1
[पुलस्त्य] अद संध्यां समासाथ्य संवेथ्यं तीर्दम उत्तमम उपस्पृश्य नरॊ विथ्वान भवेन नास्त्य अत्र संशयः 2 रामस्य च परसाथेन तीर्दं राजन कृतं पुरा तल लॊहित्यं समासाथ्य विन्थ्याथ बहुसुवर्णकम 3 करतॊयां समासाथ्य तरिरात्रॊपॊषितॊ नरः अश्वमेधम अवाप्नॊति कृते पैतामहे विधौ 4 गङ्गायास तव अद राजेन्थ्र सागरस्य च संगमे अश्वमेधं थशगुणं परवथन्ति मनीषिणः 5 गङ्गायास तव अपरं थवीपं पराप्य यः सनाति भारत तरिरात्रॊपॊषितॊ राजन सर्वकामान अवाप्नुयात 6 ततॊ वैतरणीं गत्वा नथीं पापप्रमॊचनीम विरजं तीर्दम आसाथ्य विराजति यदा शशी 7 परभवेच च कुले पुण्ये सर्वपापं वयपॊहति गॊसहस्रफलं लब्ध्वा पुनाति च कुलं नरः 8 शॊणस्य जयॊतिरद्याश च संगमे निवसञ शुचिः तर्पयित्वा पितॄन थेवान अग्निष्टॊम फलं लभेत 9 शॊणस्य नर्मथायाश च परभवे कुरुनन्थन वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत 10 ऋषभं तीर्दम आसाथ्य कॊशलायां नराधिप वाजपेयम अवाप्नॊति तरिरात्रॊपॊषितॊ नरः 11 कॊशलायां समासाथ्य कालतीर्द उपस्पृशेत वृशभैकाथश फलं लभते नात्र संशयः 12 पुष्पवत्याम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः गॊसहस्रफलं विन्थ्यात कुलं चैव समुथ्धरेत 13 ततॊ बथरिका तीर्दे सनात्वा परयत मानसः थीर्घम आयुर अवाप्नॊति सवर्गलॊकं च गच्छति 14 ततॊ महेन्थ्रम आसाथ्य जामथग्न्य निषेवितम राम तीर्दे नरः सनात्वा वाजिमेधफलं लभेत 15 मतङ्गस्य तु केथारस तत्रैव कुरुनन्थन तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत 16 शरीपर्वतं समासाथ्य नथीतीर उपस्पृशेत अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति 17 शरीपर्वते महाथेवॊ थेव्या सह महाथ्युतिः नयवसत परमप्रीतॊ बरह्मा च तरिथशैर वृतः 18 तत्र थेव हरथे सनात्वा शुचिः परयत मानसः अश्वमेधम अवाप्नॊति परां सिथ्धिं च गच्छति 19 ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम वाजपेयम अवाप्नॊति नाकपृष्ठे च मॊथते 20 ततॊ गच्छेत कावेरीं वृताम अप्सरसां गणैः तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत 21 ततस तीरे समुथ्रस्य कन्या तीर्द उपस्पृशेत तत्रॊपस्पृश्य राजेन्थ्र सर्वपापैः परमुच्यते 22 अद गॊकर्णम आसाथ्य तरिषु लॊकेषु विश्रुतम समुथ्रमध्ये राजेन्थ्र सर्वलॊकनमस्कृतम 23 यत्र बरह्माथयॊ थेवा ऋषयश च तपॊधनाः भूतयक्षपिशाचाश च किंनराः स महॊरगाः 24 सिथ्धचारणगन्धर्वा मानुषाः पन्नगास तदा सरितः सागराः शैला उपासन्त उमा पतिम 25 तत्रेशानं समभ्यर्च्य तरिरात्रॊपॊषितॊ नरः थशाश्वमेधम आप्नॊति गाणपत्यं च विन्थति उष्य थवाथश रात्रं तु कृतात्मा भवते नरः 26 तत एव तु गायत्र्याः सदानं तरैलॊक्यविश्रुतम तरिरात्रम उषितस तत्र गॊसहस्रफलं लभेत 27 निथर्शनं च परत्यक्षं बराह्मणानां नराधिप गायत्रीं पठते यस तु यॊनिसंकरजस तदा गादा वा गीतिका वापि तस्य संपथ्यते नृप 28 संवर्तस्य तु विप्रर्षेर वापीम आसाथ्य थुर्लभाम रूपस्य भागी भवति सुभगश चैव जायते 29 ततॊ वेण्णां समासाथ्य तर्पयेत पितृथेवताः मयूरहंससंयुक्तं विमानं लभते नरः 30 ततॊ गॊथावरीं पराप्य नित्यं सिथ्धनिषेविताम गवाम अयम अवाप्नॊति वासुकेर लॊकम आप्नुयात 31 वेण्णायाः संगमे सनात्वा वाजपेयफलं लभेत वरथा संगमे सनात्वा गॊसहस्रफलं लभेत 32 बरह्म सदानं समासाथ्य तरिरात्रम उषितॊ नरः गॊसहस्रफलं विन्थेत सवर्गलॊकं च गच्छति 33 कुशप्लवनम आसाथ्य बरह्म चारी समाहितः तरिरात्रम उषितः सनात्वा अश्वमेध फलं लभेत 34 ततॊ थेव हरथे रम्ये कृष्ण वेण्णा जलॊथ्भवे जातिमात्रह्रथे चैव तदा कन्याश्रमे नृप 35 यत्र करतुशतैर इष्ट्वा थेवराजॊ थिवं गतः अग्निष्टॊम शतं विन्थेथ गमनाथ एव भारत 36 सर्वथेव हरथे सनात्वा गॊसहस्रफलं लभेत जातिमात्रह्रथे सनात्वा भवेज जातिस्मरॊ नरः 37 ततॊ ऽवाप्य महापुण्यां पयॊष्णीं सरितां वराम पितृथेवार्चन रतॊ गॊसहस्रफलं लभेत 38 थण्डकारण्यम आसाथ्य महाराज उपस्पृशेत गॊसहस्रफलं तत्र सनातमात्रस्य भारत 39 शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनाः न थुर्गतिम अवाप्नॊति पुनाति च कुलं नरः 40 ततः शूर्पारकं गच्छेज जामथग्न्य निषेवितम राम तीर्दे नरः सनात्वा विन्थ्याथ बहुसुवर्णकम 41 सप्त गॊथावरे सनात्वा नियतॊ नियताशनः महत पुण्यम अवाप्नॊति थेवलॊकं च गच्छति 42 ततॊ थेवपदं गच्छेन नियतॊ नियताशनः थेव सत्रस्य यत पुण्यं तथ अवाप्नॊति मानवः 43 तुङ्गकारण्यम आसाथ्य बरह्म चारी जितेन्थ्रियः वेथान अध्यापयत तत्र ऋषिः सारस्वतः पुरा 44 तत्र वेथान परनष्टांस तु मुनेर अङ्गिरसः सुतः उपविष्टॊ महर्षीणाम उत्तरीयेषु भारत 45 ओंकारेण यदान्यायं सम्यग उच्चारितेन च येन यत पूर्वम अभ्यस्तं तत तस्य समुपस्दितम 46 ऋषयस तत्र थेवाश च वरुणॊ ऽगनिः परजापतिः हरिर नारायणॊ थेवॊ महाथेवस तदैव च 47 पिता महश च भगवान थेवैः सह महाथ्युतिः भृगुं नियॊजयाम आस याजनार्दे महाथ्युतिम 48 ततः सचक्रे भगवान ऋषीणां विधिवत तथा सर्वेषां पुनर आधानं विधिथृष्टेन कर्मणा 49 आज्यभागेन वै तत्र तर्पितास तु यदाविधि थेवास तरिभुवणं याता ऋषयश च यदासुखम 50 तथ अरण्यं परविष्टस्य तुङ्गकं राजसत्तम पापं परणश्यते सर्वं सत्रियॊ वा पुरुषस्य वा 51 तत्र मासं वसेथ धीरॊ नियतॊ नियताशनः बरह्मलॊकं वरजेथ राजन पुनीते च कुलं नरः 52 मेधाविकं समासाथ्य पितॄन थेवांश च तर्पयेत अग्निष्टॊमम अवाप्नॊति समृतिं मेधां च विन्थति 53 ततः कालंजरं गत्वा पर्वतं लॊकविश्रुतम तत्र थेव हरथे सनात्वा गॊसहस्रफलं लभेत 54 आत्मानं साधयेत तत्र गिरौ कालंजरे नृप सवर्गलॊके महीयेत नरॊ नास्त्य अत्र संशयः 55 ततॊ गिरिवरश्रेष्ठे चित्रकूटे विशां पते मन्थाकिनीं समासाथ्य नथीं पापप्रमॊचिनीम 56 तत्राभिषेकं कुर्वाणः पितृथेवार्चने रतः अश्वमेधम अवाप्नॊति गतिं च परमां वरजेत 57 ततॊ गच्छेत राजेन्थ्र भर्तृस्दानम अनुत्तमम यत्र थेवॊ महासेनॊ नित्यं संनिहितॊ नृपः 58 पुमांस तत्र नरश्रेष्ठ गमनाथ एव सिध्यति कॊटितीर्दे नरः सनात्वा गॊसहस्रफलं लभेत 59 परथक्षिणम उपावृत्य जयेष्ठस्दानं वरजेन नरः अभिगम्य महाथेवं विराजति यदा शशी 60 तत्र कूपॊ महाराज विश्रुतॊ भरतर्षभ समुथ्रास तत्र चत्वारॊ निवसन्ति युधिष्ठिर 61 तत्रॊपस्पृश्य राजेन्थ्र कृत्वा चापि परथक्षिणम नियतात्मा नरः पूतॊ गच्छेत परमां गतिम 62 ततॊ गच्छेत कुरुश्रेष्ठ शृङ्गवेर पुरं महत यत्र तीर्णॊ महाराज रामॊ थाशरदिः पुरा 63 गङ्गायां तु नरः सनात्वा बरह्म चारी समाहितः विधूतपाप्मा भवति वाजपेयं च विन्थति 64 अभिगम्य महाथेवम अभ्यर्च्य च नराधिप परथक्षिणम उपावृत्य गाणपत्यम अवाप्नुयात 65 ततॊ गच्छेत राजेन्थ्र परयागम ऋषिसंस्तुतम यत्र बरह्माथयॊ थेवा थिशश च स थिग ईश्वराः 66 लॊकपालाश च साध्याश च नैरृताः पितरस तदा सनत कुमार परमुखास तदैव परमर्षयः 67 अङ्गिरः परमुखाश चैव तदा बरह्मर्षयॊ ऽपरे तदा नागाः सुपर्णाश च सिथ्धाश चक्रचरास तदा 68 सरितः सागराश चैव गन्धर्वाप्सरसस तदा हरिश च भगवान आस्ते परजापतिपुरस्कृतः 69 तत्र तरीण्य अग्निकुण्डानि येषां मध्ये च जाह्नवी परयागाथ अभिनिष्क्रान्ता सर्वतीर्दपुरस्कृता 70 तपनस्य सुता तत्र तरिषु लॊकेषु विश्रुता यमुना गङ्गया सार्धं संगता लॊकपावनी 71 गङ्गायमुनयॊर मथ्यं पृदिव्या जघनं समृतम परयागं जघनस्यान्तम उपस्दम ऋषयॊ विथुः 72 परयागं स परतिष्ठानं कम्बलाश्वतरौ तदा तीर्दं भॊगवती चैव वेथी परॊक्ता परजापतेः 73 तत्र वेथाश च यज्ञाश च मूर्तिमन्तॊ युधिष्ठिर परजापतिम उपासन्ते ऋषयश च महाव्रताः यजन्ते करतुभिर थेवास तदा चक्रचरा नृप 74 ततः पुण्यतमं नास्ति तरिषु लॊकेषु भारत परयागः सर्वतीर्देभ्यः परभवत्य अधिकं विभॊ 75 शरवणात तस्य तीर्दस्य नाम संकीर्तनाथ अपि मृत्तिका लम्भनाथ वापि नरः पापात परमुच्यते 76 तत्राभिषेकं यः कुर्यात संगमे संशितव्रतः पुण्यं सफलम आप्नॊति राजसूयाश्वमेधयॊः 77 एषा यजन भूमिर हि थेवानाम अपि सत्कृता तत्र थत्तं सूक्ष्मम अपि महथ भवति भारत 78 न वेथ वचनात तात न लॊकवचनाथ अपि मतिर उत्क्रमणीया ते परयागमरणं परति 79 थश तीर्दसहस्राणि षष्टिकॊट्त्यस तदापराः येषां सांनिध्यम अत्रैव कीर्तितं कुरुनन्थन 80 चातुर्वेथे च यत पुण्यं सत्यवाथिषु चैव यत सनात एव तथाप्नॊति गङ्गा यमुन संगमे 81 तत्र भॊगवती नाम वासुकेस तीर्दम उत्तमम तत्राभिषेकं यः कुर्यात सॊ ऽशवमेधम अवाप्नुयात 82 तत्र हंसप्रपतनं तीर्दं तरैलॊक्यविश्रुतम थशाश्वमेधिकं चैव गङ्गायां कुरुनन्थन 83 यत्र गङ्गा महाराज स थेशस तत तपॊवनम सिथ्धक्षेत्रं तु तज जञेयं गङ्गातीरसमाश्रितम 84 इथं सत्यं थविजातीनां साधूनाम आत्मजस्य च सुहृथां च जपेत कर्णे शिष्यस्यानुगतस्य च 85 इथं धर्म्यम इथं पुण्यम इथं मेध्यम इथं सुखम इथं सवर्ग्यम इथं रम्यम इथं पावनम उत्तमम 86 महर्षीणाम इथं गुह्यं सर्पपापप्रमॊचनम अधीत्य थविजमध्ये च निर्मलत्वम अवाप्नुयात 87 यश चेथं शृणुयान नित्यं तीर्दपुण्यं सथा शुचिः जातीः स समरते बह्वीर नाकपृष्ठे च मॊथते 88 गम्यान्य अपि च तीर्दानि कीर्तितान्य अगमानि च मनसा तानि गच्छेत सर्वतीर्दसमीक्षया 89 एतानि वसुभिः साध्यैर आथित्यैर मरुथ अश्विभिः ऋषिभिर थेवकल्पैश च शरितानि सुकृतैषिभिः 90 एवं तवम अपि कौरव्य विधिनानेन सुव्रत वरज तीर्दानि नियतः पुण्यं पुण्येन वर्धते 91 भावितैः कारणैः पूर्वम आस्तिक्याच छरुति थर्शनात पराप्यन्ते तानि तीर्दानि सथ्भिः शिष्टानुथर्शिभिः 92 नाव्रतॊ नाकृतात्मा च नाशुचिर न च तस्करः सनाति तीर्देषु कौरव्य न च वक्रमतिर नरः 93 तवया तु सम्यग्वृत्तेन नित्यं धर्मार्दथर्शिना पितरस तारितास तात सर्वे च परपिता महाः 94 पिता मह पुरॊगाश च थेवाः सर्षिगणा नृप तव धर्मेण धर्मज्ञ नित्यम एवाभितॊषिताः 95 अवाप्स्यसि च लॊकान वै वसूनां वासवॊपम कीर्तिं च महतीं भीष्म पराप्स्यसे भुवि शाश्वतीम 96 [नारथ] एवम उक्त्वाभ्यनुज्ञाप्य पुलस्त्यॊ भगवान ऋषिः परीतः परीतेन मनसा तत्रैवान्तरधीयते 97 भीष्मश च कुरुशार्थूल शास्त्रतत्त्वार्द थर्शिवान पुलस्त्यवचनाच चैव पृदिवीम अनुचक्रमे 98 अनेन विधिना यस तु पृदिवीं संचरिष्यति अश्वमेध शतस्याग्र्यं फलं परेत्य स भॊक्ष्यते 99 अतश चाष्ट गुणं पार्द पराप्स्यसे धर्मम उत्तमम नेता च तवम ऋषीन यस्मात तेन ते ऽषट गुणं फलम 100 रक्षॊगणावकीर्णानि तीर्दान्य एतानि भारत न गतिर विथ्यते ऽनयस्य तवाम ऋते कुरुनन्थन 101 इथं थेवर्षिचरितं सर्वतीर्दार्द संश्रितम यः पठेत कल्यम उत्दाय सर्वपापैः परमुच्यते 102 ऋषिमुख्याः सथा यत्र वाल्मीकिस तव अद काश्यपः आत्रेयस तव अद कौण्डिन्यॊ विश्वा मित्रॊ ऽद गौतमः 103 असितॊ थेवलश चैव मार्कण्डेयॊ ऽद गालवः भरथ वाजॊ वसिष्ठश च मुनिर उथ्थालकस तदा 104 शौनकः सह पुत्रेण वयासश च जपतां वरः थुर्वासाश च मुनिश्रेष्ठॊ गालवश च महातपः 105 एते ऋषिवराः सर्वे तवत्प्रतीक्षास तपॊधनाः एभिः सह महाराज तीर्दान्य एतान्य अनुव्रज 106 एष वै लॊमशॊ नाम थेवर्षिर अमितथ्युतिः समेष्यति तवया चैव तेन सार्धम अनुव्रज 107 मया च सहधर्मज्ञ तीर्दान्य एतान्य अनुव्रज पराप्स्यसे महतीं कीर्तिं यदा राजा महाभिषः 108 यदा ययातिर धर्मात्मा यदा राजा पुरूरवः तदा तवं कुरुशार्थूल सवेन धर्मेण शॊभसे 109 यदा भगीरदॊ राजा यदा रामश च विश्रुतः तदा तवं सर्वराजभ्यॊ भराजसे रश्मिवान इव 110 यदा मनुर यदेक्ष्वाकुर यदा पूरुर महायशाः यदा वैन्यॊ महातेजास तदा तवम अपि विश्रुतः 111 यदा च वृत्रहा सर्वान सपत्नान निर्थहत पुरा तदा शत्रुक्षयं कृत्वा परजास तवं पालयिष्यसि 112 सवधर्मविजिताम उर्वीं पराप्य राजीवलॊचन खयातिं यास्यसि धर्मेण कार्तवीर्यार्जुनॊ यदा 113 [व] एवम आश्वास्य राजानं नारथॊ भगवान ऋषिः अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत 114 युधिष्ठिरॊ ऽपि धर्मात्मा तम एवार्दं विचिन्तयन तीर्दयात्राश्रयं पुण्यम ऋषीणां परत्यवेथयत |
1
[pulastya] atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ 2 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā tal lohityaṃ samāsādya vindyād bahusuvarṇakam 3 karatoyāṃ samāsādya trirātropoṣito naraḥ aśvamedham avāpnoti kṛte paitāmahe vidhau 4 gaṅgāyās tv atha rājendra sāgarasya ca saṃgame aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ 5 gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata trirātropoṣito rājan sarvakāmān avāpnuyāt 6 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm virajaṃ tīrtham āsādya virājati yathā śaśī 7 prabhavec ca kule puṇye sarvapāpaṃ vyapohati gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ 8 śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet 9 śoṇasya narmadāyāś ca prabhave kurunandana vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet 10 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa vājapeyam avāpnoti trirātropoṣito naraḥ 11 kośalāyāṃ samāsādya kālatīrtha upaspṛśet vṛśabhaikādaśa phalaṃ labhate nātra saṃśayaḥ 12 puṣpavatyām upaspṛśya trirātropoṣito naraḥ gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet 13 tato badarikā tīrthe snātvā prayata mānasaḥ dīrgham āyur avāpnoti svargalokaṃ ca gacchati 14 tato mahendram āsādya jāmadagnya niṣevitam rāma tīrthe naraḥ snātvā vājimedhaphalaṃ labhet 15 mataṅgasya tu kedāras tatraiva kurunandana tatra snātvā naro rājan gosahasraphalaṃ labhet 16 śrīparvataṃ samāsādya nadītīra upaspṛśet aśvamedham avāpnoti svargalokaṃ ca gacchati 17 śrīparvate mahādevo devyā saha mahādyutiḥ nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ 18 tatra deva hrade snātvā śuciḥ prayata mānasaḥ aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati 19 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam vājapeyam avāpnoti nākapṛṣṭhe ca modate 20 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ tatra snātvā naro rājan gosahasraphalaṃ labhet 21 tatas tīre samudrasya kanyā tīrtha upaspṛśet tatropaspṛśya rājendra sarvapāpaiḥ pramucyate 22 atha gokarṇam āsādya triṣu lokeṣu viśrutam samudramadhye rājendra sarvalokanamaskṛtam 23 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ bhūtayakṣapiśācāś ca kiṃnarāḥ sa mahoragāḥ 24 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā saritaḥ sāgarāḥ śailā upāsanta umā patim 25 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ daśāśvamedham āpnoti gāṇapatyaṃ ca vindati uṣya dvādaśa rātraṃ tu kṛtātmā bhavate naraḥ 26 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam trirātram uṣitas tatra gosahasraphalaṃ labhet 27 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā gāthā vā gītikā vāpi tasya saṃpadyate nṛpa 28 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām rūpasya bhāgī bhavati subhagaś caiva jāyate 29 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ 30 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām gavām ayam avāpnoti vāsuker lokam āpnuyāt 31 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet varadā saṃgame snātvā gosahasraphalaṃ labhet 32 brahma sthānaṃ samāsādya trirātram uṣito naraḥ gosahasraphalaṃ vindet svargalokaṃ ca gacchati 33 kuśaplavanam āsādya brahma cārī samāhitaḥ trirātram uṣitaḥ snātvā aśvamedha phalaṃ labhet 34 tato deva hrade ramye kṛṣṇa veṇṇā jalodbhave jātimātrahrade caiva tathā kanyāśrame nṛpa 35 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ agniṣṭoma śataṃ vinded gamanād eva bhārata 36 sarvadeva hrade snātvā gosahasraphalaṃ labhet jātimātrahrade snātvā bhavej jātismaro naraḥ 37 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām pitṛdevārcana rato gosahasraphalaṃ labhet 38 daṇḍakāraṇyam āsādya mahārāja upaspṛśet gosahasraphalaṃ tatra snātamātrasya bhārata 39 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanāḥ na durgatim avāpnoti punāti ca kulaṃ naraḥ 40 tataḥ śūrpārakaṃ gacchej jāmadagnya niṣevitam rāma tīrthe naraḥ snātvā vindyād bahusuvarṇakam 41 sapta godāvare snātvā niyato niyatāśanaḥ mahat puṇyam avāpnoti devalokaṃ ca gacchati 42 tato devapathaṃ gacchen niyato niyatāśanaḥ deva satrasya yat puṇyaṃ tad avāpnoti mānavaḥ 43 tuṅgakāraṇyam āsādya brahma cārī jitendriyaḥ vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā 44 tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ upaviṣṭo maharṣīṇām uttarīyeṣu bhārata 45 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca yena yat pūrvam abhyastaṃ tat tasya samupasthitam 46 ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ harir nārāyaṇo devo mahādevas tathaiva ca 47 pitā mahaś ca bhagavān devaiḥ saha mahādyutiḥ bhṛguṃ niyojayām āsa yājanārthe mahādyutim 48 tataḥ sacakre bhagavān ṛṣīṇāṃ vidhivat tadā sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā 49 ājyabhāgena vai tatra tarpitās tu yathāvidhi devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham 50 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā 51 tatra māsaṃ vased dhīro niyato niyatāśanaḥ brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ 52 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati 53 tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam tatra deva hrade snātvā gosahasraphalaṃ labhet 54 ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa svargaloke mahīyeta naro nāsty atra saṃśayaḥ 55 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate mandākinīṃ samāsādya nadīṃ pāpapramocinīm 56 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet 57 tato gaccheta rājendra bhartṛsthānam anuttamam yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ 58 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet 59 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ abhigamya mahādevaṃ virājati yathā śaśī 60 tatra kūpo mahārāja viśruto bharatarṣabha samudrās tatra catvāro nivasanti yudhiṣṭhira 61 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam niyatātmā naraḥ pūto gaccheta paramāṃ gatim 62 tato gacchet kuruśreṣṭha śṛṅgavera puraṃ mahat yatra tīrṇo mahārāja rāmo dāśarathiḥ purā 63 gaṅgāyāṃ tu naraḥ snātvā brahma cārī samāhitaḥ vidhūtapāpmā bhavati vājapeyaṃ ca vindati 64 abhigamya mahādevam abhyarcya ca narādhipa pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt 65 tato gaccheta rājendra prayāgam ṛṣisaṃstutam yatra brahmādayo devā diśaś ca sa dig īśvarāḥ 66 lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā sanat kumāra pramukhās tathaiva paramarṣayaḥ 67 aṅgiraḥ pramukhāś caiva tathā brahmarṣayo 'pare tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā 68 saritaḥ sāgarāś caiva gandharvāpsarasas tathā hariś ca bhagavān āste prajāpatipuraskṛtaḥ 69 tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā 70 tapanasya sutā tatra triṣu lokeṣu viśrutā yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī 71 gaṅgāyamunayor madyaṃ pṛthivyā jaghanaṃ smṛtam prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ 72 prayāgaṃ sa pratiṣṭhānaṃ kambalāśvatarau tathā tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ 73 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira prajāpatim upāsante ṛṣayaś ca mahāvratāḥ yajante kratubhir devās tathā cakracarā nṛpa 74 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho 75 śravaṇāt tasya tīrthasya nāma saṃkīrtanād api mṛttikā lambhanād vāpi naraḥ pāpāt pramucyate 76 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ puṇyaṃ saphalam āpnoti rājasūyāśvamedhayoḥ 77 eṣā yajana bhūmir hi devānām api satkṛtā tatra dattaṃ sūkṣmam api mahad bhavati bhārata 78 na veda vacanāt tāta na lokavacanād api matir utkramaṇīyā te prayāgamaraṇaṃ prati 79 daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana 80 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat snāta eva tadāpnoti gaṅgā yamuna saṃgame 81 tatra bhogavatī nāma vāsukes tīrtham uttamam tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt 82 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana 83 yatra gaṅgā mahārāja sa deśas tat tapovanam siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam 84 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca 85 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam 86 maharṣīṇām idaṃ guhyaṃ sarpapāpapramocanam adhītya dvijamadhye ca nirmalatvam avāpnuyāt 87 yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate 88 gamyāny api ca tīrthāni kīrtitāny agamāni ca manasā tāni gaccheta sarvatīrthasamīkṣayā 89 etāni vasubhiḥ sādhyair ādityair marud aśvibhiḥ ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ 90 evaṃ tvam api kauravya vidhinānena suvrata vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate 91 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chruti darśanāt prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ 92 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ snāti tīrtheṣu kauravya na ca vakramatir naraḥ 93 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā pitaras tāritās tāta sarve ca prapitā mahāḥ 94 pitā maha purogāś ca devāḥ sarṣigaṇā nṛpa tava dharmeṇa dharmajña nityam evābhitoṣitāḥ 95 avāpsyasi ca lokān vai vasūnāṃ vāsavopama kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm 96 [nārada] evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ prītaḥ prītena manasā tatraivāntaradhīyate 97 bhīṣmaś ca kuruśārdūla śāstratattvārtha darśivān pulastyavacanāc caiva pṛthivīm anucakrame 98 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati aśvamedha śatasyāgryaṃ phalaṃ pretya sa bhokṣyate 99 ataś cāṣṭa guṇaṃ pārtha prāpsyase dharmam uttamam netā ca tvam ṛṣīn yasmāt tena te 'ṣṭa guṇaṃ phalam 100 rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata na gatir vidyate 'nyasya tvām ṛte kurunandana 101 idaṃ devarṣicaritaṃ sarvatīrthārtha saṃśritam yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate 102 ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ ātreyas tv atha kauṇḍinyo viśvā mitro 'tha gautamaḥ 103 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ bharad vājo vasiṣṭhaś ca munir uddālakas tathā 104 śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ durvāsāś ca muniśreṣṭho gālavaś ca mahātapaḥ 105 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ ebhiḥ saha mahārāja tīrthāny etāny anuvraja 106 eṣa vai lomaśo nāma devarṣir amitadyutiḥ sameṣyati tvayā caiva tena sārdham anuvraja 107 mayā ca sahadharmajña tīrthāny etāny anuvraja prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ 108 yathā yayātir dharmātmā yathā rājā purūravaḥ tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase 109 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva 110 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ yathā vainyo mahātejās tathā tvam api viśrutaḥ 111 yathā ca vṛtrahā sarvān sapatnān nirdahat purā tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi 112 svadharmavijitām urvīṃ prāpya rājīvalocana khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā 113 [v] evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ anujñāpya mahātmānaṃ tatraivāntaradhīyata 114 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat |