1
[वै] भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम 2 अदाचष्ट मार्कण्डेयः 3 अयॊध्यायाम इक्षुवाकु कुलॊत्पन्नः पार्दिवः परिक्षिन नाम मृगयाम अगमत 4 तम एकाश्वेन मृगम अनुसरन्तं मृगॊ थूरम अपाहरत 5 अदाध्वनि जातश्रमः कषुत्तृष्णाभिभूतश च कस्मिंश चिथ उथ्थेशे नीलं वनषण्डम अपश्यत तच च विवेश 6 ततस तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरॊ थृष्ट्वा साश्वैव वयगाहत 7 अदाश्वस्तः स बिस मृणालम अश्वस्याग्रे निक्षिप्य पुष्करिणी तीरे समाविशत 8 ततः शयानॊ मधुरं गीतशब्थम अशृणॊत 9 स शरुत्वा अचिन्तयत नेह मनुष्यगतिं पश्यामि कस्य खल्व अयं गीतशब्थेति 10 अदापश्यत कन्यां परमरूपथर्शनीयां पुष्पाण्य अवचिन्वतीं गायन्तीं च 11 अद सा राज्ञः समीपे पर्यक्रामत 12 ताम अब्रवीथ राजा कस्यासि सुभगे तवम इति 13 सा परत्युवाच 14 तां राजॊवाच अर्दी तवयाहम इति 15 अदॊवाच कन्या समयेनाहं शक्या तवया लब्धुम नान्यदेति 16 तां राजा समयम अपृच्छत 17 ततः कन्येथम उवाच उथकं मे न थर्शयितव्यम इति 18 स राजा बाढम इत्य उक्त्वा तां समागम्य तया सहास्ते 19 तत्रैवासीने राजनि सेनान्वगच्छत पथेनानुपथं थृष्ट्वा राजानं परिवार्यातिष्ठत 20 पर्याश्वस्तश च राजा तयैव सह शिबिकया परायाथ अविघाटितया सवनगरम अनुप्राप्य रहसि तया सह रमन्न आस्ते नान्यत किं चनापश्यत 21 अद परधानामात्यस तस्याभ्याश चराः सत्रियॊ ऽपृच्छत किम अत्र परयॊजनं वर्ततेति 22 अदाब्रुवंस ताः सत्रियः अपूर्वम इव पश्यामॊथकं नात्र नीयतेति 23 अदामात्यॊ ऽनुथकं वनं कारयित्वॊथार वृक्षं बहुमूलपुष्पफलं रहस्य उपगम्य राजानम अब्रवीत वनम इथम उथारम अनुथकम साध्व अत्र रम्यताम इति 24 स तस्य वचनात तयैव सहथेव्या तथ वनं पराविशत स कथा चित तस्मिन वने रम्ये तयैव सह वयवहरत अद कषुत तृष्णार्थितः शरान्तॊ ऽतिमात्रम अतिमुक्तागारम अपश्यत 25 तत परविश्य राजा सह परियया सुधा तलसुकृतां विमलसलिलपूर्णां वापीम अपश्यत 26 थृष्ट्वैव च तां तस्यैव तीरे सहैव तया थेव्या वयतिष्ठत 27 अद तां थेवीं स राजाब्रवीत साधुव अवतर वापी सलिलम इति 28 सा तथ वचॊ शरुत्वावतीर्य वापीं नयमज्जत न पुनर उथमज्जत 29 तां मृगयमाणॊ राजा नापश्यत 30 वापीम अपि निःस्राव्य मण्डूकं शवभ्रमुखे थृष्ट्वा करुथ्धाज्ञापयाम आस सर्वमण्डूक वधः करियताम इति यॊ मयार्दी स मृतकरि मण्डूकैर उपायनैर माम उपतिष्ठेथ इति 31 अद मण्डूकवधे घॊरे करियमाणे थिक्षु सर्वासु मण्डूकान भयम आविशत ते भीता मण्डूकराज्ञे यदावृत्तं नयवेथयन 32 ततॊ मण्डूकराट तापस वेषधारी राजानम अभ्यगच्छत 33 उपेत्य चैनम उवाच मा राजन करॊधवशं गमः परसाथं कुरु नार्हसि मण्डूकानाम अनपराधिनां वधं कर्तुम इति 34 शलॊकौ चात्र भवतः मा मण्डूकाञ जिघांस तवं कॊपं संधार्ययाच्युत परक्षीयते धनॊथ्रेकॊ जनानाम अविजानताम 35 परतिजानीहि नैतांस तवं पराप्य करॊधं विमॊक्ष्यसे अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर हि ते 36 तम एवं वाथिनम इष्टजनशॊकपरीतात्मा राजा परॊवाच न हि कषम्यते तन मया हनिष्याम्य एतान एतैर थुरात्मभिः परिया मे भक्षिता सर्वदैव मे वध्या मण्डूकाः नार्हसि विथ्वन माम उपरॊथ्धुम इति 37 स तथ वाक्यम उपलभ्य वयदितेन्थ्रिय मनः परॊवाच परसीथ राजन अहम आयुर नाम मण्डूकराजः मम सा थुहिता सुशॊभना नाम तस्या थौःशील्यम एतत बहवॊ हि राजानस तया विप्रलब्ध पूर्वेति 38 तम अब्रवीथ राजा तयास्म्य अर्दी स मे थीयताम इति 39 अदैनां राज्ञे पिताथात अब्रवीच चैनाम एनं राजानं शुश्रूषस्वेति 40 सॊवाच थुहितरम यस्मात तवया राजानॊ विप्रलब्धास तस्माथ अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य अनृतकत्वात तवेति 41 स च राजा ताम उपलभ्य तस्यां सुरत गुणनिबथ्धहृथयॊ लॊकत्रयैश्वर्यम इवॊपलभ्य हर्षबाष्पकलया वाच परणिपत्याभिपूज्य मण्डूकराजानम अब्रवीत अनुगृहीतॊ ऽसमीति 42 स च मण्डूकराजॊ जामातरम अनुज्ञाप्य यदागतम अगच्छत 43 अद कस्य चित कालस्य तस्यां कुमारास तरयस तस्य राज्ञः संबभूवुः शलॊ थलॊ बलश चेति ततस तेषां जयेष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम 44 अद कथा चिच छिलॊ मृगयाम अचरत मृगं चासाथ्य रदेनान्वधावत 45 सूतं चॊवाच शीघ्रं मां वहस्वेति 46 स तदॊक्तः सूतॊ राजानम अब्रवीत मा करियताम अनुबन्धः नैष शक्यस तवया मृगॊ गरहीतुं यथ्य अपि ते रदे युक्तौ वाम्य सयाताम इति 47 ततॊ ऽबरवीथ राजा सूतम आचक्ष्व मे वाम्य हन्मि वा तवाम इति 48 सैवम उक्तॊ राजभयभीतॊ वामथेव शापभीतश च सन्न आचख्यौ राज्ञे वामथेवस्याश्वौ वाम्य मनॊजवाव इति 49 अदैनम एवं बरुवाणम अब्रवीथ राजा वामथेवाश्रमं याहीति 50 स गत्वा वामथेवाश्रमं तम ऋषिम अब्रवीत भगवन मृगॊ मया विथ्धः पालयते तं संभावयेयम अर्हसि मे वाम्य थातुम इति 51 तम अब्रवीथ ऋषिः थथानि ते वाम्य कृतकार्येण भवता ममैव निर्यात्यौ कषिप्रम इति 52 स च ताव अश्वौ परतिगृह्यानुज्ञाप्य चर्षिं परायाथ वाम्य संयुक्तेन रदेन मृगं परति गच्छंश चाब्रवीत सूतम अश्वरत्नाव इमाव अयॊग्यौ बराह्मणानाम नैतौ परतिथेयौ वामथेवायेति 53 एवम उक्त्वा मृगम अवाप्य सवनगरम एत्याश्वावन्तःपुरे ऽसदापयत 54 अदर्षिश चिन्तयाम आस तरुणॊ राजपुत्रः कल्याणं पत्रम आसाथ्य रमते न मे परतिनिर्यातयति अहॊ कष्टम इति 55 मनसा निश्चित्य मासि पूर्णे शिष्यम अब्रवीत गच्छात्रेय राजानं बरूहि यथि पर्याप्तं निर्यातयॊपाध्याय वाम्येति 56 स गत्वैवं तं राजानम अब्रवीत 57 तं राजा परत्युवाच राज्ञाम एतथ वाहनम अनर्हा बराह्मणा रत्नानाम एवंविधानाम किं च बराह्मणानाम अश्वैः कार्यम साधु परतिगम्यताम इति 58 स गत्वैवम उपाध्यायायाचष्ट 59 तच छरुत्वा वचनम अप्रियं वामथेवः करॊधपरीतात्मा सवयम एव राजानम अभिगम्याश्वार्दम अभ्यचॊथयत न चाथाथ राजा 60 [वाम] परयच्छ वाम्यौ मम पार्दिव तवं; कृतं हि ते कार्यम अन्यैर अशक्यम मा तवा वधीथ वरुणॊ घॊरपाशैर; बरह्मक्षत्रस्यान्तरे वर्तमानः 61 [राजा] अनड्वाहौ सुव्रतौ साधु थान्ताव; एतथ विप्राणां वाहनं वामथेव ताभ्यां याहि तवं यत्र कामॊ महर्षे; छन्थांसि वै तवाथृशं संवहन्ति 62 [वाम] छन्थांसि वै माथृशं संवहन्ति; लॊके ऽमुष्मिन पार्दिव यानि सन्ति अस्मिंस तु लॊके मम यानम एतथ; अस्मथ्विधानाम अपरेषां च राजन 63 [राजा] चत्वारॊ वा गर्थभास तवां वहन्तु; शरेष्ठाश्वतर्यॊ हरयॊ वा तुरंगाः तैस तवं याहि कषत्रियस्यैष वाहॊ; मम वाम्यौ न तवैतौ हि विथ्धि 64 [वाम] घॊरं वरतं बराह्मणस्यैतथ आहुर; एतथ राजन यथ इहाजीवमानः अयस्मया घॊररूपा महान्तॊ; वहन्तु तवां शितशूलाश चतुर्धा 65 [राजा] ये तवा विथुर बराह्मणं वामथेव; वाचा हन्तुं मनसा कर्मणा वा ते तवां सशिष्यम इह पातयन्तु; मथ्वाक्यनुन्नाः शितशूलासि हस्ताः 66 [वाम] नानुयॊगा बराह्मणानां भवन्ति; वाचा राजन मनसा कर्मणा वा यस तव एवं बरह्म तपसान्वेति; विथ्वांस तेन शरेष्ठॊ भवति हि जीवमानः 67 [मार्क] एवम उक्ते वामथेवेन राजन; समुत्तस्दू राक्षसा घॊररूपाः तैः शूलहस्तैर वध्यमानः स राजा; परॊवाचेथं वाक्यम उच्चैस तथानीम 68 इक्ष्वाकवॊ यथि बरह्मन थलॊ वा; विधेया मे यथि वान्ये विशॊ ऽपि नॊत्स्रक्ष्ये ऽहं वामथेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति 69 एवं बरुवन्न एव स यातुधानैर; हतॊ जगामाशु महीं कषितीशः ततॊ विथित्वा नृपतिं निपातितम; इक्ष्वाकवॊ वै थलम अभ्यषिञ्चन 70 राज्ये तथा तत्र गत्वा स विप्रः; परॊवाचेथं वचनं वामथेवः थलं राजानं बराह्मणानां हि थेयम; एवं राजन सर्वधर्मेषु थृष्टम 71 बिभेषि चेत तवम अधर्मान नरेन्थ्र; परयच्छ मे शीघ्रम एवाथ्य वाम्यौ एतच छरुत्वा वामथेवस्य वाक्यं; स पार्दिवः सूतम उवाच रॊषात 72 एकं हि मे सायकं चित्ररूपं; थिग्धं विषेणाहर संगृहीतम येन विथ्धॊ वामथेवः शयीत; संथश्यमानः शवभिर आर्तरूपः 73 [वाम] जानामि पुत्रं थशवर्षं तवाहं; जातं महिष्यां शयेनजितं नरेन्थ्र तं जहि तवं मथ्वचनात परणुन्नस; तूर्णं परियं सायकैर घॊररूपैः 74 [मार्क] एवम उक्तॊ वामथेवेन राजन्न; अन्तःपुरे राजपुत्रं जघान स सायकस तिग्मतेजा विसृष्टः; शरुत्वा थलस तच च वाक्यं बभाषे 75 इक्ष्वाकवॊ हन्त चरामि वः परियं; निहन्मीमं विप्रम अथ्य परमद्य आनीयताम अपरस तिग्मतेजाः; पश्यध्वं मे वीर्यम अथ्य कषितीशाः 76 [वाम] यं तवम एनं सायकं घॊररूपं; विषेण थिग्धं मम संथधासि न तवम एनं शरवर्यं विमॊक्तुं; संधातुं वा शक्ष्यसि मानवेन्थ्र 77 [राजा] इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नॊम्य एष शरं विमॊक्तुम न चास्य कर्तुं नाशम अभ्युत्सहामि; आयुष्मान वै जीवतु वामथेवः 78 [वाम] संस्पृशैनां महिषीं सायकेन; ततस तस्माथ एनसॊ मॊक्ष्यसे तवम 79 [मार्क] ततस तदा कृतवान पार्दिवस तु; ततॊ मुनिं राजपुत्री बभाषे यदा युक्तं वामथेवाहम एनं; थिने थिने संविशन्ती वयशंसम बराह्मणेभ्यॊ मृगयन्ती सूनृतानि; तदा बरह्मन पुण्यलॊकं लभेयम 80 [वाम] तवया तरातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं थथानि ते परशाधीमं सवजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच चाप्य अनिन्थ्ये 81 [राजपुत्री] वरं वृणे भगवन्न एकम एव; विमुच्यतां किल्बिषाथ अथ्य भर्ता शिवेन चाध्याहि सपुत्रबान्धवं; वरॊ वृतॊ हय एष मया थविजाग्र्य 82 [मार्क] शरुत्वा वचॊ स मुनी राजपुत्र्यास; तदास्त्व इति पराह कुरुप्रवीर ततः स राजा मुथितॊ बभूव; वाम्यौ चास्मै संप्रथथौ परणम्य |
1
[vai] bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam 2 athācaṣṭa mārkaṇḍeyaḥ 3 ayodhyāyām ikṣuvāku kulotpannaḥ pārthivaḥ parikṣin nāma mṛgayām agamat 4 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat 5 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat tac ca viveśa 6 tatas tasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśvaiva vyagāhata 7 athāśvastaḥ sa bisa mṛṇālam aśvasyāgre nikṣipya puṣkariṇī tīre samāviśat 8 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot 9 sa śrutvā acintayat neha manuṣyagatiṃ paśyāmi kasya khalv ayaṃ gītaśabdeti 10 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca 11 atha sā rājñaḥ samīpe paryakrāmat 12 tām abravīd rājā kasyāsi subhage tvam iti 13 sā pratyuvāca 14 tāṃ rājovāca arthī tvayāham iti 15 athovāca kanyā samayenāhaṃ śakyā tvayā labdhum nānyatheti 16 tāṃ rājā samayam apṛcchat 17 tataḥ kanyedam uvāca udakaṃ me na darśayitavyam iti 18 sa rājā bāḍham ity uktvā tāṃ samāgamya tayā sahāste 19 tatraivāsīne rājani senānvagacchat padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat 20 paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā svanagaram anuprāpya rahasi tayā saha ramann āste nānyat kiṃ canāpaśyat 21 atha pradhānāmātyas tasyābhyāśa carāḥ striyo 'pṛcchat kim atra prayojanaṃ vartateti 22 athābruvaṃs tāḥ striyaḥ apūrvam iva paśyāmodakaṃ nātra nīyateti 23 athāmātyo 'nudakaṃ vanaṃ kārayitvodāra vṛkṣaṃ bahumūlapuṣpaphalaṃ rahasy upagamya rājānam abravīt vanam idam udāram anudakam sādhv atra ramyatām iti 24 sa tasya vacanāt tayaiva sahadevyā tad vanaṃ prāviśat sa kadā cit tasmin vane ramye tayaiva saha vyavaharat atha kṣut tṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat 25 tata praviśya rājā saha priyayā sudhā talasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat 26 dṛṣṭvaiva ca tāṃ tasyaiva tīre sahaiva tayā devyā vyatiṣṭhat 27 atha tāṃ devīṃ sa rājābravīt sādhuv avatara vāpī salilam iti 28 sā tad vaco śrutvāvatīrya vāpīṃ nyamajjat na punar udamajjat 29 tāṃ mṛgayamāṇo rājā nāpaśyat 30 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddhājñāpayām āsa sarvamaṇḍūka vadhaḥ kriyatām iti yo mayārthī sa mṛtakari maṇḍūkair upāyanair mām upatiṣṭhed iti 31 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan 32 tato maṇḍūkarāṭ tāpasa veṣadhārī rājānam abhyagacchat 33 upetya cainam uvāca mā rājan krodhavaśaṃ gamaḥ prasādaṃ kuru nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti 34 ślokau cātra bhavataḥ mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhāryayācyuta prakṣīyate dhanodreko janānām avijānatām 35 pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te 36 tam evaṃ vādinam iṣṭajanaśokaparītātmā rājā provāca na hi kṣamyate tan mayā haniṣyāmy etān etair durātmabhiḥ priyā me bhakṣitā sarvathaiva me vadhyā maṇḍūkāḥ nārhasi vidvan mām uparoddhum iti 37 sa tad vākyam upalabhya vyathitendriya manaḥ provāca prasīda rājan aham āyur nāma maṇḍūkarājaḥ mama sā duhitā suśobhanā nāma tasyā dauḥśīlyam etat bahavo hi rājānas tayā vipralabdha pūrveti 38 tam abravīd rājā tayāsmy arthī sa me dīyatām iti 39 athaināṃ rājñe pitādāt abravīc cainām enaṃ rājānaṃ śuśrūṣasveti 40 sovāca duhitaram yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anṛtakatvāt taveti 41 sa ca rājā tām upalabhya tasyāṃ surata guṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vāca praṇipatyābhipūjya maṇḍūkarājānam abravīt anugṛhīto 'smīti 42 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat 43 atha kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabhūvuḥ śalo dalo balaś ceti tatas teṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma 44 atha kadā cic chilo mṛgayām acarat mṛgaṃ cāsādya rathenānvadhāvat 45 sūtaṃ covāca śīghraṃ māṃ vahasveti 46 sa tathoktaḥ sūto rājānam abravīt mā kriyatām anubandhaḥ naiṣa śakyas tvayā mṛgo grahītuṃ yady api te rathe yuktau vāmya syātām iti 47 tato 'bravīd rājā sūtam ācakṣva me vāmya hanmi vā tvām iti 48 saivam ukto rājabhayabhīto vāmadeva śāpabhītaś ca sann ācakhyau rājñe vāmadevasyāśvau vāmya manojavāv iti 49 athainam evaṃ bruvāṇam abravīd rājā vāmadevāśramaṃ yāhīti 50 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt bhagavan mṛgo mayā viddhaḥ pālayate taṃ saṃbhāvayeyam arhasi me vāmya dātum iti 51 tam abravīd ṛṣiḥ dadāni te vāmya kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti 52 sa ca tāv aśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmya saṃyuktena rathena mṛgaṃ prati gacchaṃś cābravīt sūtam aśvaratnāv imāv ayogyau brāhmaṇānām naitau pratideyau vāmadevāyeti 53 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat 54 atharṣiś cintayām āsa taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate na me pratiniryātayati aho kaṣṭam iti 55 manasā niścitya māsi pūrṇe śiṣyam abravīt gacchātreya rājānaṃ brūhi yadi paryāptaṃ niryātayopādhyāya vāmyeti 56 sa gatvaivaṃ taṃ rājānam abravīt 57 taṃ rājā pratyuvāca rājñām etad vāhanam anarhā brāhmaṇā ratnānām evaṃvidhānām kiṃ ca brāhmaṇānām aśvaiḥ kāryam sādhu pratigamyatām iti 58 sa gatvaivam upādhyāyāyācaṣṭa 59 tac chrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat na cādād rājā 60 [vāma] prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ 61 [rājā] anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti 62 [vāma] chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan 63 [rājā] catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi 64 [vāma] ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā 65 [rājā] ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsi hastāḥ 66 [vāma] nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā yas tv evaṃ brahma tapasānveti; vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ 67 [mārk] evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm 68 ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti 69 evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan 70 rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam 71 bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt 72 ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ 73 [vāma] jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ 74 [mārk] evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe 75 ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ 76 [vāma] yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra 77 [rājā] ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ 78 [vāma] saṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam 79 [mārk] tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam 80 [vāma] tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye 81 [rājaputrī] varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya 82 [mārk] śrutvā vaco sa munī rājaputryās; tathāstv iti prāha kurupravīra tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya |