1
संजय उवाच वर्तमाने तदा रौथ्रे राजन वीरवरक्षये शकुनिः सौबलः शरीमान पाण्डवान समुपाथ्रवत 2 तदैव सात्वतॊ राजन हार्थिक्यः परवीरहा अभ्यथ्रवत संग्रामे पाण्डवानाम अनीकिनीम 3 ततः काम्बॊजमुख्यानां नथीजानां च वाजिनाम आरट्टानां महीजानां सिन्धुजानां च सर्वशः 4 वनायुजानां शुभ्राणां तदा पर्वतवासिनाम ये चापरे तित्तिरजा जवना वातरंहसः 5 सुवर्णालंकृतैर एतैर वर्मवथ्भिः सुकल्पितैः हयैर वातजवैर मुख्यैः पाण्डवस्य सुतॊ बली अभ्यवर्तत तत सैन्यं हृष्टरूपः परंतपः 6 अर्जुनस्याद थायाथ इरावान नाम वीर्यवान सुतायां नागराजस्य जातः पार्देन धीमता 7 ऐरावतेन सा थत्ता अनपत्या महात्मना पत्यौ हते सुपर्णेन कृपणा थीनचेतना 8 भार्यार्दं तां च जग्राह पार्दः कामवशानुगाम एवम एष समुत्पन्नः परक्षेत्रे ऽरजुनात्मजः 9 स नागलॊके संवृथ्धॊ मात्रा च परिरक्षितः पितृव्येण परित्यक्तः पार्दथ्वेषाथ थुरात्मना 10 रूपवान वीर्यसंपन्नॊ गुणवान सत्यविक्रमः इन्थ्रलॊकं जगामाशु शरुत्वा तत्रार्जुनं गतम 11 सॊ ऽभिगम्य महात्मानं पितरं सत्यविक्रमम अभ्यवाथयथ अव्यग्रॊ विनयेन कृताञ्जलिः इरावान अस्मि भथ्रं ते पुत्रश चाहं तवाभिभॊ 12 मातुः समागमॊ यश च तत सर्वं परत्यवेथयत तच च सर्वं यदावृत्तम अनुसस्मार पाण्डवः 13 परिष्वज्य सुतं चापि सॊ ऽऽतमनः सथृशं गुणैः परीतिमान अभवत पार्दॊ थेवराजनिवेशने 14 सॊ ऽरजुनेन समाज्ञप्तॊ थेवलॊके तथा नृप परीतिपूर्वं महाबाहुः सवकार्यं परति भारत युथ्धकाले तवयास्माकं साह्यं थेयम इति परभॊ 15 बाढम इत्य एवम उक्त्वा च युथ्धकाल उपागतः कामवर्णजवैर अश्वैः संवृतॊ बहुभिर नृप 16 ते हयाः काञ्चनापीडा नानावर्णा मनॊजवाः उत्पेतुः सहसा राजन हंसा इव महॊथधौ 17 ते तवथीयान समासाथ्य हयसंघान महाजवान करॊडैः करॊडान अभिघ्नन्तॊ घॊणाभिश च परस्परम निपेतुः सहसा राजन सुवेगाभिहता भुवि 18 निपतथ्भिस तदा तैश च हयसंघैः परस्परम शुश्रुवे थारुणः शब्थः सुपर्णपतने यदा 19 तदैव च महाराज समेत्यान्यॊन्यम आहवे परस्परवधं घॊरं चक्रुस ते हयसाथिनः 20 तस्मिंस तदा वर्तमाने संकुले तुमुले भृशम उभयॊर अपि संशान्ता हयसंघाः समन्ततः 21 परक्षीणसायकाः शूरा निहताश्वाः शरमातुराः विलयं समनुप्राप्तास तक्षमाणाः परस्परम 22 ततः कषीणे हयानीके किं चिच छेषे च भारत सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि 23 वायुवेगसमस्पर्शा जवे वायुसमांस तदा आरुह्य शीलसंपन्नान वयःस्दांस तुरगॊत्तमान 24 गजॊ गवाक्षॊ वृषकश चर्मवान आर्जवः शुकः षड एते बलसंपन्ना निर्ययुर महतॊ बलात 25 वार्यमाणाः शकुनिना सवैश च यॊधैर महाबलैः संनथ्धा युथ्धकुशला रौथ्ररूपा महाबलाः 26 तथ अनीकं महाबाहॊ भित्त्वा परमथुर्जयम बलेन महता युक्ताः सवर्गाय विजयैषिणः विविशुस ते तथा हृष्टा गान्धारा युथ्धथुर्मथाः 27 तान परविष्टांस तथा थृष्ट्वा इरावान अपि वीर्यवान अब्रवीत समरे यॊधान विचित्राभरणायुधान 28 यदैते धार्तराष्ट्रस्य यॊधाः सानुगवाहनाः हन्यन्ते समरे सर्वे तदा नीतिर विधीयताम 29 बाढम इत्य एवम उक्त्वा ते सर्वे यॊधा इरावतः जघ्नुस ते वै परानीकं थुर्जयं समरे परैः 30 तथ अनीकम अनीकेन समरे वीक्ष्य पातितम अमृष्यमाणास ते सर्वे सुबलस्यात्मजा रणे इरावन्तम अभिथ्रुत्य सर्वतः पर्यवारयन 31 ताडयन्तः शितैः परासैश चॊथयन्तः परस्परम ते शूराः पर्यधावन्त कुर्वन्तॊ महथ आकुलम 32 इरावान अद निर्भिन्नः परासैस तीक्ष्णैर महात्मभिः सरवता रुधिरेणाक्तस तॊत्त्रैर विथ्ध इव थविपः 33 उरस्य अपि च पृष्ठे च पार्श्वयॊश च भृशाहतः एकॊ बहुभिर इत्य अर्दं धैर्याथ राजन न विव्यदे 34 इरावान अद संक्रुथ्धः सर्वांस तान निशितैः शरैः मॊहयाम आस समरे विथ्ध्वा परपुरंजयः 35 परासान उथ्धृत्य सर्वांश च सवशरीराथ अरिंथमः तैर एव ताडयाम आस सुबलस्यात्मजान रणे 36 निवृष्य निशितं खड्गं गृहीत्वा च शरावरम पथातिस तूर्णम आगच्छज जिघांसुः सौबलान युधि 37 ततः परत्यागतप्राणाः सर्वे ते सुबलात्मजाः भूयः करॊधसमाविष्टा इरावन्तम अदाथ्रवन 38 इरावान अपि खड्गेन थर्शयन पाणिलाघवम अभ्यवर्तत तान सर्वान सौबलान बलथर्पितः 39 लाघवेनाद चरतः सर्वे ते सुबलात्मजाः अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः 40 भूमिष्ठम अद तं संख्ये संप्रथृश्य ततः पुनः परिवार्य भृशं सर्वे गरहीतुम उपचक्रमुः 41 अदाभ्याशगतानां स खड्गेनामित्रकर्शनः उपहस्तावहस्ताभ्यां तेषां गात्राण्य अकृन्तत 42 आयुधानि च सर्वेषां बाहून अपि च भूषितान अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः 43 वृषकस तु महाराज बहुधा परिविक्षतः अमुच्यत महारौथ्रात तस्माथ वीरावकर्तनात 44 तान सर्वान पतितान थृष्ट्वा भीतॊ थुर्यॊधनस ततः अभ्यभाषत संक्रुथ्धॊ राक्षसं घॊरथर्शनम 45 आर्श्यशृङ्गिं महेष्वासं मायाविनम अरिंथमम वैरिणं भीमसेनस्य पूर्वं बकवधेन वै 46 पश्य वीर यदा हय एष फल्गुनस्य सुतॊ बली मायावी विप्रियं घॊरम अकार्षीन मे बलक्षयम 47 तवं च कामगमस तात मायास्त्रे च विशारथः कृतवैरश च पार्देन तस्माथ एनं रणे जहि 48 बाढम इत्य एवम उक्त्वा तु राक्षसॊ घॊरथर्शनः परययौ सिंहनाथेन यत्रार्जुनसुतॊ युवा 49 सवारूढैर युथ्धकुशलैर विमलप्रासयॊधिभिः वीरैः परहारिभिर युक्तः सवैर अनीकैः समावृतः निहन्तुकामः समरे इरावन्तं महाबलम 50 इरावान अपि संक्रुथ्धस तवरमाणः पराक्रमी हन्तुकामम अमित्रघ्नॊ राक्षसं परत्यवारयत 51 तम आपतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः तवरमाणस ततॊ मायां परयॊक्तुम उपचक्रमे 52 तेन मायामयाः कॢप्ता हयास तावन्त एव हि सवारूढा राक्षसैर घॊरैः शूलपट्टिशपाणिभिः 53 ते संरब्धाः समागम्य थविसाहस्राः परहारिणः अचिराथ गमयाम आसुः परेतलॊकं परस्परम 54 तस्मिंस तु निहते सैन्ये ताव उभौ युथ्धथुर्मथौ संग्रामे वयवतिष्ठेतां यदा वै वृत्रवासवौ 55 आथ्रवन्तम अभिप्रेक्ष्य राक्षसं युथ्धथुर्मथम इरावान करॊधसंरब्धः परत्यधावन महाबलः 56 समभ्याशगतस्याजौ तस्य खड्गेन थुर्मतेः चिच्छेथ कार्मुकं थीप्तं शरावापं च पञ्चकम 57 स निकृत्तं धनुर थृष्ट्वा खं जवेन समाविशत इरावन्तम अभिक्रुथ्धं मॊहयन्न इव मायया 58 ततॊ ऽनतरिक्षम उत्पत्य इरावान अपि राक्षसम विमॊहयित्वा मायाभिस तस्य गात्राणि सायकैः चिच्छेथ सर्वमर्मज्ञः कामरूपॊ थुरासथः 59 तदा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः संबभूव महाराज समवाप च यौवनम 60 माया हि सहजा तेषां वयॊ रूपं च कामजम एवं तथ राक्षसस्याङ्गं छिन्नं छिन्नं वयरॊहत 61 इरावान अपि संक्रुथ्धॊ राक्षसं तं महाबलम परश्वधेन तीक्ष्णेन चिच्छेथ च पुनः पुनः 62 स तेन बलिना वीरश छिथ्यमान इव थरुमः राक्षसॊ वयनथथ घॊरं स शब्थस तुमुलॊ ऽभवत 63 परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु ततश चुक्रॊध बलवांश चक्रे वेगं च संयुगे 64 आर्श्यशृङ्गिस ततॊ थृष्ट्वा समरे शत्रुम ऊर्जितम कृत्वा घॊरं महथ रूपं गरहीतुम उपचक्रमे संग्रामशिरसॊ मध्ये सर्वेषां तत्र पश्यताम 65 तां थृष्ट्वा ताथृशीं मायां राक्षसस्य महात्मनः इरावान अपि संक्रुथ्धॊ मायां सरष्टुं परचक्रमे 66 तस्य करॊधाभिभूतस्य संयुगेष्व अनिवर्तिनः यॊ ऽनवयॊ मातृकस तस्य स एनम अभिपेथिवान 67 स नागैर बहुशॊ राजन सर्वतः संवृतॊ रणे थधार सुमहथ रूपम अनन्त इव भॊगवान ततॊ बहुविधैर नागैश छाथयाम आस राक्षसम 68 छाथ्यमानस तु नागैः स धयात्वा राक्षसपुंगवः सौपर्णं रूपम आस्दाय भक्षयाम आस पन्नगान 69 मायया भक्षिते तस्मिन्न अन्वये तस्य मातृके विमॊहितम इरावन्तम असिना राक्षसॊ ऽवधीत 70 सकुण्डलं समुकुटं पथ्मेन्थुसथृशप्रभम इरावतः शिरॊ रक्षः पातयाम आस भूतले 71 तस्मिंस तु निहते वीरे राक्षसेनार्जुनात्मजे विशॊकाः समपथ्यन्त धार्तराष्ट्राः सराजकाः 72 तस्मिन महति संग्रामे ताथृशे भैरवे पुनः महान वयतिकरॊ घॊरः सेनयॊः समपथ्यत 73 हया गजाः पथाताश च विमिश्रा थन्तिभिर हताः रदाश च थन्तिनश चैव पत्तिभिस तत्र सूथिताः 74 तदा पत्तिरदौघाश च हयाश च बहवॊ रणे रदिभिर निहता राजंस तव तेषां च संकुले 75 अजानन्न अर्जुनश चापि निहतं पुत्रम औरसम जघान समरे शूरान राज्ञस तान भीष्मरक्षिणः 76 तदैव तावका राजन सृञ्जयाश च महाबलाः जुह्वतः समरे पराणान निजघ्नुर इतरेतरम 77 मुक्तकेशा विकवचा विरदाश छिन्नकार्मुकाः बाहुभिः समयुध्यन्त समवेताः परस्परम 78 तदा मर्मातिगैर भीष्मॊ निजघान महारदान कम्पयन समरे सेनां पाण्डवानां महाबलः 79 तेन यौधिष्ठिरे सैन्ये बहवॊ मानवा हताः थन्तिनः साथिनश चैव रदिनॊ ऽद हयास तदा 80 तत्र भारत भीष्मस्य रणे थृष्ट्वा पराक्रमम अत्यथ्भुतम अपश्याम शक्रस्येव पराक्रमम 81 तदैव भीमसेनस्य पार्षतस्य च भारत रौथ्रम आसीत तथा युथ्धं सात्वतस्य च धन्विनः 82 थृष्ट्वा थरॊणस्य विक्रान्तं पाण्डवान भयम आविशत एक एव रणे शक्तॊ हन्तुम अस्मान स सैनिकान 83 किं पुनः पृदिवी शूरैर यॊधव्रातैः समावृतः इत्य अब्रुवन महाराज रणे थरॊणेन पीडिताः 84 वर्तमाने तदा रौथ्रे संग्रामे भरतर्षभ उभयॊः सेनयॊः शूरा नामृष्यन्त परस्परम 85 आविष्टा इव युध्यन्ते रक्षॊभूता महाबलाः तावकाः पाण्डवेयाश च संरब्धास तात धन्विनः 86 न सम पश्यामहे कं चिथ यः पराणान परिरक्षति संग्रामे थैत्यसंकाशे तस्मिन यॊथ्धा नराधिप |
1
saṃjaya uvāca vartamāne tathā raudre rājan vīravarakṣaye śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat 2 tathaiva sātvato rājan hārdikyaḥ paravīrahā abhyadravata saṃgrāme pāṇḍavānām anīkinīm 3 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ 4 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām ye cāpare tittirajā javanā vātaraṃhasaḥ 5 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ 6 arjunasyātha dāyāda irāvān nāma vīryavān sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā 7 airāvatena sā dattā anapatyā mahātmanā patyau hate suparṇena kṛpaṇā dīnacetanā 8 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ 9 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā 10 rūpavān vīryasaṃpanno guṇavān satyavikramaḥ indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam 11 so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam abhyavādayad avyagro vinayena kṛtāñjaliḥ irāvān asmi bhadraṃ te putraś cāhaṃ tavābhibho 12 mātuḥ samāgamo yaś ca tat sarvaṃ pratyavedayat tac ca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ 13 pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ prītimān abhavat pārtho devarājaniveśane 14 so 'rjunena samājñapto devaloke tadā nṛpa prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho 15 bāḍham ity evam uktvā ca yuddhakāla upāgataḥ kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa 16 te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ utpetuḥ sahasā rājan haṃsā iva mahodadhau 17 te tvadīyān samāsādya hayasaṃghān mahājavān kroḍaiḥ kroḍān abhighnanto ghoṇābhiś ca parasparam nipetuḥ sahasā rājan suvegābhihatā bhuvi 18 nipatadbhis tathā taiś ca hayasaṃghaiḥ parasparam śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā 19 tathaiva ca mahārāja sametyānyonyam āhave parasparavadhaṃ ghoraṃ cakrus te hayasādinaḥ 20 tasmiṃs tathā vartamāne saṃkule tumule bhṛśam ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ 21 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ vilayaṃ samanuprāptās takṣamāṇāḥ parasparam 22 tataḥ kṣīṇe hayānīke kiṃ cic cheṣe ca bhārata saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani 23 vāyuvegasamasparśā jave vāyusamāṃs tathā āruhya śīlasaṃpannān vayaḥsthāṃs turagottamān 24 gajo gavākṣo vṛṣakaś carmavān ārjavaḥ śukaḥ ṣaḍ ete balasaṃpannā niryayur mahato balāt 25 vāryamāṇāḥ śakuninā svaiś ca yodhair mahābalaiḥ saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ 26 tad anīkaṃ mahābāho bhittvā paramadurjayam balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ viviśus te tadā hṛṣṭā gāndhārā yuddhadurmadāḥ 27 tān praviṣṭāṃs tadā dṛṣṭvā irāvān api vīryavān abravīt samare yodhān vicitrābharaṇāyudhān 28 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ hanyante samare sarve tathā nītir vidhīyatām 29 bāḍham ity evam uktvā te sarve yodhā irāvataḥ jaghnus te vai parānīkaṃ durjayaṃ samare paraiḥ 30 tad anīkam anīkena samare vīkṣya pātitam amṛṣyamāṇās te sarve subalasyātmajā raṇe irāvantam abhidrutya sarvataḥ paryavārayan 31 tāḍayantaḥ śitaiḥ prāsaiś codayantaḥ parasparam te śūrāḥ paryadhāvanta kurvanto mahad ākulam 32 irāvān atha nirbhinnaḥ prāsais tīkṣṇair mahātmabhiḥ sravatā rudhireṇāktas tottrair viddha iva dvipaḥ 33 urasy api ca pṛṣṭhe ca pārśvayoś ca bhṛśāhataḥ eko bahubhir ity arthaṃ dhairyād rājan na vivyathe 34 irāvān atha saṃkruddhaḥ sarvāṃs tān niśitaiḥ śaraiḥ mohayām āsa samare viddhvā parapuraṃjayaḥ 35 prāsān uddhṛtya sarvāṃś ca svaśarīrād ariṃdamaḥ tair eva tāḍayām āsa subalasyātmajān raṇe 36 nivṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram padātis tūrṇam āgacchaj jighāṃsuḥ saubalān yudhi 37 tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ bhūyaḥ krodhasamāviṣṭā irāvantam athādravan 38 irāvān api khaḍgena darśayan pāṇilāghavam abhyavartata tān sarvān saubalān baladarpitaḥ 39 lāghavenātha carataḥ sarve te subalātmajāḥ antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ 40 bhūmiṣṭham atha taṃ saṃkhye saṃpradṛśya tataḥ punaḥ parivārya bhṛśaṃ sarve grahītum upacakramuḥ 41 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ upahastāvahastābhyāṃ teṣāṃ gātrāṇy akṛntata 42 āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ 43 vṛṣakas tu mahārāja bahudhā parivikṣataḥ amucyata mahāraudrāt tasmād vīrāvakartanāt 44 tān sarvān patitān dṛṣṭvā bhīto duryodhanas tataḥ abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam 45 ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai 46 paśya vīra yathā hy eṣa phalgunasya suto balī māyāvī vipriyaṃ ghoram akārṣīn me balakṣayam 47 tvaṃ ca kāmagamas tāta māyāstre ca viśāradaḥ kṛtavairaś ca pārthena tasmād enaṃ raṇe jahi 48 bāḍham ity evam uktvā tu rākṣaso ghoradarśanaḥ prayayau siṃhanādena yatrārjunasuto yuvā 49 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ nihantukāmaḥ samare irāvantaṃ mahābalam 50 irāvān api saṃkruddhas tvaramāṇaḥ parākramī hantukāmam amitraghno rākṣasaṃ pratyavārayat 51 tam āpatantaṃ saṃprekṣya rākṣasaḥ sumahābalaḥ tvaramāṇas tato māyāṃ prayoktum upacakrame 52 tena māyāmayāḥ kḷptā hayās tāvanta eva hi svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ 53 te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ acirād gamayām āsuḥ pretalokaṃ parasparam 54 tasmiṃs tu nihate sainye tāv ubhau yuddhadurmadau saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau 55 ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam irāvān krodhasaṃrabdhaḥ pratyadhāvan mahābalaḥ 56 samabhyāśagatasyājau tasya khaḍgena durmateḥ ciccheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam 57 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat irāvantam abhikruddhaṃ mohayann iva māyayā 58 tato 'ntarikṣam utpatya irāvān api rākṣasam vimohayitvā māyābhis tasya gātrāṇi sāyakaiḥ ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ 59 tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ saṃbabhūva mahārāja samavāpa ca yauvanam 60 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata 61 irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam paraśvadhena tīkṣṇena ciccheda ca punaḥ punaḥ 62 sa tena balinā vīraś chidyamāna iva drumaḥ rākṣaso vyanadad ghoraṃ sa śabdas tumulo 'bhavat 63 paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu tataś cukrodha balavāṃś cakre vegaṃ ca saṃyuge 64 ārśyaśṛṅgis tato dṛṣṭvā samare śatrum ūrjitam kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām 65 tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame 66 tasya krodhābhibhūtasya saṃyugeṣv anivartinaḥ yo 'nvayo mātṛkas tasya sa enam abhipedivān 67 sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe dadhāra sumahad rūpam ananta iva bhogavān tato bahuvidhair nāgaiś chādayām āsa rākṣasam 68 chādyamānas tu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ sauparṇaṃ rūpam āsthāya bhakṣayām āsa pannagān 69 māyayā bhakṣite tasminn anvaye tasya mātṛke vimohitam irāvantam asinā rākṣaso 'vadhīt 70 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham irāvataḥ śiro rakṣaḥ pātayām āsa bhūtale 71 tasmiṃs tu nihate vīre rākṣasenārjunātmaje viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ 72 tasmin mahati saṃgrāme tādṛśe bhairave punaḥ mahān vyatikaro ghoraḥ senayoḥ samapadyata 73 hayā gajāḥ padātāś ca vimiśrā dantibhir hatāḥ rathāś ca dantinaś caiva pattibhis tatra sūditāḥ 74 tathā pattirathaughāś ca hayāś ca bahavo raṇe rathibhir nihatā rājaṃs tava teṣāṃ ca saṃkule 75 ajānann arjunaś cāpi nihataṃ putram aurasam jaghāna samare śūrān rājñas tān bhīṣmarakṣiṇaḥ 76 tathaiva tāvakā rājan sṛñjayāś ca mahābalāḥ juhvataḥ samare prāṇān nijaghnur itaretaram 77 muktakeśā vikavacā virathāś chinnakārmukāḥ bāhubhiḥ samayudhyanta samavetāḥ parasparam 78 tathā marmātigair bhīṣmo nijaghāna mahārathān kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ 79 tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ dantinaḥ sādinaś caiva rathino 'tha hayās tathā 80 tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam atyadbhutam apaśyāma śakrasyeva parākramam 81 tathaiva bhīmasenasya pārṣatasya ca bhārata raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ 82 dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat eka eva raṇe śakto hantum asmān sa sainikān 83 kiṃ punaḥ pṛthivī śūrair yodhavrātaiḥ samāvṛtaḥ ity abruvan mahārāja raṇe droṇena pīḍitāḥ 84 vartamāne tathā raudre saṃgrāme bharatarṣabha ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam 85 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ tāvakāḥ pāṇḍaveyāś ca saṃrabdhās tāta dhanvinaḥ 86 na sma paśyāmahe kaṃ cid yaḥ prāṇān parirakṣati saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa |