ity uktavacanāṃ devīm atyarthaṃ tau nanandatuḥ nāradaś ca trilokarṣir vṛtra hantā ca vāsavaḥ 85 tato 'nala sakho vāyuḥ pravavau deva veśmasu iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ 86 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ 87 tato divaṃ prāpya sahasralocanaḥ; śriyopapannaḥ suhṛdā surarṣiṇā rathena haryaśvayujā surarṣabhaḥ; sadaḥ surāṇām abhisatkṛto yayau 88 atheṅgitaṃ vajradharasya nāradaḥ; śriyāś ca devyā manasā vicārayan śriyai śaśaṃsāmara dṛṣṭapauruṣaḥ; śivena tatrāgamanaṃ maharddhimat 89 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī; pitāmahasyāyatane svayambhuvaḥ anāhata dundubhayaś ca nedire; tathā prasannāś ca diśaś cakāśire 90 yathartu sasyeṣu vavarṣa vāsavo; na dharmamārgād vicacāla kaś cana anekaratrākara bhūsanā ca bhūḥ; sughoṣaghoṣā bhuvanaukasāṃ jaye 91 kriyābhirāmā manujā yaśasvino; babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ narāmarāḥ kiṃnarayakṣarākṣasāḥ; samṛddhimantaḥ sukhino yaśasvinaḥ 92 na jātv akāle kusumaṃ kutaḥ phalaṃ; papāta vṛkṣāt pavaneritād api rasapradāḥ kāmadughāś ca dhenavo; na dāruṇā vāg vicacāra kasya cit 93 imāṃ saparyāṃ saha sarvakāmadaiḥ; śriyāṃ ca śakra pramukhaiś ca daivataiḥ pathanti ye viprasadaḥ samāgame; samṛddhakāmāḥ śriyam āpnuvanti te 94 tvayā kurūṇāṃ varayat pracoditaṃ; bhavābhavasyeha paraṃ nidarśanam tad adya sarvaṃ parikīrtitaṃ mayā; parīkṣya tattvaṃ parigantum arhasi |