1
[धृ] तदा परयाते शिबिरं थरॊणपुत्रे महारदे कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम 2 कच चिन न वारितौ कषुथ्रै रक्षिभिर नॊपलक्षितौ असह्यम इति वा मत्वा न निवृत्तौ महारदौ 3 कच चित परमद्य शिबिरं हत्वा सॊमक पाण्डवान थुर्यॊधनस्य पथवीं गतौ परमिकां रणे 4 पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ कच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय 5 [स] तस्मिन परयाते शिबिरं थरॊणपुत्रे महात्मनि कृपश च कृतवर्मा च शिबिर थवार्य अतिष्ठताम 6 अश्वत्दामा तु तौ थृष्ट्वा यत्नवन्तौ महारदौ परहृष्टः शनकै राजन्न इथं वचनम अब्रवीत 7 यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने किं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः 8 अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत यदा न कश चिथ अपि मे जीवन मुच्येत मानवः 9 इत्य उक्त्वा पराविशथ थरौणिः पार्दानां शिबिरं महत अथ्वारेणाभ्यवस्कन्थ्य विहाय भयम आत्मनः 10 स परविश्य महाबाहुर उथ्थेशज्ञश च तस्य ह धृष्टथ्युम्नस्य निलयं शनकैर अभ्युपागमत 11 ते तु कृत्वा महत कर्म शरान्ताश च बलवथ रणे परसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः 12 अद परविश्य तथ वेश्म धृष्टथ्युम्नस्य भारत पाञ्चाल्यं शयने थरौणिर अपश्यत सुप्तम अन्तिकात 13 कषौमावथाते महति सपर्ध्यास्तरण संवृते माल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते 14 तं शयानं महात्मानं विस्रब्धम अकुतॊभयम पराबॊधयत पाथेन शयनस्दं महीपते 15 स बुथ्ध्वा चरणस्पर्शम उत्दाय रणथुर्मथः अभ्यजानथ अमेयात्मा थरॊणपुत्रं महारदम 16 तम उत्पतन्तं शयनाथ अश्वत्दामा महाबलः केशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके 17 सबलात तेन निष्पिष्टः साध्वसेन च भारत निथ्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तथा 18 तम आक्रम्य तथा राजन कण्ठे चॊरसि चॊभयॊः नथन्तं विस्फुरन्तं च पशुमारम अमारयत 19 तुथन नखैस तु स थरौणिं नातिव्यक्तम उथाहरत आचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृदाः तवत्कृते सुकृताँल लॊकान गच्छेयं थविपथां वर 20 तस्याव्यक्तां तु तां वाचं संश्रुत्य थरौणिर अब्रवीत आचार्य घातिनां लॊका न सन्ति कुलपांसन तस्माच छस्त्रेण निधनं न तवम अर्हसि थुर्मते 21 एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव थविपम मर्मस्व अभ्यवधीत करुथ्धः पाथाष्ठीलैः सुथारुणैः 22 तस्य वीरस्य शब्थेन मार्यमाणस्य वेश्मनि अबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः 23 ते थृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम भूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात 24 तं तु तेन भयुपायेन गमयित्वा यमक्षयम अध्यतिष्ठत स तेजस्वी रदं पराप्य सुथर्शनम 25 स तस्य भवनाथ राजन निष्क्रम्यानाथयन थिशः रदेन शिबिरं परायाज जिघांसुर थविषतॊ बली 26 अपक्रान्ते ततस तस्मिन थरॊणपुत्रे महारदे सह तै रक्षिभिः सर्वैः परणेथुर यॊषितस तथा 27 राजानं निहतं थृष्ट्वा भृशं शॊकपरायणाः वयाक्रॊशन कषत्रियाः सर्वे धृष्टथ्युम्नस्य भारत 28 तासां तु तेन शब्थेन समीपे कषत्रियर्षभाः कषिप्रं च समनह्यन्त किम एतथ इति चाब्रुवन 29 सत्रियस तु राजन वित्रस्ता भरथ्वाजं निरीक्ष्य तम अब्रुवन थीनकण्ठेन कषिप्रम आथ्रवतेति वै 30 राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम हत्वा पाञ्चालराजं यॊ रदम आरुह्य तिष्ठति 31 ततस ते यॊधमुख्यास तं सहसा पर्यवारयन स तान आपततः सर्वान रुथ्रास्त्रेण वयपॊदयत 32 धृष्टथ्युम्नं च हत्वा स तांश चैवास्य पथानुगान अपश्यच छयने सुप्तम उत्तमौजसम अन्तिके 33 तम अप्य आक्रम्य पाथेन कण्ठे चॊरसि चौजसा तदैव मारयाम आस विनर्थन्तम अरिंथमम 34 युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम गथाम उथ्यम्य वेगेन हृथि थरौणिम अताडयत 35 तम अभिथ्रुत्य जग्राह कषितौ चैनम अपातयत विस्फुरन्तं च पशुवत तदैवैनम अमारयत 36 तदा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाथ्रवत संसुप्तान एव राजेन्थ्र तत्र तत्र महारदान सफुरतॊ वेपमानांश च शमितेव पशून मखे 37 ततॊ निस्त्रिंशम आथाय जघानान्यान पृदग्जनान भागशॊ विचरन मार्गान असियुथ्धविशारथः 38 तदैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान शरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊदयत 39 यॊधान अश्वान थविपांश चैव पराच्छिनत स वरासिना रुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः 40 विस्फुरथ्भिश च तैर थरैणिर निस्त्रिंशस्यॊथ्यमेन च आक्षेपेण तदैवासेस तरिधा रक्तॊक्षितॊ ऽभवत 41 तस्य लॊहितसिक्तस्य थीप्तखड्गस्य युध्यतः अमानुष इवाकारॊ बभौ परमभीषणः 42 ये तव अजाग्रत कौरव्य ते ऽपि शब्थेन मॊहिताः निरीक्ष्यमाणा अन्यॊन्यं थरौणिं थृष्ट्वा परविव्यदुः 43 तथ रूपं तस्य ते थृष्ट्वा कषत्रियाः शत्रुकर्शनाः राक्षसं मन्यमानास तं नयनानि नयमीलयन 44 स घॊररूपॊ वयचरत कालवच छिबिरे ततः अपश्यथ थरौपथीपुत्रान अवशिष्टांश च सॊमकान 45 तेन शब्थेन वित्रस्ता धनुर हस्ता महारदाः धृष्टथ्युम्नं हतं शरुत्वा थरौपथेया विपां पते अवाकिरञ शरव्रातैर भारथ्वाजम अभीतवत 46 ततस तेन निनाथेन संप्रबुथ्धाः परभथ्रकाः शिली मिखैः शिखण्डी च थरॊणपुत्रं समार्थयन 47 भरथ्वाजस तु तान थृष्ट्वा शरवर्षाणि वर्षतः ननाथ बलवान नाथं जिघांसुस तान सुथुर्जयान 48 ततः परमसंक्रुथ्धः पितुर वधम अनुस्मरन अवरुह्य रदॊपस्दात तवरमाणॊ ऽभिथुथ्रुवे 49 सहस्रचन्थ्रं विपुलं गृहीत्वा चर्म संयुगे खड्गं च विपुलं थिव्यं जातरूपपरिष्कृतम थरौपथेयान अभिथ्रुत्य खड्गेन वयचरथ बली 50 ततः स नरशार्थूलः परतिबिन्ध्यं तम आहवे कुक्षि थेशे ऽवधीथ राजन स हतॊ नयपतथ भुवि 51 परासेन विथ्ध्वा थरौणिं तु सुत सॊमः परतापवान पुनश चासिं समुथ्यम्य थरॊणपुत्रम उपाथ्रवत 52 सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः पुनर अभ्यहनत पार्श्वे स भिन्नहृथयॊ ऽपतत 53 नाकुलिस तु शतानीकॊ रदचक्रेण वीर्यवान थॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत 54 अताडयच छतानीकं मुक्तचक्रं थविजस तु सः स विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः 55 शरुतकर्मा तु परिघं गृहीत्वा समताडयत अभिथ्रुत्य ततॊ थरौणिं सव्ये सफलके भृशम 56 स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना स हतॊ नयपतथ भूमौ विमूढॊ विकृताननः 57 तेन शब्थेन वीरस तु शरुतकीर्तिर महाधनुः अश्वत्दामानम आसाथ्य शरवर्षैर अवाकिरत 58 तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः सकुण्डलं शिरः कायाथ भराजमानम अपाहरत 59 ततॊ भीष्म निहन्ता तं सह सर्वैः परभथ्रकैः अहनत सर्वतॊ वीरं नानाप्रहरणैर बली शिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्थयत 60 स तु करॊधसमाविष्टॊ थरॊणपुत्रॊ महाबलः शिखण्डिनं समासाथ्य थविधा चिच्छेथ सॊ ऽसिना 61 शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः परभथ्रक गडान सर्वान अभिथुथ्राव वेगवान यच च शिष्टं विराटस्य बलं तच च समाथ्रवत 62 थरुपथस्य च पुत्राणां पौत्राणां सुहृथाम अपि चकार कथनं घॊरं थृष्ट्वा थृष्ट्वा महाबलः 63 अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च नयकृन्तथ असिना थरौणिर असि मार्गविशारथः 64 कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम रक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम 65 थथृशुः कालरात्रिं ते समयमानाम अवस्दिताम नराश्वकुञ्जरान पाशैर बथ्ध्वा घॊरैः परतस्दुषीम हरन्तीं विविधान परेतान पाशबथ्धान विमूर्धजान 66 सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष थथृशुर यॊधमुख्यास ते घनन्तं थरौणिं च नित्यथा 67 यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः ततः परभृति तां कृत्याम अपश्यन थरौणिम एव च 68 तांस तु थैवहतान पूर्वं पश्चाथ थरौणिर नयपातयत तरासयन सर्वभूतानि विनथन भैरवान रवान 69 तथ अनुस्मृत्य ते वीरा थर्शनं पौर्वकालिकम इथं तथ इत्य अमन्यन्त थैवेनॊपनिपीडिताः 70 ततस तेन निनाथेन परत्यबुध्यन्त धन्विनः शिबिरे पाण्डवेयानां शतशॊ ऽद सहस्रशः 71 सॊ ऽचछिनत कस्य चित पाथौ जघनं चैव कस्य चित कांश चिथ बिभेथ पार्श्वेषु कालसृष्ट इवान्तकः 72 अत्युग्र परतिपिष्टैश च नथथ्भिश च भृशातुरैः गजाश्वमदितैश चान्यैर मही कीर्णाभवत परभॊ 73 करॊशतां किम इथं कॊ ऽयं किं शब्थः किं नु किं कृतम एवं तेषां तथा थरौणिर अन्तकः समपथ्यत 74 अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान पराहिणॊन मृत्युलॊकाय थरौणिः परहरतां वरः 75 ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः निथ्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे 76 ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः विनथन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम 77 ततॊ रदं पुनर थरौणिर आस्दितॊ भीमनिस्वनम धनुष्पाणिः शरैर अन्यान परेषयथ वै यमक्षयम 78 पुनर उत्पततः कांश चिथ थूराथ अपि नरॊत्तमान शूरान संपततश चान्यान कालरात्र्यै नयवेथयत 79 तदैव सयन्थनाग्रेण परमदन स विधावति शरवर्षैश च विविधैर अवर्षच छात्रवांस ततः 80 पुनश च सुविचित्रेण शतचन्थ्रेण चर्मणा तेन चाकाशवर्णेन तथाचरत सॊ ऽसिना 81 तदा स शिबिरं तेषां थरौणिर आहवथुर्मथः वयक्षॊभयत राजेन्थ्र महाह्रथम इव थविपः 82 उत्पेतुस तेन शब्थेन यॊधा राजन विचेतसः निथ्रार्ताश च भयार्ताश च वयधावन्त ततस ततः 83 विस्वरं चुक्रुशुश चान्ये बह्वबथ्धं तदावथन न च सम परतिपथ्यन्ते शस्त्राणि वसनानि च 84 विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम उत्पतन्तः परे भीताः के चित तत्र तदाभ्रमन पुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः 85 बन्धनानि च राजेन्थ्र संछिथ्य तुरगा थविपाः समं पर्यपतंश चान्ये कुर्वन्तॊ महथ आकुलम 86 तत्र के चिन नरा भीता वयलीयन्त महीतले तदैव तान निपतितान अपिंषन गजवाजिनः 87 तस्मिंस तदा वर्तमाने रक्षांसि पुरुषर्षभ तृप्तानि वयनथन्न उच्चैर मुथा भरतसत्तम 88 स शब्थः परेरितॊ राजन भूतसंघैर मुथा युतैः अपूरयथ थिशः सर्वा थिवं चापि महास्वनः 89 तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः मुक्ताः पर्यपतन राजन मृथ्नन्तः शिबिरे जनम 90 तैस तत्र परिधावथ्भिश चरणॊथीरितं रजः अकरॊच छिबिरे तेषां रजन्यां थविगुणं तमः 91 तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः नाजानन पितरः पुत्रान भरातॄन भरातर एव च 92 गजा गजान अतिक्रम्य निर्मनुष्या हया हयान अताडयंस तदाभञ्जंस तदामृथ्नंश च भारत 93 ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम नयपातयन्त च परान पातयित्वा तदापिषन 94 विचेतसः सनिथ्राश च तमसा चावृता नराः जघ्नुः सवान एव तत्राद कालेनाभिप्रचॊथिताः 95 तयक्त्वा थवाराणि च थवाःस्दास तदा गुल्मांश च गौल्मिकाः पराथ्रवन्त यदाशक्ति कांथिशीका विचेतसः 96 विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तथा विभॊ करॊशन्तस तात पुत्रेति थैवॊपहतचेतसः 97 पलायतां थिशस तेषां सवान अप्य उत्सृज्य बान्धवान गॊत्र नामभिर अन्यॊन्यम आक्रन्थन्त ततॊ जनाः 98 हाहाकारं च कुर्वाणाः पृदिव्यां शेरते परे तान बुथ्ध्वा रणमत्तॊ ऽसौ थरॊणपुत्रॊ वयपॊदयत 99 तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः शिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः 100 तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः कृतवर्मा कृपश चैव थवारथेशे निजघ्नतुः 101 विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन वेपमानान कषितौ भीतान नैव कांश चिथ अमुञ्चताम 102 नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराथ बहिः कृपस्य च महाराज हार्थिक्यस्य च थुर्मतेः 103 भूयश चैव चिकीर्षन्तौ थरॊणपुत्रस्य तौ परियम तरिषु थेशेषु थथतुः शिबिरस्य हुताशनम 104 ततः परकाशे शिबिरे खड्गेन पितृनन्थनः अश्वत्दामा महाराज वयचरत कृतहस्तवत 105 कांश चिथ आपततॊ वीरान अपरांश च परधावतः वययॊजयत खड्गेन पराणैर थविज वरॊ नरान 106 कांश चिथ यॊधान स खड्गेन मध्ये संछिथ्य वीर्यवान अपातयथ थरॊणसुतः संरब्धस तिलकाण्डवत 107 विनथथ्भिर भृशायास तैर नराश्वथ्विरथॊत्तमैः पतितैर अभवत कीर्णा मेथिनी भरतर्षभ 108 मानुषाणां सहस्रेषु हतेषु पतितेषु च उथतिष्ठन कबन्धानि बहून्य उत्दाय चापतन 109 सायुधान साङ्गथान बाहून निचकर्त शिरांसि च हस्तिहस्तॊपमान ऊरून हस्तान पाथांश च भारत 110 पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तदापरान समासाथ्याकरॊथ थरौणिः कांश चिच चापि पराङ्मुखान 111 मध्यकायान नरान अन्यांश चिछेथान्यांश च कर्णतः अंसथेशे निहत्यान्यान काये परावेशयच छिरः 112 एवं विचरतस तस्य निघ्नतः सुबहून नरान तमसा रजनी घॊरा बभौ थारुणथर्शना 113 किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः बहुना च गजाश्वेन भूर अभूथ भीमथर्शना 114 यक्षरक्षःसमाकीर्णे रदाश्वथ्विपथारुणे करुथ्धेन थरॊणपुत्रेण संछिन्नाः परापतन भुवि 115 मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः के चिथ ऊचुर न तत करुथ्धैर धार्तराष्ट्रैः कृतं रणे 116 यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः असांनिध्याथ धि पार्दानाम इथं नः कथनं कृतम 117 न थेवासुरगन्धर्वैर न यक्षैर न च राक्षसैः शक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्थनः 118 बरह्मण्यः सत्यवाग थान्तः सर्वभूतानुकम्पकः न च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम धावन्तं मुक्तकेशं वा हन्ति पार्दॊ धनंजयः 119 तथ इथं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः इति लालप्यमानाः सम शेरते बहवॊ जनाः 120 सतनतां च मनुष्याणाम अपरेषां च कूजताम ततॊ मुहूर्तात पराशाम्यत स शब्थस तुमुलॊ महान 121 शॊणितव्यतिषिक्तायां वसुधायां च भूमिप तथ रजस तुमुलं घॊरं कषणेनान्तर अधीयत 122 संवेष्टमानान उथ्विग्नान निरुत्साहान सहस्रशः नयपातयन नरान करुथ्धः पशून पशुपतिर यदा 123 अन्यॊन्यं संपरिष्वज्य शयानान थरवतॊ ऽपरान संलीनान युध्यमानांश च सर्वान थरौणिर अपॊदयत 124 थह्यमाना हुताशेन वध्यमानाश च तेन ते परस्परं तथा यॊधा अनयन यमसाथनम 125 तस्या रजन्यास तव अर्धेन पाण्डवानां महथ बलम गमयाम आस राजेन्थ्र थरौणिर यम निवेशनम 126 निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी आसीन नरगजाश्वानां रौथ्री कषयकरी भृशम 127 तत्राथृश्यन्त रक्षांसि पिशाचाश च पृदग्विधाः खाथन्तॊ नरमांसानि पिबन्तः शॊणितानि च 128 करालाः पिङ्गला रौथ्राः शैलथन्ता रजस्वलाः जटिला थीर्घसक्दाश च पञ्च पाथा महॊथराः 129 पश्चाथ अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः घटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः 130 सपुत्रथाराः सुक्रूरा थुर्थर्शन सुनिर्घृणाः विविधानि च रूपाणि तत्राथृश्यन्त रक्षसाम 131 पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे इथं वरम इथं मेध्यम इथं सवाथ्व इति चाब्रुवन 132 मेथॊ मज्जास्दि रक्तानां वसानां च भृशासिताः परमांसानि खाथन्तः करव्याथा मांसजीविनः 133 वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः नाना वक्त्रास तदा रौथ्राः करव्याथाः पिशिताशिनः 134 अयुतानि च तत्रासन परयुतान्य अर्बुथानि च रक्षसां घॊररूपाणां महतां करूरकर्मणाम 135 मुथितानां वितृप्तानां तस्मिन महति वैशसे समेतानि बहून्य आसन भूतानि च जनाधिप 136 परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः नृशॊणितावसिक्तस्य थरौणेर आसीथ असि तसरुः पाणिना सह संश्लिष्ट एकीभूत इव परभॊ 137 स निःशेषान अरीन कृत्वा विरराज जनक्षये युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः 138 यदाप्रतिज्ञं तत कर्मकृत्वा थरौणायनिः परभॊ थुर्गमां पथवीं कृत्वा पितुर आसीथ गतज्वरः 139 यदैव संसुप्त जने शिबिरे पराविशन निशि तदैव हत्वा निःशब्थे निश्चक्राम नरर्षभः 140 निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान आचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ 141 ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तथा पाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः परीत्या चॊच्चैर उथक्रॊशंस तदैवास्फॊटयंस तलान 142 एवंविधा हि सा रात्रिः सॊमकानां जनक्षये परसुप्तानां परमत्तानाम आसीत सुभृशथारुणा 143 असंशयं हि कालस्य पर्यायॊ थुरतिक्रमः ताथृशा निहता यत्र कृत्वास्माकं जनक्षयम 144 [धृ] पराग एव सुमहत कर्म थरौणिर एतन महारदः नाकरॊथ ईथृशं कस्मान मत पुत्र विजये धृतः 145 अद कस्माथ धते कषत्रे कर्मेथं कृतवान असौ थरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि 146 [स] तेषां नूनं भयान नासौ कृतवान कुरुनन्थन असांनिध्याथ धि पार्दानां केशवस्य च धीमतः 147 सात्यकेश चापि कर्मेथं थरॊणपुत्रेण साधितम न हि तेषां समक्षं तान हन्याथ अपि मरुत्पतिः 148 एतथ ईथृशकं वृत्तं राजन सुप्त जने विभॊ ततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम थिष्ट्या थिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारदाः 149 पर्यष्वजत ततॊ थरौणिस ताभ्यां च परतिनन्थितः इथं हर्षाच च सुमहथ आथथे वाक्यम उत्तमम 150 पाञ्चाला निहताः सर्वे थरौपथेयाश च सर्वशः सॊमका मत्स्यशेषाश च सर्वे विनिहता मया 151 इथानीं कृतकृत्याः सम यामतत्रैव माचिरम यथि जीवति नॊ राजा तस्मै शंसामहे परियम |
1
[dhṛ] tathā prayāte śibiraṃ droṇaputre mahārathe kac cit kṛpaś ca bhojaś ca bhayārtau na nyavartatām 2 kac cin na vāritau kṣudrai rakṣibhir nopalakṣitau asahyam iti vā matvā na nivṛttau mahārathau 3 kac cit pramathya śibiraṃ hatvā somaka pāṇḍavān duryodhanasya padavīṃ gatau paramikāṃ raṇe 4 pāñcālair vā vinihatau kac cin nāsvapatāṃ kṣitau kac cit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya 5 [s] tasmin prayāte śibiraṃ droṇaputre mahātmani kṛpaś ca kṛtavarmā ca śibira dvāry atiṣṭhatām 6 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt 7 yattau bhavantau paryāptau sarvakṣatrasya nāśane kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ 8 ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat yathā na kaś cid api me jīvan mucyeta mānavaḥ 9 ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat advāreṇābhyavaskandya vihāya bhayam ātmanaḥ 10 sa praviśya mahābāhur uddeśajñaś ca tasya ha dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat 11 te tu kṛtvā mahat karma śrāntāś ca balavad raṇe prasuptā vai suviśvastāḥ svasainyaparivāritāḥ 12 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt 13 kṣaumāvadāte mahati spardhyāstaraṇa saṃvṛte mālyapravara saṃyukte dhūpaiś cūrṇaiś ca vāsite 14 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam prābodhayata pādena śayanasthaṃ mahīpate 15 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ abhyajānad ameyātmā droṇaputraṃ mahāratham 16 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahī take 17 sabalāt tena niṣpiṣṭaḥ sādhvasena ca bhārata nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā 18 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ nadantaṃ visphurantaṃ ca paśumāram amārayat 19 tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat ācārya putra śastreṇa jahi mā māṃ ciraṃ kṛthāḥ tvatkṛte sukṛtāṁl lokān gaccheyaṃ dvipadāṃ vara 20 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt ācārya ghātināṃ lokā na santi kulapāṃsana tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate 21 evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ 22 tasya vīrasya śabdena māryamāṇasya veśmani abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ 23 te dṛṣṭvā varṣmavantaṃ tam atimānuṣa vikramam bhūtam eva vyavasyanto na sma pravyāharan bhayāt 24 taṃ tu tena bhyupāyena gamayitvā yamakṣayam adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam 25 sa tasya bhavanād rājan niṣkramyānādayan diśaḥ rathena śibiraṃ prāyāj jighāṃsur dviṣato balī 26 apakrānte tatas tasmin droṇaputre mahārathe saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā 27 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata 28 tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ kṣipraṃ ca samanahyanta kim etad iti cābruvan 29 striyas tu rājan vitrastā bharadvājaṃ nirīkṣya tam abruvan dīnakaṇṭhena kṣipram ādravateti vai 30 rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati 31 tatas te yodhamukhyās taṃ sahasā paryavārayan sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat 32 dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān apaśyac chayane suptam uttamaujasam antike 33 tam apy ākramya pādena kaṇṭhe corasi caujasā tathaiva mārayām āsa vinardantam ariṃdamam 34 yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam gadām udyamya vegena hṛdi drauṇim atāḍayat 35 tam abhidrutya jagrāha kṣitau cainam apātayat visphurantaṃ ca paśuvat tathaivainam amārayat 36 tathā sa vīro hatvā taṃ tato 'nyān samupādravat saṃsuptān eva rājendra tatra tatra mahārathān sphurato vepamānāṃś ca śamiteva paśūn makhe 37 tato nistriṃśam ādāya jaghānānyān pṛthagjanān bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ 38 tathaiva gulme saṃprekṣya śayānān madhyagaulmikān śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat 39 yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ 40 visphuradbhiś ca tair draiṇir nistriṃśasyodyamena ca ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat 41 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ amānuṣa ivākāro babhau paramabhīṣaṇaḥ 42 ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ 43 tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan 44 sa ghorarūpo vyacarat kālavac chibire tataḥ apaśyad draupadīputrān avaśiṣṭāṃś ca somakān 45 tena śabdena vitrastā dhanur hastā mahārathāḥ dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā vipāṃ pate avākirañ śaravrātair bhāradvājam abhītavat 46 tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ śilī mikhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan 47 bharadvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ nanāda balavān nādaṃ jighāṃsus tān sudurjayān 48 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran avaruhya rathopasthāt tvaramāṇo 'bhidudruve 49 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam draupadeyān abhidrutya khaḍgena vyacarad balī 50 tataḥ sa naraśārdūlaḥ pratibindhyaṃ tam āhave kukṣi deśe 'vadhīd rājan sa hato nyapatad bhuvi 51 prāsena viddhvā drauṇiṃ tu suta somaḥ pratāpavān punaś cāsiṃ samudyamya droṇaputram upādravat 52 suta somasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ punar abhyahanat pārśve sa bhinnahṛdayo 'patat 53 nākulis tu śatānīko rathacakreṇa vīryavān dorbhyām utkṣipya vegena vakṣasy enam atāḍayat 54 atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ 55 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat abhidrutya tato drauṇiṃ savye saphalake bhṛśam 56 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ 57 tena śabdena vīras tu śrutakīrtir mahādhanuḥ aśvatthāmānam āsādya śaravarṣair avākirat 58 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat 59 tato bhīṣma nihantā taṃ saha sarvaiḥ prabhadrakaiḥ ahanat sarvato vīraṃ nānāpraharaṇair balī śilīmukhena cāpy enaṃ bhruvor madhye samārdayat 60 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā 61 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ prabhadraka gaḍān sarvān abhidudrāva vegavān yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat 62 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ 63 anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca nyakṛntad asinā drauṇir asi mārgaviśāradaḥ 64 kālīṃ raktāsyanayanāṃ raktamālyānulepanām raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm 65 dadṛśuḥ kālarātriṃ te smayamānām avasthitām narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm harantīṃ vividhān pretān pāśabaddhān vimūrdhajān 66 svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā 67 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca 68 tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat trāsayan sarvabhūtāni vinadan bhairavān ravān 69 tad anusmṛtya te vīrā darśanaṃ paurvakālikam idaṃ tad ity amanyanta daivenopanipīḍitāḥ 70 tatas tena ninādena pratyabudhyanta dhanvinaḥ śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ 71 so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ 72 atyugra pratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho 73 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata 74 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ varaḥ 75 tatas tac chastra vitrastā utpatanto bhayāturāḥ nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire 76 ūrustambhagṛhītāś ca kaśmalābhihataujasaḥ vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam 77 tato rathaṃ punar drauṇir āsthito bhīmanisvanam dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam 78 punar utpatataḥ kāṃś cid dūrād api narottamān śūrān saṃpatataś cānyān kālarātryai nyavedayat 79 tathaiva syandanāgreṇa pramathan sa vidhāvati śaravarṣaiś ca vividhair avarṣac chātravāṃs tataḥ 80 punaś ca suvicitreṇa śatacandreṇa carmaṇā tena cākāśavarṇena tadācarata so 'sinā 81 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ vyakṣobhayata rājendra mahāhradam iva dvipaḥ 82 utpetus tena śabdena yodhā rājan vicetasaḥ nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ 83 visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan na ca sma pratipadyante śastrāṇi vasanāni ca 84 vimuktakeśāś cāpy anye nābhyajānan parasparam utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ 85 bandhanāni ca rājendra saṃchidya turagā dvipāḥ samaṃ paryapataṃś cānye kurvanto mahad ākulam 86 tatra ke cin narā bhītā vyalīyanta mahītale tathaiva tān nipatitān apiṃṣan gajavājinaḥ 87 tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha tṛptāni vyanadann uccair mudā bharatasattama 88 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ 89 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ muktāḥ paryapatan rājan mṛdnantaḥ śibire janam 90 tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ 91 tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca 92 gajā gajān atikramya nirmanuṣyā hayā hayān atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata 93 te bhagnāḥ prapatantaś ca nighnantaś ca parasparam nyapātayanta ca parān pātayitvā tathāpiṣan 94 vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ 95 tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ prādravanta yathāśakti kāṃdiśīkā vicetasaḥ 96 vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho krośantas tāta putreti daivopahatacetasaḥ 97 palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān gotra nāmabhir anyonyam ākrandanta tato janāḥ 98 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare tān buddhvā raṇamatto 'sau droṇaputro vyapothayat 99 tatrāpare vadhyamānā muhur muhur acetasaḥ śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ 100 tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatuḥ 101 viśastra yantrakavacān muktakeśān kṛtāñjalīn vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām 102 nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ kṛpasya ca mahārāja hārdikyasya ca durmateḥ 103 bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam triṣu deśeṣu dadatuḥ śibirasya hutāśanam 104 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ aśvatthāmā mahārāja vyacarat kṛtahastavat 105 kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ vyayojayata khaḍgena prāṇair dvija varo narān 106 kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat 107 vinadadbhir bhṛśāyās tair narāśvadviradottamaiḥ patitair abhavat kīrṇā medinī bharatarṣabha 108 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca udatiṣṭhan kabandhāni bahūny utthāya cāpatan 109 sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca hastihastopamān ūrūn hastān pādāṃś ca bhārata 110 pṛṣṭhac chinnāñ śiraś chinnān pārśvac chinnāṃs tathāparān samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān 111 madhyakāyān narān anyāṃś cichedānyāṃś ca karṇataḥ aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ 112 evaṃ vicaratas tasya nighnataḥ subahūn narān tamasā rajanī ghorā babhau dāruṇadarśanā 113 kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ bahunā ca gajāśvena bhūr abhūd bhīmadarśanā 114 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi 115 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe 116 yatkṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam 117 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ 118 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ 119 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ iti lālapyamānāḥ sma śerate bahavo janāḥ 120 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām tato muhūrtāt prāśāmyat sa śabdas tumulo mahān 121 śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa tad rajas tumulaṃ ghoraṃ kṣaṇenāntar adhīyata 122 saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ nyapātayan narān kruddhaḥ paśūn paśupatir yathā 123 anyonyaṃ saṃpariṣvajya śayānān dravato 'parān saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat 124 dahyamānā hutāśena vadhyamānāś ca tena te parasparaṃ tadā yodhā anayan yamasādanam 125 tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam gamayām āsa rājendra drauṇir yama niveśanam 126 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam 127 tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ khādanto naramāṃsāni pibantaḥ śoṇitāni ca 128 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ jaṭilā dīrghasakthāś ca pañca pādā mahodarāḥ 129 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ 130 saputradārāḥ sukrūrā durdarśana sunirghṛṇāḥ vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām 131 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan 132 medo majjāsthi raktānāṃ vasānāṃ ca bhṛśāsitāḥ paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ 133 vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ nānā vaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ 134 ayutāni ca tatrāsan prayutāny arbudāni ca rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām 135 muditānāṃ vitṛptānāṃ tasmin mahati vaiśase sametāni bahūny āsan bhūtāni ca janādhipa 136 pratyūṣakāle śibirāt pratigantum iyeṣa saḥ nṛśoṇitāvasiktasya drauṇer āsīd asi tsaruḥ pāṇinā saha saṃśliṣṭa ekībhūta iva prabho 137 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye yugānte sarvabhūtāni bhasmakṛtveva pāvakaḥ 138 yathāpratijñaṃ tat karmakṛtvā drauṇāyaniḥ prabho durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ 139 yathaiva saṃsupta jane śibire prāviśan niśi tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ 140 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho 141 tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān 142 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye prasuptānāṃ pramattānām āsīt subhṛśadāruṇā 143 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam 144 [dhṛ] prāg eva sumahat karma drauṇir etan mahārathaḥ nākarod īdṛśaṃ kasmān mat putra vijaye dhṛtaḥ 145 atha kasmād dhate kṣatre karmedaṃ kṛtavān asau droṇaputro maheṣvāsas tan me śaṃsitum arhasi 146 [s] teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ 147 sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ 148 etad īdṛśakaṃ vṛttaṃ rājan supta jane vibho tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ 149 paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ idaṃ harṣāc ca sumahad ādade vākyam uttamam 150 pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ somakā matsyaśeṣāś ca sarve vinihatā mayā 151 idānīṃ kṛtakṛtyāḥ sma yāmatatraiva māciram yadi jīvati no rājā tasmai śaṃsāmahe priyam |